________________ विहार 1290- अभिधानराजेन्द्रः - भाग 6 विहार क्षिप्याऽन्यत्र नयनं भवेत् / तथा गिरिनदीतटीकया मार्गे गच्छतोऽभिघातो भवेत्। 'रुक्खोल्ल'त्तियद्यार्दीकरणभयावृक्षमालायते सच वृक्षः प्रबलवातप्रेरिततया पतेत्, तत्राऽऽत्मसंयमविराधना। तथा यस्य वृक्षस्याधस्तिष्ठतितस्योपरि चित्रकादिकः श्वापदः आरूढो भवेत् तेनानागाढमागाढं वा परिताप्येत 'तेणे' त्ति अवहमानेषु मार्गेषु द्विविधाः स्तेनाविश्वस्ताः संचरेयुः, तैरुपधेर्वा तस्य वा साधोरपहारः क्रियते। अकाले वा परिभ्रमन् स्तेनक इति शङ्कयेत ? 'गिलाणे' त्ति तीमनादिके चोपभुक्ते अजीर्यमाणे ग्लानो भवेत् / एवमेतेष्वात्मविराधना संयमविराधना संयमात्मविराधना वा या यत्र सम्भवति सा तत्र योजनीया। अथ षट्कायविराधनां व्याख्यानयतिअक्खुन्नेसु पहेसुं, पुढवी उदगम्मि होइ उहओ वि। उल्लपयावणअगणी, इहरा पणगो हरियकुंथू।१९७|| अक्षुण्णा-अमर्दिताः पन्थानः प्रावृषि भवन्ति तेषु विहरन् पृथ्वीकार्य विराधयति, तथा द्विविधमापः भौमान्तरिक्षभेदाद् द्विप्रकारमप्युदकं तदा सम्भवति ततोऽप्कायविराधना, वर्षेणाऽऽीभूतमुपधिं यद्यग्निना प्रतापयति तदाऽग्निविराधना। यत्राऽग्निस्तत्र वायुरवश्यं भवतीति वायुविराधनाऽपि / इतरथा यदि उपधिं न प्रतापयति तदा पनकाः संमूर्च्छन्ति, तत्संसक्तं चोपधिं प्रावृण्वतः प्रत्युपेक्षमाणस्य वा अनन्तकायसङ्घट्टनादिनिष्पन्नं प्रायश्चित्तम् / हरितानि वा दूर्वादीनि तदानीमचिरोद्गतानि चिरन्तनानि च भवेयुः ततो वनस्पतिविराधना। अप्रत्युपेक्षमाणे उपौ कुन्थुप्रभृतयोजन्तवः सम्मूर्च्छन्ति, मार्गे गच्छतामिन्द्रगोपसिसुनागुकुत्तिकादयस्त्रसप्राणिनो बहवो भवन्ति, ततः त्रसकायविराधना, एवंषण्णामपि कायानां विराधना यतः प्रावृषि विहरतां भवति अतोन विहर्त्तव्यम्। द्वितीयपदे विहरेदपि कथमित्याहअसिवे ओमोयरिए, रायडुढे भए व गेलण्णे। आवाहादीएसुव, पंचसु ठाणेसुरीएला // 168ll अशिवे परपक्षतोऽवमौदर्ये वा संजाते असंस्तरन् गच्छेत्, राजद्विष्ट विरोधनाभयेवागच्छेत्। भये वा बोधिकस्तेनसमुत्थे यद्यमी मां द्रक्ष्यन्ति ततोऽपहरिष्यन्तीति मत्वा वा गच्छेत्, ग्लानो वा कश्चिदप्यत्र सञ्जातस्तस्य प्रतिचरणार्थं गच्छेत्, आबाधादिषु वा पञ्चसु स्थानेषूत्पन्नेषु प्रावृष्यपि रीयेत्-ग्रामान्तरं गच्छेत्। (3) तान्येवाबाधादीनि स्थानानानि दर्शयतिआबाहे व भये वा, दुब्भिक्खे वाहवादओ हंसि। पवाहणे व परेहि, पंचहि ठाणेहिं रीइला IEl आबाधंनाम-मानसी पीडा-भयं स्तेनादिसमुत्थं दुर्भिक्ष प्रतीतम् एतेषु समुत्पन्नेषु, अथवा-- वाढके नौपानीयप्रवाहे प्रतिश्रये ग्रामे वा व्यूढेसति परैर्वा प्रत्यनीकैर्दण्डकादिभिः प्रमथने परिभवे ताडने वा विधीयमाने एतेषु पञ्चसु स्थानेषु प्रावृष्यतिरीयेत्। एतंतु पाउसम्मि, मणियं वासासु नवरि चउ लहुगा। ते चेव तत्थ दोसा, बितियपदं तं विमुंचतं // 600|| एतदनन्तरोक्तं प्रायश्चित्तदोषजालं द्वितीय पदं च प्रावृषिभणितम्। अथ वर्षासुवर्षारात्रे अश्विनकार्तिकरूपे चरति ततश्चतुर्लधुकाः प्रायश्चित्तं,त एव च षट्कायविराधनादयो दोषाः / तदेव च द्वितीयपदमभिधीयतेअसिवे ओमोयरिए, राय(हे भये व गेलण्णे। नाणाइतिगस्सट्ठा, वीसुंभण पेसणेणं वा॥