SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ विहार 1276 - अभिधानराजेन्द्रः - भाग 6 विहार स्तेनानां प्रसरस्ततस्तेनास्ता अपहरन्ति, एवं सोऽजानन् गा विनाशयति / इतरस्तु जानन एतानि सर्वाण्यापत्स्थानानि परिहरति, योऽपि निश्रितस्तमपि परिहारयति, एष दृष्टान्तः। अयमर्थोपनयः-यो गीतार्थः स सर्वानपि दोषान् स्वयं परिहरति, यस्तु निश्रितस्तं परिहारयति। यः पुनः स्वयमगीतार्थो यश्च अगीतार्थनिश्रितस्तयोरात्मविराधना संयमविराधना च भवति। (3) तानेवात्मविराधनादिदोषान् विवक्षुरिगाथामाह - मग्गे सेहविहारे, मिच्छत्ते एसणादिविसमे य। सोही गिलाणमादी, तेणा दुविहा व तिविहा वा // 27 // मार्ग-मार्गविषये तथा शैक्षे-शैक्षकुलविषये एवं विहारे मिथ्यात्वे एषणाऽऽदौ विषमे शोधौ ग्लानादौ दोषाः, स्तेना द्विविधास्त्रिविधा वा ये भवन्तितेभ्योऽपि दोषा भवेयुः एष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव द्वारगाथां विवरीषुः प्रथमतो मार्गद्वारं शैक्षद्वारं चाहमग्गं सद्दव रीयइ, पाउस उम्मग्गगहणजयणाए। सेहकुलेसु य विहरइ, अणुयत्तति ण गाहेइ / / 28|| मार्ग --पन्थानं सेवते सोऽजानन् अगीतार्थः सन् द्रवचारितया रीयतेगच्छति। तत्र संयमविराधना कुन्थ्वादिसत्त्वो पमर्दनात्, आत्मविराधना पादादिविस्खलनात् / तथा अनयतया 'पाउस' त्ति प्रावृष्यपि काले गच्छति तत्राऽपि संयमविराधना आत्मविराधना च / तथा मार्गोन्मानिभिज्ञतया उन्मार्गेऽपि गच्छति, तत्र स्थाणुकण्ट कादिभिरात्मविराधना, सचित्तपृथिव्याधुपमर्दनात्संयमविराधना च / तथा ग्रहणशिक्षायाम, आसेवनाशिक्षायां वा अप्रवीणत्वात्, अयतनया वा गच्छेत् अयतनया च संयमात्मविराधना। गत मार्गद्वारम् / शैक्षद्वारमाह-'सेहे' त्यादिशैक्षकुलानि-अभिनवप्रपन्नव्रतानि तेष्वज्ञतया स विहरति-तेभ्यो यतनया भक्तपानादिकमुत्पादयतीति भावः। तथा नतानि अनुवर्त्तयति-- नानुवर्त्तनागुणतः वर्द्धमानतरधर्मश्रद्धाकानि करोति अनुवर्तनाया अपरिज्ञानात् / तथा न ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षा वा श्रावकधम्मोचिताम् उभयोरपि शिक्षयोस्तस्याकुशलत्वात् / गतं शैक्षद्वारम्। अधुना विहारद्वारं मिथ्यात्वद्वारं चाहदस्सुदें से पच्चंते, वइयादिविहारपाणबहुले य। अप्पाणं च परं वा, न मुणइ मिच्छत्तसंकंतं // 29 // सोऽज्ञतया दस्युदेशे-चौरदेशे विहारं करोति, यदि वाप्रत्यन्ते-बहुले म्लेच्छाकुले, अथवा--लुब्धतया ब्रजिकादौ आदिशब्दात् -स्वज्ञातिकादिकुलपरिग्रहः, यदि वा-प्राणिबहुले जीवसंसक्ते देशे एतेषु यथायोगमात्मविराधना संयमविराधना च भूयसीति / गत विहारद्वारम्। अधुना मिथ्यात्वद्वारमाह- 'अप्पाणं चे' त्यादि, स वराकोऽजानन् आत्मानमपि कुप्ररूपणादिभिर्मिथ्यात्वशङ्कासंक्रान्तं न जानाति, नाऽपि परम्। ततः आत्मनः परस्य च मिथ्यात्वं प्रवर्द्धयतीत्युभयेयामपि संसारप्रवर्द्धकः / गतं मिथ्यात्वद्वारम्। अधुना एषणाद्वारमाहआहार उवहि सेज्जा, गुग्गमउप्पायणेसणकडिल्ले। लग्गइ अवियाणतो, दोसे एएसु सव्वेसुं॥