________________ विहार १२८१-अभिधानराजेन्द्रः - भाग 6 विहार पणगो व सत्तगो वा, कालदुर्गे खलु जहण्णतो गच्छो। बत्तीसाइसहस्सो, उक्कोसो सेसओ मज्झो॥४॥ कालद्विके ऋतुबद्धे काले, वर्षाकालेचजघन्यतः खलु यथाक्रमं गच्छो भवति, पञ्चकः सप्तकश्चापञ्च परिमाणमस्य पञ्चकः, एवं सप्तकः, वाशब्दः समुच्चये। किमुक्तं भवति- ऋतुबद्धे काले पञ्चको वर्षाकाले सप्तकः / कथमिति चेत् ? उच्यते- ऋतुबद्ध काले आचार्य आत्मद्वितीयो गणावच्छेदकस्त्वात्मतृतीयः, एवं पञ्चकः। वर्षाकाले जघन्यत आचार्य आत्मतृतीयो, गणावच्छेदकः आत्मचतुर्थः, एवं सप्तक इति। उत्कर्षतः कालद्विकेऽपि द्वात्रिंशत्सहस्राणि / तथा च भगवत ऋषभस्वामिनो ज्येष्ठस्य गणधरस्य पुण्डरीकनाम्नोद्वात्रिंशत्सहस्रोगच्छोऽभूत्। शेषकःशेषपरिमाणो गच्छो मध्यमः। (8) सम्प्रति जघन्यतः पञ्चकसप्तकाभ्यां हीनतायाः प्रायश्चित्तमाहउउवासे लहुलहुगा, एए गीते अगीते गुरुगुरुगा। अकयसुयाण बहूण वि, लहुओ लहुया वसंताणं / / 5 / / 'उउ' त्ति ऋतुकाले पञ्चकात् हीनानां गीतार्थानां विहरतां प्रायश्चित्तं लघुको मासः। 'वासे' त्ति वर्षाकाले सप्तकात् हीनानांगीतार्थानां विहरतां चत्वारो लघुका मासाः, एते लघुलघुका गीते-गीतार्थविषया द्रष्टव्याः। अगीते-अगीतार्थविषयाः पुनर्गुरुगुरुकाः / किमुक्तं भवति-ऋतुकाले पञ्चकात् हीनानामगीतार्थानां वसतां प्रायश्चित्तं गुरुको मासः, वर्षाकाले सप्तकात् हीनानामगीतार्थानां च चत्वारो गुरुकाः मासाः / अकृतश्रुतानामगृहीतोचितसूत्रार्थतदुभयानां बहूनामपि पञ्चकसप्तकादीनामपि वसतां यथाक्रममृतुकाले प्रायश्चित्तं लघुको मासः, वर्षाकाले चत्वारो लघुकाः। अत्र चोदक आहएवं सुत्तविरोहो, अत्थे वा उभयतो भवे दोसो। कारणियं पुण सुत्तं, इमे य तर्हि कारणा हुंति // 6|| यदि नामैतद् जघन्यादिभेदेन गच्छपरिमाणं तत एवं सति सूत्रतोऽर्थतस्तदुभयतश्च विरोधेदोषो भवेत् सूत्रेऽन्यथा विहारानुज्ञानात्। अत्राचार्यः प्राह-कारणिक कारणैर्निर्वृत्तं पुनरिदंसूत्रमतोनदोषः। तानिच कारणानि पुनरिमानि वक्ष्यमाणानि तत्राधिकृतसूत्रप्रवर्त्तनतो भवन्ति। तान्येवाहसंघयणे वाउलणा, नवमे पुय्वम्मि गमणमसिवादी। सागरजाये जयणा, उउबद्ध लोयणा भणिता // 7 // या इयं कारणविषया शेषवक्तव्यविषया च सूचागाथा ततोऽयं संक्षेपार्थःसंहननं यद्युत्तमं भवति, व्याकुलता वा व्याकुलीभवनं वा गच्छे, नवमे वा पूर्वे, उपलक्षणमेतत् दशमे वा सूत्रमभिनवगृहीतं, सम्यक् स्मर्त्तव्यमस्ति, यमनं वा अशिवादिभिः-अशिवाऽवमौदर्यादिभिः संपन्नम्, 'सागर' त्ति स्वयम्भूरमणसदृशमतिप्रभूतमनेकातिशयसम्पन्नम् नवमं पूर्व परावर्त्तनीयमस्ति, ततः