६०१।। अशिवे अवमौदर्ये राजद्विष्ट भये वा ग्लानकारणे वा समुत्पन्ने वर्षासु ग्रामानन्तरं गच्छेत् एतावत्प्रागुक्तमेव द्वितीयपदम्। अथैतदपरमुच्यते-- ज्ञानादित्रयस्याऽपि अर्थे योऽन्यत्र वर्षासु गच्छेत् तत्र अपूर्वः कोऽपि श्रुतस्कन्धोऽन्यस्याऽऽचार्यस्य विद्यते, सच भक्तं प्रत्याख्यातुकामो वर्तत सच श्रुतस्कन्धस्तस्मादाचार्यादगृह्यमाणो व्यवच्छिद्यते अतस्तदध्ययनार्थे वर्षास्वपि गच्छेत् / एवं दर्शनप्रभावकशास्त्राणामप्यध्ययनार्थं गच्छेत् / चारित्रार्थं नाम तत्र क्षेत्रे स्त्रीसमुत्थदोषैरेषणादोषैर्वा चारित्रं न शुद्ध्यति तन्निमित्तमन्यत्र वर्षासुगच्छेत् 'वीसुंभणं' -- मरणं तत्र यस्याऽऽचार्यस्य ते शिष्याः सआचार्यो मरणमुपगतः,तस्मिश्च गच्छे अपर आचार्यो न विद्यते अतस्ते वर्षास्वप्यन्यं गणमुपसंपत्तुंगच्छेयुः, अथवा-विश्वग्भवनं नाम कश्चिदुत्तमार्थ प्रतिपत्तुकामस्तस्य विशोधिकरणार्थ गच्छेत् / 'पेसणेणं व' त्ति कश्चिदाचार्येणान्यतस्मिन् औत्पत्तिके कारणे वर्षास्वपि प्रेषितो भवेत्, स च तस्मिन् कारणे समापिते भूयोऽपि गुरूणां समीपे समागच्छेत्। अथ वेदं द्वितीयं पदम्आऊ तेऊ वाऊ, दुबला संकामिए अ ओमाणे। पाणाइसप्पकुंथू, उहण तहथंडिलस्सऽसती॥६०२।। अप्कायेन वसतिः प्लाविता भवेत, स्थण्डिलानि वाव्यूढानि, अग्निकायेन वा प्रतिश्रयो ग्रामो वा दग्धो, वासुकायेन वा वसतिर्भग्ना 'दुब्बले त्ति वर्षेण तीम्यमाना वसतिदुर्बला पतितुकामा संजाता 'संकामिय' त्ति संग्रामो धिगजातीयादेः कस्याऽपि प्रत्यनीकस्य संक्रामितोदत्त इत्यर्थः / अथवा- 'संकायम' त्ति तानि श्राद्धकुलानि अन्यत्र ग्रामे संक्रान्तानि 'ओमाणे' त्ति इन्द्रमहादिषु बहवः पाण्डुराङ्गप्रभृतयः आगतास्तैरेव मानं सञ्जातं प्राणादि माकटिकौद्देशिकादिभिः वसतिः संसक्ता भवेत, सर्पो वा वसतौ समागत्य स्थितः, अनुद्धरिनामकैर्वा कुन्थुजीवैर्वसतिः संसक्तासमुपजायते, ग्रामो वा सकलोऽप्युत्थितः सचोदसीभूतः, स्थण्डिलस्य वा विचारभूमिलक्षणस्य हरितकायादिभिरभावः समजनि। एवमादिकस्तत्र व्याघातो भवेत्। अत एव ते साधवः प्रागेवामुं विधिं विदधतिमूलग्गामे तिनि तु, पडिवसभेसुं पि तिन्नि वसहीओ। ठायंता पेहिंति उ, वियारवाघायमाइट्टा // 603 / / मूलगामो नाम यत्र साधवः स्थिताः सन्ति तस्मिन् तिस्रो वसतीः प्रत्युपेक्षन्ते, प्रतिवृषभग्रामो नाम येषु मिक्षाचर्यया गम्यते तेष्वपि प्रत्येकं तिस्रो वसतीस्तिष्ठन्त एव प्रत्युपे