________________ विहार 1282- अमिधानराजेन्द्रः - भाग 6 विहार कादीनां प्रायोग्यं दुर्लभमिति साधवः केऽपि कुत्राप्यन्यत्र प्रेषणीय इति व्याघातः। 'वाउलणासा' इत्यादि, एषा व्याकुलनायथा कल्पे-कल्पाध्ययने पञ्चमे उद्देशे सविस्तरंभणिता तथाऽत्रापिद्रष्टव्या।'नवमदसमाउ पुव्वे' ति व्याख्यानयति, नवमे दशमे पूर्वे अभिनवे गृहीते यदि सततं न स्मर्यते ततो नश्येतामतोऽर्थं द्वयोर्विहारः! 'गमणमसिवादी' ति व्याख्यानार्थमाहअसिवादिकारणेहि, उम्मुगनायं ति होजजादोण्णि। सागरसरिसं नवम, अतिसयनयभंगगहणत्ता॥११॥ अशिवं नाम–मारिःसा उपस्थिता तत्रच ज्ञातमुल्मुकं यथा उल्मुकानि बहून्येकत्राहृतानि ज्वलन्ति एक द्वौ वा नज्वलतः, एवं त्रिप्रभृतिषु बहुषु मारिः प्रभवति नैकस्मिन् द्वयोर्वा / तत एवमशिवकारणेनादिशब्दादवमौदर्येण राजप्रद्वेषतो वा गणभेदस्तावद्भवति यावत् पृथक् पृथक्वावपि भवेतामतो नानुपपन्नो द्वयोर्विहारः। 'सागरे' त्ति व्याख्यानयति सागरसदृशंस्वयम्भूरमणजलधितुल्यं नवममुपलक्षणमेतत्, दशमं च पूर्वम् / कस्मादित्याह--- अतिशयनयभङ्गादनेकैरतिशयैरनेकैर्नयैरनेकैर्भङ्गेश्व गुपिलत्वात्, ततोऽगीतार्थानामतिशयाकर्णनं मा भूत, नयबहुलतया भङ्गबहुलतया वा बहूनां मध्ये परावर्त्तनं दुष्करमिति द्वयोर्विहारः। अन्यचपाहुडविजातिसया, निमित्तमादी सुहं व पइरिके। छेदसुयम्मि व गुणणा, अगीयबहुलम्मि गच्छम्मि॥१२॥ प्राभृतं-ज्योतिषप्राभृतं गुणयितव्यं विद्यातिशया नाम विद्याविशेषा यैराकाशगमादीनि भवन्ति ते वा परावर्तनीया वर्तन्ते / निमित्तम्अतीतादिभावप्ररूपकम्, आदिशब्दात्-योगा मन्त्राश्च परिगृह्यन्ते। एते सर्वेऽपि सुख-सुखेन प्रतिरिक्ते-विविक्ते प्रदेशे अभ्यस्यन्ते, न अगीतबहुले-अगीतार्थसंकुले गच्छे छेदश्रुतस्य व्यवहारादेर्गाथायां सप्तमी षष्ठ्यर्थे गुणनापरावर्तनम् कर्तुं शक्यम्, मा तेषामगीतार्थानां कर्णाभ्यटनतः श्रुत्वा विपरिणामतो गच्छान्निर्गमनमभूदिति सूरेरुपाध्यायस्य चात्मद्वितीयस्यान्यत्र गमनम्।। (10) सम्प्रतियादृशे द्वयोरन्यत्र गमनमुचितं तादृशमाहकयकरणिज्जा थेरा, सुत्तत्थविसारया सुयरहस्सा। जे य समत्था वोढुं, कालगयाणं उवहिदेहं // 13 // कृतकरणानामगीतार्थतया-परिणामकतया चान्यदापि अन्यैः सहानेकशः ईदृशानि कार्याणि कृतवन्तः। यद्यपिचकदाचित् द्वितीयं सहायं न कृतवान् तथाऽपि योग्यतया सकृत्करणीय इव द्रष्टव्यः। स्थविराः श्रुतेन पर्यायेण च, तथा सूत्रार्थयोर्विशारदाः सूत्रार्थविशारदाः, तथा श्रुतानि रहस्यानि अनेकान्यनकेशो यैस्ते श्रुतरहस्या इति सहायं प्रति विशेषणं सूररुपाध्यायस्य वा पूर्वगतसूत्रार्थधारिणोऽधिगतच्छेदश्रुतस्य च