________________ विसेसावस्सय 1267 - अमिधानराजेन्द्रः - भाग 6 विसोदण्णय - शं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिकाभिधानं सदावनामञ्जूषायां नूतनफलकम्, ततोऽपरमपि शतकविवरणनामकम्, अन्यदप्यनुयोगद्वारवृत्ति संज्ञितम् / ततोऽपरमप्युपदेशमालासूत्राभिधानम्, अपरं तु तद्वृत्तिनामकम्, अन्यच जीवसमासविवरणनामधेयम्, अन्यत्तु भवभावनासूत्रसंक्षिप्तम्, अपरं तु तद्विवरणनामकम्, अन्यच्च झटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं निवेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् / एतैश्च नूतनफलकैर्निवेशितैर्वजमयीव सजाताऽसौ मञ्जूषा, तेषां पापानामगम्या। ततस्तैरतीवच्छलघातितया सञ्चूर्णयितुमारब्धं तद्द्वारकपाटसम्पुटम्। ततो मया ससंभ्रमेण निपुणं तत्प्रतिविधानोपायं चिन्तयित्वा विरचयितुमारब्धं तवारपिधानहेतोर्विशेषावश्यकविवरणाभिधानं वज्रमयमिव नूतनकपाटसम्पुटम् / ततश्चाभयकुमारगणिधनदेवगणि जिनभद्रगणिलक्ष्मणगणि-विबुधचन्द्रादिमुनिवृन्द-श्रीमहानन्द--श्रीमहत्तरावीरमतिगणिन्यादिसाहाय्याद् 'रे रे निश्चितमिदानी हता वयम्, यद्येतद् निष्पद्यते, ततो धावत धावत, गृह्णीत गृह्णीत, लगत लगत, 'इत्यादि पूत्कुर्वतां सर्वात्मशक्त्या युगपत् प्रहरता हा हारखं कुर्वतांच मोहादिचरटानां चिरात् कथं कथमपि विरचय्य तद्वारे निवेशितमेतदिति। ततः शिरो हृदयं च हस्ताभ्यां कुट्टयन विषण्णो मोहमहाचरटः, समस्तमपि विलक्षीभूतं तत्सैन्यम्, विलीनं च सनायकमेव / ततः क्वचित् क्षेमेण शिवरत्नदीपं प्रतिगन्तुं प्रवृत्तं तद्यानपात्रमिति। "क्क श्रीजिनभद्रगणेः, पूज्यस्यैतानि भाष्यवचनानि / तर्कव्यतिकरदुर्गा---ण्यतिगम्भीराणि ललितानि // 1 // विवृतानि स्वयमेव हि, कोट्याचार्यश्च बुधजनप्रवरैः। सङ्गच्छते व पुनरपि, ममापि वृत्तेः प्रयासोऽत्र / / 2 / / ऋजुभणितिमिच्छतामिह, तथापि मत्तोऽपि मन्दबुद्धीनाम् / उपकारः केषाञ्चित्, समीक्ष्यते शिष्टलोकानाम् / / 3 / / तेनात्मपरोपकृति, संभाव्य मयाऽपि भाष्यवृत्तिरियम्। विहिता श्रुतेऽतिभक्तिं, शुभं विनोदं च चिन्तयता // 4 // यचेह किमपि वितथं, लिखितमनाभोगतः कुबोधाद्वा। तत् सर्वं मध्यस्थै-मैय्यनुकम्पापरैः शोध्यम्॥५॥ कृत्वा च विवरणमिदं, यत् पुण्यमुपार्जितं मया किञ्चित्। तेनाभवक्षयाद--स्तु जिनमते प्रीत्यविच्छेदः // 6 // " ग्रन्थाग्रं प्रत्यक्षरंगणनया सहस्राणि (28000) . श्रीमत्तपोगॅणगगना-गणगगनमणिप्रभैः स्वपुण्यार्थम्। विजयानन्दमुनीन्द्र-श्वित्कोशेऽसौ प्रतिमुमुचे॥