________________ विहार 1276 - अभिधानराजेन्द्रः - भाग 6 विहार त्रैव गता-तद्व्याख्याऽत्र)-इह सूत्रार्थधरत्वे चतुर्भङ्गी। तद्यथा-सूत्रधरो नामैको नार्थधरः 1, अर्थधरो नामैको न सूत्रधरः 2, एकस्सूत्रधरोऽ-- प्यर्थधरोऽपि 3, अपरो न सूत्रधरो नाप्यर्थधरः 4, अयं चतुर्थो भङ्ग उभयशून्यत्वादवस्तुभूतः / शेषभङ्ग-त्रयमधिकृत्याह- गीतेन सूत्रेण केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीती भवति। अर्थन केवलेन सम्यगधिगतेनार्थी भवति, ज्ञातव्यम्, अर्थधरः इत्युक्तं भवति / यस्तु गीतेन चार्थेन चोभयेनाऽपि युक्तस्तं गीतार्थं विजानीहि इति / इदमत्र तात्पर्यम्-तृतीयभङ्गवत्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्रोदुमर्हतिन प्रथमद्वितीयभङ्गवर्तिनाविति। (5) अथ येषां गीतार्थानां तनिश्रितानां वा विहारो भवति तान् दर्शयतिजिनकप्पिओं गीयत्थो परिहारविसुद्धिओऽवि गीयत्थो। गीयत्थे इविदुर्ग,सेसागीयत्थनीसाए॥६६॥ जिनकल्पिको नियमाद्रीतार्थः परिहारविशुद्धिकः, अपि-शब्दात्प्रतिमाप्रतिपन्नको यथालन्दकल्पिकश्चावश्यतया गीतार्थः जघन्यतोऽप्यधीतनवमपूर्वान्तगीताचारनामकतृतीयवस्तुकत्वादेषामिति। तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोकिं द्रष्टव्यम् / सूत्रे अनुलोमः प्राकृतत्वात् आचार्य उपाध्यायो वा नियमाद्गीतार्थः / एष सर्वेषामपि स्वातन्त्र्येण विहारो विज्ञेयः, शेषाः साधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारतन्त्र्ये विहरन्ति। इदमेव पश्चार्द्ध भावयतिआयरियगणी इड्डी, सेसा गीता विहाँति तन्नीसा। गच्छगयनिग्गया वा, ठाणनिउत्ताऽनिउत्तावा॥६९६|| आचार्यः- सूरिर्गणी-उयाध्यायः एतौ यत ऋद्धिमन्तौ सातिशयज्ञानादिऋद्विसम्पन्नौ अतिशायनेऽत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादौ अतः शेषाः साधवो गीतार्था अपि तन्निश्रया आचार्योपाध्यायपरतन्त्रतया विहरन्ति / अथके ते शेषाः? इत्याह-गच्छगता, गच्छनिर्गता वा / तत्र गच्छगता गच्छमध्यवर्तिनः, गच्छनिर्गता "असिवे ओमोयरिए" इत्यादिभिः कारणैरेकाकीभूताः। अथवा-स्थाननियुक्ताः स्थानाऽनियुक्ता वा। स्थानेपदे नियुक्ता व्यापारिताः स्थाननियुक्ताःप्रवर्तकस्थविरगणावच्छेदकाख्याः; पदस्थगीतार्था इत्यर्थः। तद्विपरीताः स्थानाऽनियुक्ताः, सामान्यसाधव इत्यर्थः / एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति। कथमित्याहआयारपकप्पधरा, चउदसपुथ्वी अजेय तम्मज्झा। तन्नीसाएँ विहारो, सबालवुडस्स गच्छस्स // 667|| आचारप्रकल्पधरा निशीथाध्ययनधारिणो जधन्यगीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमाः / तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानामनिश्रया बालवृद्धस्याऽपि गच्छस्य विहारो न भवति। (6) नपुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तु युक्तः कुत इति