३०॥ आहारो-भक्तपानादिरूपः, उपधिः-कल्पादिलक्षणः, शय्यावसतिः; एतेषां ग्रहणे इति गम्यते। किं विशिष्ट ? इत्याह- उगमेन-उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिरुत्पादनया उत्पादनादोषेर्धात्र्यादिभिः षोडशभिरेषणया-गवेषणादिदोषैः शङ्कितम्रक्षितप्रभृतिभिः संयोजनाप्रमाणाङ्गारधूमैः काकशृगाला-दिभक्षितैश्च 'कडिल्ले' इति महागहने सति सोऽविजानन् एतेष्वनन्तरोदितेषु दोषेषु सर्वेषु लगति। द्वारगाथायामेषणादाविति य आदिशब्दः स समस्तोगमादिदोषपरिग्रहार्थः। तथा 'विसमे' इति विषमे च पर्वतजलादौ या यतना तां स न जानाति, अजानंश्चात्मविराधनां संयमविराधनां चाप्नोति। सम्प्रति शोधिद्वारमाहमूलगुण उत्तरगुणे, आवण्णस्स य न जाणई सोहिं। पडिसिद्धे तिन कुणति, गिलाणमादीण तेगिच्छं // 30 // मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशीं तस्मिन्नपराधे न जानाति, अजानानश्चाप्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महत्याशातना भवेत्। गतं शोधिद्वारम्। अधुना ग्लानादिद्वारमाह- 'पडिसिद्धे त्यादि प्रतिषिद्धा खलु चिकित्सा षड्जीवनिकायविराधनोपपत्तेरिति वचनमकान्तेनाङ्गीकुर्वन्ग्लानादीनाम् आदिशब्दः स्वगतानेकभेदसूचकः आगाढा-नागाढसहासहबालतरुणग्लानादीनां चिकित्सां न करोति, न च तद्विषयां यतनां जानाति / ततः चिकित्साया यतनायाश्च अकरणे भूयांसो दोषास्ते च प्रागेव प्रथमोद्देशकेऽभिहिताः। सम्प्रति 'तेणा दुविहा व तिविहा वा' इत्यादि व्याख्यानयतिअप्पसुय त्तिय काउं, दुग्गाहे हरंति खुड्डादी। तेण सपक्ख इयरे, सलिंगिगिहिअन्नहा तिविहा॥३१॥ स्तेना द्विविधाः- स्वपक्षाः, परपक्षाश्च / तत्र स्वपक्षा द्विविधाःगीतार्थाः, पार्श्वस्थादयश्च / तत्र गीतार्था इदं चिन्तयन्ति- अभी अल्पश्रुता अल्पश्रुतत्वाच अगीतार्थाः; नचागीतार्थानां क्षेत्रम-स्ति। ततः एवं चिन्तयित्वा तेषां सचित्तादि गातार्था अप हरन्ति / पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्ति, तथा दुष्करा चर्याऽमीषां न च दुष्करचर्यायाः सम्प्रति देशकालौ तस्मादत्रागच्छतेति। एवं व्युद्ग्राह्यक्षुल्लकादीन् आदिशब्दात्तरुणादिपरिग्रहः, अपहरन्ति / परपक्षामिथ्यादृष्टयस्तेऽपि क्षुल्लकादीन् व्युद्ग्राह्य अपहरन्ति / अथवा-- त्रिविधा-स्तेनास्तद्यथा-- स्वलिङ्गाः, पार्श्वस्थादयः तेऽपि पूर्ववत् , गृहिणस्तस्करास्ते उपधिप्रभृतीनपहरन्ति। अन्ये वा–स्वलिङ्गगृहिभ्यो व्यतिरिक्तास्ते च भिक्षुकादयोऽवगन्तव्यास्ते क्षुल्लकादीन् व्युद्ग्राह्याऽपहरन्ति। एए चेव य ठाणे, गीयत्थो निस्सितो उ वजेइ। भावविहारो एसो, दुविहो उ समासओ भणिओ // 32||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy