________________ विहार 1277 - अभिधानराजेन्द्रः - भाग 6 विहार एतान्येवानन्तरोदितानि स्थानानि गीतार्थो गीतार्थनिश्रितश्च वर्जयति। तत्र गीतार्थः स्वयं कुशलत्वाद,गीतार्थनिश्रितश्च गीतार्थोपदेशेन एष भावविहारो द्विविधो भणितः समासतः- संक्षेपेण। सो पुण होई दुविहो, समत्तकप्पो तहेव असमत्तो। तत्थ समत्तो इणमो, जहण्णमुक्कोसतो होइ॥३३|| स पुनः- भावविहारो द्विविधोऽपि भूयो द्विविधो भवति, तद्यथासमाप्तकल्पः, तथैवासमाप्तो-5समाप्तकल्पः। तत्र यः समाप्तकल्पः स द्विविधो भवति। तद्यथा--जघन्य, उत्कृष्टश्च / अनयोरेव प्रमाणमाहगीयत्थाणं तिण्हं, समत्तकप्पो जहण्णतो होइ। वत्तीससहस्साई,हवंतिउकोसओ एस|३४|| गीतार्थानां (तिह) त्रयाणां विहारः समाप्तकल्पो जघन्यो भवति, उत्कृष्टस्त्वेष समाप्तकल्पोद्वात्रिंशत्सहस्राणि भवन्ति। तिण्ह समत्तो कप्पो, जहण्णओ दोण्णि उज्जुया विहरे। गीयत्थाण विलहुओ, अगीएँ गुरुगा इमे दोसा // 35 // त्रयाणां किल समाप्तकल्पो जघन्यो भवति। ततो यदा द्वौ विहरतस्तदा द्वयोर्गीतार्थयोर्विहरतोलघुको मासः प्रायश्चित्तम्, अगीतार्थयोश्चत्वारो गुरुकाः। द्वयोश्च विहरतोरिमे वक्ष्यमाणा दोषाः। तानेवाहदोण्ह वि विहरंताणं, सलिंगगिहिलिंगअन्नलिंगे य। होइ बहुदोसवसही, गिलाणमरणे य सल्ले य॥३६|| द्वयोर्विहरतोः स्वलिङ्गगृहिलिङ्गानधिकृत्य भूयांसो दोषाः, तथा एको वसतिपालकः एको भिक्षार्थ गतस्तत्र यो भिक्षार्थं गतस्तस्य स्वलिङ्गे संयत्या आलापादिकं पृच्छन्त्या आत्मपरोभयसमुत्था दोषाः, परलिङ्गे घरकादिकायाः, गृहिलिङ्गे स्त्रियाः प्रोषितभर्तृकादिकायाः, 'होइ बहुदोसवसहि त्ति-हिण्डमानात्वसतिर्बहुदोषा भवति। किमुक्तं भवतिवसतिपालस्य हिण्डमानापेक्षया भूयांसो दोषाः / एकान्तमिति कृत्वा स्वलिङ्गिन्यादीनामुपपातसम्भवात्, प्रदीपनके च लग्ने एकाकी स कथं करोति ? अथैते दोषामा भूवन्निति शून्यां वसतिं कृत्वा निर्गच्छतः तदानीं वक्ष्यमाणा बहतो दोषास्तद्यथा-द्वयोर्विहरतोर्यधेको ग्लानो भवति तदा तस्य ग्लानस्य एकाकिनो मोचने पिपासादिसम्भवः, तथा मरणेमरणकाले शल्यं नोद्धृतमिति शल्येन तथाऽवस्थिते सति गरीयांसो दोषाः। व्य०। (दसतेः सर्वो विषयः 'वसहि शब्देऽस्मिन्नेव भागे६३८ पृष्ठे गतः।) अत्रोपसंहारमाहजम्हा एते दोसा, तम्हा दुण्हं न कप्पति विहारो। एयं सुत्तं विफलं, अह सफलं निरत्थओ अत्थो // vel यस्माद् द्वयोर्विहारे एते-अनन्तरोदिता दोषास्तस्मान्न कल्पते द्वयोर्विहारः / अत्र पर आह-नन्वेतत्सूत्रमफलंद्वयोर्विहारस्यैवासम्भवात्। अथसफलं तर्हि द्वयोर्विहारः सूत्रे नानुज्ञात इति योऽयमर्थतः प्रतिषिद्धो