चेदुच्यतेएगविहारी य अजा-यकप्पिओ जो भवे चवणकप्पे। उवसंपन्नो मंदो, होहिह वोसट्टतिहाणो // 698|| एकः सन् विहरतीत्येवं शील एकविहारी, स च अजातकल्पिकोऽगीतार्थः, तथा च्यवनं-चारित्रात् प्रतिपतनं तस्य कल्पः--प्रकारश्च्यवनकल्पः-पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत्स एकाकित्वमुपसम्पन्नः प्रतिपन्नः सन् मन्दः- सद्बुद्धिविकलो भविष्यति, व्युत्सृष्टत्रिस्थानः-व्युत्सृष्टानि-परित्यक्तानि त्रीणि स्थानानि-ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः, एषा नियुक्तिगाथा। अथैनामेव विवृणोतिमुत्तूण गच्छनिग्गते,गीयस्स वि एकगस्स मासो उ। अविणीए चउगुरुगा, चवणे लहुगाय भंगट्ठा॥६६॥ मुक्त्वा, गच्छनिर्गतान्--जिनकल्पिकादीन् गीतार्थस्याऽपि एककस्य एकाकिविहारं कुर्वतो मासलघु, अविनीते गीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः, च्यवने-पार्श्वस्थादिविहारे यदि मनसाऽपि संकल्पं कुरुते तदा चत्वारो लघुकाः, 'भंगट्ठ' त्ति अष्टौ भङ्गा अत्र कर्तव्याः। तद्यथा-एकाकी अजातकल्पिकः च्यवनकल्पिकश्च 1, एकाकी जातकल्पिकश्च्यवनकल्पिकश्व 2, एकाकी अजातकल्पिको न च्यवनकल्पिकः 3, एकाकी जातकल्पिको न च्यवनकल्पिकः 4, एवमेकाकिपदेन चत्वारोभङ्गा लब्धाः, नैकाकिपदेनापि चत्वारो लभ्यन्ते। संख्यया अष्टी भङ्गाः। अत्राऽष्टमो भङ्गस्त्रिष्वपि पदेषु शुद्धत्वात्प्रायश्चित्तरहितः। शेषेषु तु यथायथमनन्तरोक्रं प्रायश्चित्तम् / एतेषु सप्तष्वपि भङ्गेषु वर्तमानस्य दोषमुपदर्शयितुमुपसम्पन्नपदंव्याचष्टेएगागित्तमणट्ठा, उवसंपजइ चुओ व जो कप्पो। सो खलु सोच्चो मंदो, मंदो पुण दय्वभावेणं / / 700 / / य एकाकित्वम् अनर्थात्-ज्ञानादिप्रयोजनाभावादुपसम्पद्यते अङ्गीकरोति, यो वा च्युतः प्रतिपतितः कल्पात् संविनविहारात् स खलु वराकः द्रव्यजीवितेनजीवन्नपिशोच्यः-शोचनीयः संयमजीविताभावात्, मन्दश्चासौ (मन्दस्वरूपं मंद' शब्दे अस्मिन्नेव भागे 25 पृष्ठे गतम्।) बृ० १उ०१ प्रक०1 अथ यदुक्तं नियुक्तिगाथायां 'होहिइवोसट्ठतिट्ठाणे' त्ति तत्र कानि पुनस्ताति त्रीणि स्थानानि यानि तेन परित्यक्तानि। उच्यते-- नाणाई तिहाणं, अहव ण चरणप्पओ पवयणं च। सुत्तत्थं तदुभयाणि व, उग्गमउप्पायणाओ वा // 702 / / एकाकी-ज्ञानादीनि ज्ञानदर्शनचारित्राणि त्रीणि स्थानानि वक्ष्यमाणनीत्या परित्यजतीति 'अहवण' त्ति अखण्डमव्ययमथवाऽर्थे चरणमात्मा प्रवचनं चेति वा त्रीणि स्थानानि।तत्र गीतार्थतयाऽसौ षट्कायविराधनया चरणम्, अतिप्रचुराहारलक्षणादिना ग्लानत्वाद्यापन्ना वाऽऽत्मानम्, अयतनया संज्ञाव्युत्सर्गादिना प्रवचनंच परित्यजति।अथवा-सूत्रार्थतदुभयानि त्रीणि स्थानानि, तत्रासावेकाकितया कदाचित्सूत्रं विस्मारयति, कदाचिदर्थं, कदाचित्तदुभयम् / यद्वाउद्गमोत्पादने वाशब्दादेषणा येति त्रीणि स्थानानि च निरङ्कुशत्वादेकाकी परित्यजतीति प्रकटमेव /