________________ विसेसावस्सय 1266 - अभिधानराजेन्द्रः - भाग 6 विसेसावस्सय संक्षेपेणास्यार्थः कथितः, संक्षेपभैणनमात्रशक्तिकत्वान्मम। विस्तरतस्त्वशेषविस्तरेणातिगम्भीरार्थत्वादिदं केवलिनः पूर्वविदो वा प्रभाषन्त इति // 3602 // अथैतद्भाष्यं श्रुत्वा विनेयानां यदिहैव फलं भवति तदुपदर्शनार्थमाहसवाणुओगमूलं, भासं सामाइअस्स सोऊण। होइ परिकम्मिअमई,जोग्गो सेसाणुओगस्स॥३६०३|| | इदं च सर्वानुयोगमूलं--सर्वानुयोगकारणं सामायिकस्य भाष्यंविवरणं श्रुत्वा-निशम्यैतत्परिकर्मितमतिः सन् विनेयः शेषशास्त्रानुयोगस्य योग्यः-कुशलः क्षमो भवति / इति चतवारिंशदाथार्थः // 3603 / / पूर्व चाध्यवसानपर्यन्तव्याख्यातगाथानाम् // 2803 / / उभयं व्याख्यातभाष्यगाथानाम्॥३६०३|| शेषाणितु चतुर्दशाधिकसप्तशतान्यतिदेशेनैव गतानि, न तु व्याख्यातानि, इति नेह गणितानि, इत्येषा शिष्यहिता नाम विशेषावश्यकवृत्तिः समाप्ता / इह गम्भीरापारजन्मजरामरणसलिलसंचयसंपूर्णे अनवरतभ्राम्यन्महामोहावर्तभीमे विविधविस्त्रोतसिका-वेलाव्यतिकरदुरतिक्रमे निःसंख्यकुविकल्पकल्लोलमालाकुले, प्रसरदज्ञानमहामेघदुर्दिनान्धकारनिकुरम्बभीषणे अनेकापद्विद्युन्निपातसंपादितमहाभये रागद्वेषदुर्वातसंततिसंजनितहृदयोत्कम्पे अविश्रान्तसंज्वलितक्रोधातिरौद्रवडवामुखे अमानमानशैलस्खलनदुर्गी कृतगमागमव्यतिकरे मायावल्लीवितानगुप्यत्सत्त्वसंघाते विभवसलिलातिदुष्पूरलोभमहोदरे विविधव्याधिसंबन्धमत्स्यकच्छपपृष्ठपृच्छच्छटाटोपग्राहनक्रादिप्रचुरजलचरसंचरणसंजनितविषमसंचारे शारीरमानसानन्तदुःखप्रदापारसंसारवारांनिधौ मां निमग्नं विकलं निःशरणं दीनमवलोक्य कोऽपि करुणापरीतमानसः सद्गुणगुरुमहापुरुषः सम्यग्दर्शनातिदृढमहाप्रतिष्ठानमष्टादशशीलाङ्ग सहस्रविचित्रफलकनिविड्यटनाविराजितंसम्यग्ज्ञाननिर्यामकान्वितंसुसाधुसंसर्गकार्थसूत्रनिबिडबन्धनबद्धं संवरकीलप्रभग्ननिःशेषास्रवद्वारं सूत्रितसामायिकच्छेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयं तदुपर्युपकल्पितसाधुसमाचारकरणरणमण्डपं समन्ततोगुप्तित्रयप्रस्खरागुप्तम्, असंख्यशुभाध्यवसायसंनद्धदुर्योधयोधसहस्रदुरवलोकं, सर्वतो निवेशितसद्गुरूपदेशावल्लिकनिकुरम्बं मध्यव्यवस्थापितस्थिरतरातिसरलसदोधकूपस्तम्भंतद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटतदग्रसमारूढप्रौढसदुपयोगपञ्जरदौवारिकं तदवबद्धाप्रमादनगरनिकरसमायुक्तमित्यादिसर्वाङ्गसंपूर्णतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास, भणितवांश्चभो महाभाग! समधिरोह त्वमस्मिन्यानपात्रे। समारूढश्चात्र मदीयशिक्षां कुर्वाणस्त्वमक्षेपेणैव दुस्तरमप्यमुंभवजलधिमुत्तीर्य प्राप्स्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरत्नद्वीपम्। ततश्च तद्वचनेनाश्वासितोऽहमारूढस्तत्र, समर्पितं च मम तेन महापुरुषेण सद्भावनामञ्जूषायां प्रक्षिप्य शुभमनोनामकं महारत्नम्।