एतैः कारणेविपि विहरेयाताम् / तथा- 'जाते' त्ति जातादिकल्पो वक्तव्यः, तत्रापि भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गेषु यतना वक्तव्या। तथा ऋतुबद्धे काले आगच्छद्गच्छद्भिरविरहितं तत्स्थानं कर्तव्यं गणिनाऽप्यवलोकना स्वयं करणीया कारणीया वा / एतानि कारणान्यधिकृत सूत्रप्रवृत्तौ भणितानि। साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः ___ संहननमिति पदं व्याख्यानयतिआयरिय उवज्झाया, संघयणधितिए जे उ उववेया। सुत्तं अत्थो य बहु, गहितो गच्छे य वाघातो |8|| आचार्या वा उपाध्याया वा जे संहननेन प्रथमेन वज्र-ऋषभ-नाराचलक्षणेन धृत्या च वजकुड्यसमानया उपेतायुक्ताः सूत्रमर्थो वा बहुःप्रभूतो गृहीतो गच्छे च सूत्रार्थस्मरणव्याघातः। (E) कुतो व्याघात इति चेत् ? उच्यते-व्याकुलनातः। तामेव व्याकुलनामाहधम्मकहि महिडीए, आवस्सयनिसिहियाय आलोए। पडिपुच्छ वादि पहुणग, रोगी तह दुल्लभं मिक्खं / / वाउलणा सा भणिया, जह उद्देसम्मिपंचमे कप्पे। नवम दसमाउ पुवा, अमिणवगडिया उनासेजा / / 10 / / स हि धर्मकथी लब्धिसम्पन्नस्ततो भूयान् जनः श्रोतुमागच्छतीति धर्मकथया व्याकुलना, तथा महर्द्धिको राजादिः धर्मश्रवणाय तस्य समीपमुपागच्छति, ततस्तस्य विशेषतः कथनीये तदावर्जने भूयसामावर्जनादन्यथा व्याकुलनातः सम्यग् धर्मग्रहणाभावे तस्य रोषः स्यात्। तस्मिश्च रुष्ट भूयांसो दोषाः / अथवा- अन्यः कश्चनापि महर्द्धिकाय कथयति, तदानीमपि तूष्णीकैर्भवितव्यं, मा भूत् कोलाहलतस्तस्य सम्यग्धप्रितिपत्तिरिति कृत्वा / तथा महति गच्छे बहव आवश्यकी निर्गच्छन्तः कुर्वन्ति, बहवः प्रविशन्तो नैषेधिकी ते सम्यनिरीक्षणीयाः, अन्यथा तयोरकरणे उपलक्षणमेतदन्यस्या अपि सामाचार्याः प्रत्युपेक्षणाऽऽदेः सम्यक्करणे यदि स्मारणं न करोति तत उपेक्षाप्रत्ययप्रायश्चित्तसम्भवस्तत आवश्यकादिनिरीक्षणायां व्याघातः। तथा भिक्षामटित्वा समागतस्य तस्य सङ्घाटकस्यालोचयतो यदि पठ्यते तदा विकटनायामग्रेतनस्य पश्चात्तनस्य च सम्मोहः, सम्मोहाच सम्यगनालोचना, तद्भावाचरणव्याघात इति तदाऽऽलोचनायां न पठनीयम् / तथा च गच्छे वसतो बहवः प्रतिपृच्छानिमित्तमागच्छन्ति, ततस्तेषामपि प्रत्युत्तरदाने व्याधातः / तथा तं बहुश्रुतं तत्र स्थितं श्रुत्वा वादिनः समागच्छन्ति ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातस्ततस्तन्निग्रहणेऽपि व्याकुलना / तथा महति गणे बहवः प्राधूर्णकाः समागच्छन्ति ततस्तेषां विश्रामणयापर्युपासनयाचव्याघातः।तथाबहवः खलुमहतिगणेग्लानास्तेषां यावदालोचना श्रूयते तावद्व्याकुलना, तथा महति गणे भूयसां प्राधूर्ण