१॥" विशेषावश्यकप्रशस्तिः"श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशास्त्रः / विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः // 13 // ज्ञानादिकुसुमनिचितः,फलितः श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पद्रुम इव गच्छः, श्रीहर्षपुरीयनामाऽस्ति // 2 // एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधितुङ्गत्वानुकृतक्षमाधरपतिः साम्यत्वतारापतिः। सम्यग्ज्ञानविशुद्धसंयमतपः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवद् निःसङ्गचूडामणिः / / 3 / / रत्नाकरादिवैतस्माद, शिष्यरत्नं बभूव तत्। स वागीशोऽपि नो मन्ये, यगुणग्रहणे प्रभुः // 4 // श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रवरतौयैः। द्रुम इव यः संसिक्तः, कस्तद्गुणकीर्तने विबुधः?||५|| तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमं प्रायोऽतिदुष्टा अपि। यद्वक्त्राम्बुनिधिर्यदुज्ज्वलवचः पीयूषपानोद्यतैगीवणिरपि दुग्धसिन्धुमथने तृप्तिने लेभे जनैः॥६॥ कृत्वा येन तपः सदुश्चरतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैगुणैः। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैः स्तुतं सस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः / / 7 / / यमुना प्रवाहविमल-श्रीमन्मुनिचन्द्रसूरिसम्पर्कात्। अमरसरितेव सकलं, पवित्रितं येन भुवनतलम्।।८।। विस्फूर्जत् कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम्। सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षण्णः समुयोतितो, मार्गः सोऽभयदेवसूरिरभवद् तेभ्यः प्रसिद्धो भुवि॥६॥ तच्छिष्यलवप्रायै-रगीतार्थेरपि शिष्टजनतुष्ट्यै। श्रीहेमचन्द्रसूरिभि-रियमनुरचिता प्रकृतवृत्तिः // 10 // शरदां च पञ्चसप्त-त्यधिकैकादशशतेष्वतीतेषु // 1175 // कार्तिकसितपञ्चम्यां, श्रीमजयसिंहनृपराज्ये // 11 // विशे०॥ विसोग-त्रि०(विशोक) विगतशोके, उत्त० 320 अ०। आचा०। विसोगा-स्त्री०(विशोका) योगजसिद्धिभेदे, द्वा० 26 द्वा०। (विशोका सिद्धिः 'केवलि' शब्देतृतीयभागे 668 पृष्ठे व्याख्याता।) विसोत्तिया-स्त्री०(विस्रोतसिका) इन्द्रियैर्मनसा संयमस्थानप्लावने, व्य० ६उ०ास्त्र्यादिरूपसन्दर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषफलायां चित्तविक्रयायाम, दश०५ अ०१ उ० / आचा० / विशे०। विश्रोतसिका द्विधा-द्रव्यतो, भावतश्च / तत्र द्रव्यतः सारिणीपनीयं वहमानम्। भावतः--यया तणदिकचवरस्थानीयया चित्तविप्लुत्या निरुद्धे सति चारित्रस्य विनाशो जायते सा विश्रोतसिकेत्युच्यते / बृ०१ उ०३ प्रक० / आ० चू० / शङ्कायाम, -- आचा०१ श्रु०१ अ०३ उ०। विसोदण्णय-पुं०(वृषोदन्वत) विधिकृतमात्रप्रतिमापूजाप्ररूपके, प्रति०। वृषोदन्वदनुसारिणो मतमुपन्यस्य दूषयतिवन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, स प्रायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम्। हन्तवं यतिधर्मपौषधमुख श्राद्धक्रियादेर्विधेदौर्लभ्येन तदस्ति किं तवन यत् स्यादिन्द्रजालोपमम्॥६८| प्रति०। ('चेझ्य' शब्दे तृतीयभागे 1243 पृष्ठसोपपत्तिकं व्याख्यातम् / )