अभिहितं च मां प्रति रक्षणीयमिदं प्रयत्नतो भद्र ! तिष्ठति ह्यस्मिन् महाप्रभावे शुभमनोरत्नेएतद्यानपात्रम्, यथोक्तो निर्यामकः, कूपस्तम्भः, योधाः, पञ्चर- 1 दौवारिकं सर्व क्रमेणावतिष्ठमानमभीष्टदेशं त्वां प्रापयति, एतदभावे तु सर्वमतत् प्रलयमुपयाति / अत एव तव पृष्ठतः सर्वादरेणैतदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्काराः, तेभ्यश्च त्वयेदमित्थं रक्षणीयम् / सद्भावनामञ्जूषाङ्गानां चाग्रतो नानाभङ्गसंभवेऽन्यान्यमूनि च तदङ्गानितस्यां निवेशनीयानि। इत्यादिशिक्षा प्रयच्छन्मयाऽपि समं दूरदेशं गत्वा ततोऽन्तर्हितः संजातः। श्रुतश्चायं सर्वोऽपिव्यतिकरः प्रमादपरताभिधानां महापल्लीं समाश्रितेन दुष्टतस्कराधिपतिना मोहराजेन। ततो 'रे रेतस्कराधमाः ! हता वयम्, यतः केनाप्यस्मद्वैरिणा निजयानपात्रमारोप्यास्मदविषयभूतं शिवरत्नद्वीपं नेतुमारब्धः सोऽमुकसंसारिजीवः, सचन केवलंचलितः, किन्त्वन्यानपि यथादर्शमात्मना सहाऽनेकान् नयन् तिष्ठति / तद् 'यावदेतदस्मदीयसंसार नाटकं सर्वशून्यं न करोति तावद् धावत धावत' इति ब्रुवाणः ससंभ्रममुत्थाय महादुष्टो दुर्बुद्धिनामिका महानावमारूढः कुवासनाभिधाननौवृन्दादिरूढाशेषतस्करनिकरसहित एव प्रधावितः सत्वरम्। समागतश्च यानपात्रदेशम्। ततः पूत्कृतं पञ्चरदौवारिकेणभो भोः ! समायाता एतास्तास्तस्करचेटिकाः, प्रगुणीभवत यूयम / तदेतत् श्रुत्वा निर्यामकोत्साहितास्तदुपदिष्टविधिनैव रणमण्डपमारूढाः सञ्जीभूताश्चारित्रधर्मनृपतिसैन्येन सह पूर्वोक्तरूपायोधाः / गृहीतानिच सर्वैरपि पञ्जरदौवारिकादिभिर्यथोचित जीवादितत्त्वचिन्तनादिरूपाणि नाराचादिप्रहरणानि / मोहराजेनापि निरूपितो मिथ्यादर्शनमन्त्री, उत्साहिताः कषायचरटाः, तर्जितं हास्यादिषट्कलुण्टाकवृन्दम्, पुरस्कृतः पुरुषवेदादिपरिवृतकाममहातस्करः व्यापारिता निद्रातन्द्रादयः, प्रेरिताश्चक्षुर्दर्शनावरणादयः, अग्रेसरीकृतं रोगाद्यसातवेदीनयसैन्यम्, प्रवर्तिता जराऽन्तरायादयः, स्वयमपि च निजतनयरागकेसरिद्वेषगजेन्द्रादितलवर्गान्वितेन मोहचरटाधिपेन वेष्टितं समन्ततोऽनन्तगुणपरिपाट्या यानपात्रम्। प्रहर्तुमारब्धं चाक्षेपेण सर्वैरपि समकालम्। ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्रिणा समाक्षिप्तो.मिथ्यादर्शमन्त्री, प्रथम-मार्दवाऽऽर्जवादिमहायोधैरपिलीलयैव निरुद्धाः क्रोधादिकषायचरटाः, वैराग्यब्रह्मव्रतादिमहासुभटैरपि दूरमुत्त्रासितो हास्यादिनिजतलवर्गानुगतः काममहालुण्टाकः / अप्रमादमहारथिनाऽपि श्रुतोपयोगोद्यमादिनाराचैस्ताडिताः शिरसि निन्द्रातन्द्रादयः, तदावरणक्षयोपशमवीरेणाप्यधरीकृताश्चक्षुर्दर्शनावरणादयः, सद्धर्मानुष्ठानोद्दीपितसातोदयसैनिकेनापि विलक्षीकृतं रागाद्यसातवेदनीयसैन्यम्, पुण्योदयमहाबलराजपुत्रेणापि निष्प्रभावीकृता जराऽन्तरायादयः / एवमन्येषामप्यनन्तानां चारित्र-धर्मराजसैनिकानां निजनिजप्रतिपक्षेण सह महासमरसम्मः प्रवृत्ते निजसैन्यं किञ्चिद् नश्यमानमवलोक्य 'रे रे तस्कराधमाः ! किमेतदारब्धम्, स्थिरीभूय लगत लगत सर्वात्मना' इति ब्रुवाणो मोहचरट- चक्रवर्ती ससैन्य एवारब्धो युगपत् प्रहर्तुम् / केचित् त्वतीव छलघानितो मोहसैनिकाः केनापि पक्षण समारोहन्ति तद् यानपात्रम्, विप्रतारयितुमुपक्रमन्तेमाम, प्रविशन्तिरणमण्डपस्यान्तः,प्रहरन्ति छन्नीभूताः,समाहत्य जर्जरयन्तिसद्भावनामञ्जूषाङ्गानि।ततोमया तस्य परमपुरुषस्योपदे