श्रुतरहस्यत्वाव्यभिचारात्, तथा द्वयोरेकतरस्मिन् कालगते अपरेण शरीरपरिस्थापनिकां कर्तुं गच्छता द्वयोरप्युपधिः शून्यायां वसतौ न मोक्तव्यो न दस्यवस्तमपहार्युरिति कृत्वा द्वयोरत्युपपधिzतकशरीरं वान्यतरेण वोढव्यं ततो येकालगतानां देहं द्वयोरुपधिं वा वोढुं समर्थास्ते अधिकृत सूत्रविषयाः। तथा चाऽऽह-- एयगुणसंपउत्ता, कारणजाएण ते दुयग्गाऽवि। उउबद्धम्मि विहारो, एरिसयाणं अणुन्नातो॥१४॥ एतैरनन्तरगाथोक्तैर्गुणैः सम्प्रयुक्ता एतद्गुणसम्प्रयुक्ताः, कारणजातेनानन्तरोदितेन केनचित्कारणविशेषेण तावाचार्यादिकावुपाध्यायादिको वा ऋतुबद्धे काले विहरतो न कश्चित् दोषोऽधिकृतसूत्रेणानुज्ञानात्, तथा चाऽऽहईदृशयोर्ऋतुबद्धेकाले अधिकृतसूत्रेण विहारोऽनुज्ञातो दोषाभावात्कारणविशेषेस्य च गरीयस्त्वात् जातेति चत्वारः कल्पाः सूचिताः। तानेवाऽऽहजातो य अजातो वा, दुविहो कप्पो उहोति नायव्वो। एकेको विय दुविहो, समत्तकप्पो य असमत्तो // 15 // द्विविधः खलुकल्पो भवति ज्ञातव्यस्तद्यथा-जातोऽजातश्च / एकैकोऽपि च द्विधा--समाप्तकल्पः, असमाप्तकल्पश्च। एतानेव चतुरो व्याख्यानयतिगीयस्थों जायकप्पो-गीतो खलु भवे अजातो तु। पणगं समत्तकप्पो, तदण्णगो होति असमत्तो।।१६|| जातकल्पो नाम-यो गीतार्थः सूत्रार्थतदुभयकुशलः, अगीतः-अगीतार्थः खलु भवेदजातो-ऽजातकल्पः / समाप्तकल्पो नाम परिपूर्णसहायः, स च जघन्येव पञ्चकंपञ्चकपरिमाण ऋतुबद्धे कालेवर्षाकाले सप्तपरिमाणः तदूनकस्तस्मात्पञ्चकात्सप्तकाद्वा हीनतरः कल्पो भवत्यसमाप्तोऽपरिपूर्णसहायत्वात्। अत्र भङ्गचतुष्टयं तदेवाह-- अहव जातो समत्तो, जातो चेव य तहेव असमत्तो। असमत्तोनातोय, असमत्तो चेव उ अजातो // 17 // अथवेति प्रकारान्तरे पूर्व कल्पचतुष्टयं सामान्यतः प्ररूपितमिदानीं संयोगतः प्ररूप्यते। जातकल्पोऽपिसमाप्तकल्पोऽपीत्येको भङ्गः।जातकल्पोऽसमाप्तकल्प इति द्वितीयः / अजातकल्पः समाप्तकल्प इति तृतीयः / अजातकल्पोऽसमाप्तकल्पइतिचतुर्थः / अत्र प्रथमभङ्गःशुद्धः, शेषेषु तु त्रिषु भङ्गेषु यतना कर्तव्या। 'तेसिं 'जयणे' त्ति सूचागाथोक्तं पदं व्याख्यानयन् प्राहतेसिं जयणा इणमो, भिक्णग्गहनिक्खमप्पवेसे य। ऽणुण्णवणं पिव समगं,तिय गिहें दिनहोहाणं // 18 // तेषामाद्यवानांत्रयाणांभङ्गानामिययतना-समकमेककालंभिक्षाग्रहाय उपलक्षणमेतत् विचाराय च निष्क्रमः, समकमेव चावग्रहस्यानुज्ञापनम्। इयमत्रभावना-भिक्षाग्रहणाय विचाराय वा सर्वमुपकरणमादाय समकमेव निष्क्रामतः समकमेव च प्रविशतः,तथा वसतिप्रथमंयाचमानौ समकमेव शय्यातरमनुज्ञापयतः, तथा निर्गच्छन्तौ समकमेव शय्यातरसमीपमुपगम्य बुवाते, यथा--गृह-गृहस्य प्रतिश्रयस्य उपधानस्थगनंदद्यादिति।