________________ विस्सोअसिआर० 1272 - अमिधानराजेन्द्रः - भाग 6 विहंगम विस्सोअ(सिस्सिआरहिय-त्रि०(विश्रोतसिकारहित) संयमानु सारिचेतोविघातवर्जिते, पं०व०३द्वार। विह-पुं०(विह) अनेकाहगमनीये पथि, आचा०२ श्रु०१ चू०३ अ०१ उ०। अध्यनि, नि० चू०१ उ० अटवीप्राये दीर्घ अध्वनि, आचा०२ श्रु०१चू०३ अ०३ उ०। विध न० विधीयते क्रियते कार्यजातमस्मिन्निति विधम्। आकाशे, भ०२० श०२ उ०। विहायस्-न० विशेषेण हीयते त्यज्यते तदिति विहायः / आकाशे, भ० 20 श०२ उ०। विहई-(देशी) वृन्ताक्याम, दे० ना० 7 वर्ग 63 गाथा। विहंगम-पुं०(विहङ्गम) विहायसा गच्छतीति विहङ्गमः। पक्षिणि, सूत्र०१ श्रु०३ अ०४ उ०। एमेए समणांदुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ||3|| ('धम्म' शब्दे चतुर्थभागे 2688 पृष्ठे व्याख्यातमिदंसूत्रम्।) अवयवार्थ सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि चविहङ्गमं व्याचष्ट-स द्विविधः-द्रव्यविहङ्गमो, भावविहंगमश्च तत्र तावद् द्रव्यविहङ्गमं प्रति पादयन्नाहधारेह तं तु दव्वं, तंदव्वविहामं वियाणाहि। भावे विहंगमो पुण, गुणसन्नासिद्धिओ दुविहो / / 117 / / धारयति-आत्मनि लीनं धत्ते तत्तु द्रव्यमित्यनेन पूर्वोपात्तं कर्म निर्दिशति, येन हेतुभूतेन विहंगमेषूत्पस्यत इति / तुशब्द एवकारार्थः। अस्थानप्रयुक्तश्च, एवं तु द्रष्टव्यः-धारयत्येव, अनेन च धारयत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुङ्क्त इत्येतदावेदितं भवति, द्रव्यमिति, चात्र कर्मपुद्गलद्रव्यं गृह्यते, न पुनराकाशादि, तस्यामूर्तत्वेन धारणायोगात्, संसारिजीवस्य च कथंचिन्मूतत्वेऽपि प्रकृतानुपयोगित्वात् / तथाहि-यदसौ भवान्तरं नेतुमलं, यच विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतम्, न चैवमन्यः संसारिजीव इति, तं द्रव्यविहंगममित्यत्र यत्तदोनित्याभिसंबन्धादन्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते-धारयत्येव तद् द्रव्यं यस्तं द्रव्यविहङ्गममिति। द्रव्यं च तद्विहङ्गमश्च स इति द्रव्यविहंगमः, द्रव्यं जीवद्रव्यमेव, विहंगमपर्यायेणाऽऽवर्तनाद, विहंगमस्तु कारणे कार्योपचारादिति। तं विजानीहि-अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि / दश०। (भावविहंगमव्याख्या 'भाव' शब्दे पञ्चमभागे 1460 पृष्ठे गता।) तस्मिन् भावे कर्मविपाकलक्षणे, किम् ?-विहङ्गमे-वक्ष्यमाणशब्दार्थः, पुनः शब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेषयति, गुणश्च सज्ञांच गुणसंज्ञे, गुणः-अन्वर्थः संज्ञापारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि "सिद्धिर्भवतु"-इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या हेतुभूतया, किम् ? - द्विविधोद्विप्रकारा, गुणसिद्ध्या-अन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या चयदृच्छाभिधानयोगेन च / आह- यद्येवं द्विविध इति न वक्तव्यम्, गुणसंज्ञासिद्ध्येत्यनेनैव द्वैविध्यस्य गतत्वात, न, अनेनैव प्रकारेणह द्वैविध्यम्, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः / / 117|| तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराहविहमागासं भण्णइ, गुणसिद्धी तप्पइडिओ लोगो। तेण उ विहामो सो, भावत्थो वा गई दुविहा॥११८|| विजहाति-विमुञ्चति जीवपुदलानिति विहं, ते हि स्थितिक्षयात्स्वयमेव तेभ्यः-- आकाशप्रदेशेभ्यश्च्यवन्ते, तांश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादिविमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि संज्ञाशब्दत्वात्, आकाशन्तेदीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम, किम् ?- संतिष्ठत इत्यादि क्रियाव्यपोहार्थमाह-भण्यते-आख्यायते। गुणसिद्धिरित्येतत्पदं गाथाभङ्ग भयादस्थाने प्रयुक्तम्, संबन्धश्चास्य 'ते न तु विहंगमः 'स' इत्यत्र तेन स्वित्यनेन सह वेदितव्य इति। ततश्चायं धाक्यार्थः-तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यतें तेनैव कारणेन गुणसिद्ध्या- अन्वर्थसम्बन्धेन विहङ्गमः / कोऽभिधीयत ? इत्याह--तत्प्रतिष्ठितो लोकः, तदित्यनेनाकाशपरामर्शः, तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठितः-प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यतिचेतिगम्यते। कोऽसावित्थमित्यत आहलोकः लोक्यत इति लोकः, केवलज्ञानभास्वता दृश्यत पदार्थः / इह धर्मादि पञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्ति-कायस्याधारत्वेन निर्दिष्टत्वाचत्वार एवास्तिकाय गृह्यन्ते, यते नियुक्तिकारेणाभ्यधायि-'तत्प्रतिष्ठितो लोकः' 'विहङ्गमः स' इत्यत्र विहेनभसि गतो गच्छति गमिष्यतिचेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः / स इति चतुरस्तिकायात्मकः, भावार्थ इति-भावश्चासावर्थश्य भावार्थः, अयं भावविहङ्गम इत्यर्थः / उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह– 'वा गतिििवधेति,' वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः-गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणामिति गाथार्थः // 118|| तथा चेदमेव द्वैविध्यमुपदर्शयन्नाहभावगई कम्मगई, भावगई पप्प अत्थिकाया उ। सव्वे विहंगमा खलु, कम्मगईए इमे भेया॥११६।। भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा-- भवन्त्येतेषु स्वगता उत्पादविगमध्रौव्याख्याः परिणामविशेषा इति भावाःअस्तिकायास्तेषां गतिः- तथा परिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम, क्रिया वा। कर्म च तद्रति चासौ कर्मगतिः, गमनं गच्छत्यसया वेति गतिः,