भवद्भिर्विहारः सोऽर्थो निरर्थकः सूत्रेणाऽबाधितत्वात्। आचार्य आहमा वय सुत्तनिरत्थं, न निरत्थगवाइणो जतो थेरा। कारणियं पुण सुत्तं, इमे य ते कारणा हुति // 50 // मावद-मा ब्रूहि त्वं चोदक! यत्सूत्रं निरर्थकम्, यतः स्थविरा भगवन्तो निरर्थकवादिनोन भवन्ति तेषां श्रुतकेवलित्वात्। यद्येवमर्थतः प्रतिषिद्धो द्वयोर्विहारः, अथ च सूत्रे प्रतिपादित इति कथम् ? अत आह-सूत्रं पुनः कारणेषु भवं कारणेन निर्वृत्तं वा कारणिकं कारणान्यधिकृत्य प्रवृत्तमिति भावः / तानि च कारणानि अमूनिवक्ष्यमाणलक्षणानि। तान्येवाहअसिवे ओमोयरिए, रायासंदेसणे जयंता वा। अजाण गुरुनियोगा, पव्यजानातिवग्गदुगे॥५१॥ अशिवं क्षुद्रदेवताकृत उपद्रवः तस्मिन् द्वयोर्विहारः, तथा अवमौदर्य --- दुर्भिक्षं तस्मिन्, अथवा-राजा प्रद्विष्टो भवेत् ततो द्वयोर्विहारः 'संदेसण' त्ति-आचार्यप्रेषणेन द्वौ विहरेयाताम् ‘जयन्ता वा' इति यतमाना नाम ज्ञाननिमित्तं दर्शननिमित्तं वा प्रयत्नवन्तः / इयमत्र भावना-विषमशास्त्राणि सम्प्रति कालगृहीतानि च यदि नाभ्यस्तानि क्रियन्ते ततो विस्मृति-मुपयान्ति / गच्छे च सबालवृद्धाकुले भिक्षाचर्यादिना व्याघातस्तत आचार्यानापृछ्य तैर्विसृष्टौ द्वावप्यन्यत्र गन्छेयाताम्। एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विहारो भावनीयः / आचार्याणां वा एकस्मात् क्षेत्रात्, अन्यस्मिन् क्षेत्रे नयने संघाटस्य गुरुनियोगात् द्वयोविहारो भवेत्, यदि वा-प्रव्रज्याभिमुखः कोऽपि सजातस्ततस्तस्य स्थिरीकरणार्थ सङ्काटकः प्रेष्यः, यदि वा- ज्ञातिवर्गः- स्वजनवर्गः कस्याऽपिसाधोर्वन्दापनीयो जातः, ततस्तद्वन्दापनार्थं द्वौ विहरेयातामिति। तत्र यतनामाहसमय भिक्खग्गहणं, निक्खमणपवेसणं अणुण्णवणं / एको कहमावण्णो, एको व कहं न आवण्णो // 12 // यदि नाम प्रागुक्तकारणवशात् तौ विहरन्तौ द्वावपि समकंयुगपत् भिक्षाग्रहणं कुरुतः, समकं भिक्षानिमित्तं हिण्डेते इत्यर्थः। एवं समकमेव शेषप्रयोजननिमित्तमपि निष्क्रामतोव्रजतः, समकमेव च प्रविशतः-गत्वा प्रत्यागच्छतः, तथा समकमेवाऽनुज्ञापनं कुरुतः / किमुक्तं भवतिसमकमेव नैषेधिक्यादिकं शय्यातरादिकमनुज्ञापयतः ततः एकाकिनः सतो ये प्रागुक्ताः दोषाः ते प्रायोन सम्भवन्ति। पर आह-यद्येवं समकभिक्षाग्रहणादिकरणं कथमेकः प्राप्तः-प्रायश्चित्तस्थानमापन्नः, एको वा कथं नाऽऽपन्नः? इति। सूरिराहएगस्स खमणभाण-स्स धोवणं बहियइंदियऽत्थेहि। एएहि कारणेहि, आवण्णो वा अणावण्णो // 53 / / एकस्य क्षपणमभक्तार्थोऽभवत्- एके न तु क्षपणं न कृतम्, तत्र यदि क्षपणकारी शक्नोति, ततो द्वावाप समकं भिक्षा