________________ विसंभोग 1253 - अभिधानराजेन्द्रः - भाग 6 विसंभोग प्रथमवेलायामपि तस्य विसंभोगः / एवं द्वितीयवारं तृतीयवारमपिचतुर्थधारमावृत्तस्यापि नियमतो विसंभोगः / वारत्रयेऽपि तस्य प्रायश्चित्तं मासलघु, कारणे त्वन्यसांभोगिकेनापि सममुपधिमुत्पादयन् शुद्धः / एवं पार्श्वस्थादिभिर्गृहिभिर्यथाछन्दैश्च सह वेदितव्यम्, प्रायश्चित्तविधिरपि तथैव नवरं यथा--छन्दे मासगुरु चतुर्गुरुकमित्यपरे। योऽपि पार्श्वस्थादेः संघाटकं प्रयच्छति तस्यापि मासलघुः तथा संयतीभिः संविग्नाभिरसंविग्राभिर्वा सांभोगिकाभिरसांभोगिकाभिर्वा सममुद्गमेन शुद्धमशुद्धं वोपाधमुत्पादयतश्चतुर्गुरुकम्। एतत्तावत्पुरुषवर्गेऽभिहितं संयतीवर्गेऽपि द्रष्टव्यम् / एवं षोडशभिरुत्पादनादोषेर्दशभिरेषणादोषैः सांभोगिकेन सममुपधिमुत्पादयन् शुद्धः, विपर्यासे प्रायश्चित्तविधिः पूर्ववत् (2,3) / 'परिकम्मण' त्ति परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणतःसंयतप्रायोग्यं करोति / तत्र भङ्गाश्चत्वारस्तद्यथापरिकर्मणा कारणे विधिना 1, कारणेऽविधिना 2, निष्कारणे विधिना 3, निष्कारणेऽविधिना 4, अत्र प्रथमभङ्गःशुद्धः, द्वितीयेमासलघुतपोगुरु,तृतीयेमासलघुकालगुरु कम्, चतुर्थे मासलघुद्वाभ्यां गुरु। संविग्नैरन्यसांभोगिकैः समंचतुर्थेष्वपि भङ्गेषु मासलधु, अत्रापि द्वितीयादिषु भङ्गेषु पूर्ववत्। तपःकालविशिष्टत गृहस्थैः पार्श्वस्थादिभिः समं प्रत्येकं चतुर्लधुकं, यथाछन्दैः समंचतुर्गुरुकमत्रापि द्वितीयादिषु भङ्गेषु प्राग्वत्, तपःकालविशिष्टता। तथा सांभोगिकीनां संयतीनामुपधिं विधिना संयतीप्रायोग्यं गणधरः परिकर्मयन् 'ददानश्च परिशुद्धः, अविधिना परिकर्मयतश्चतुर्गुरु, पार्श्वस्थादिसंयतीनां गृहस्थानां च कारणे विधिनेत्यादि भङ्गचतुष्टये प्रत्येक चतुर्गुरु / द्वितीयादिषु भङ्गेषु तपः कालविशिष्टता प्राग्वत् / तथा परिहरणा नाम परिभोगस्तत्रापि भङ्गचतुष्टयं कारणे विधिना 1, कारणेऽविधिना 2, निष्कारणे विधिना 3, निष्कारणेऽविधिना 4, तत्र प्रथमभङ्गे सांभोगिकैः सममुपकरणं परिभुजानः शुद्धः शेषेषु द्वितीयादिषु भङ्गेषु मासलघु तपःकालविशिष्टम्, असांभोगिकैः सममुपकरणं परिभुजानस्य चतुर्वपि भङ्गेषु मासलधु, द्वितीयादिषु तु तपःकालविशिष्टता पार्श्वस्थादिभिर्गृहस्थादिभिश्च सममुपभुजानस्य भङ्गचतुष्टयेऽपि प्रत्येक चतुर्लघु, यथाछन्दैः संयतीभिः गृहस्थाभिश्चतुर्गुरु। उभयत्रापि द्वितीयादिषु भङ्गेषु तपः कालविशिष्टता 5 // संभोगोठ्यादिपदानां मीलनम् / तत्र भङ्गाः षड्विशतिः, तद्यथा-दश द्विकसंयोगाः, दश त्रिकसंयोगाः पञ्चचतुष्कसंयोगाः एकः पञ्चसंयोगः / तत्र दश द्विकसंयोगा इमे-साम्भोगिकेन सममुद्गमेनोत्पादनयाच शुद्धमुपधिमुत्पादयतीति प्रथमः, उद्गमेनैषणया च द्वितीयः। उद्गमेन शुद्धमुत्पादयति परिकर्मयति चेति तृतीयः। उद्गमेन शुद्धभुत्पादयति परिहरति चेति चतुर्थः / एते चत्वारोऽपिभङ्गाउद्गमपदममुञ्चतालब्धाः एवमुत्पादनापदामोचनेन लभ्यन्ते त्रयः, एषणापदामोचनेन द्रौ, परिकर्मणापरिहरणापदयोरेकः। दशत्रिकसंयोगा इमे-साम्भोगिकः साम्भोगिकन सममुद्गमेनोत्पादनया एषणया च शुद्धमुत्पादयतीति प्रथमः / उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिकर्मयति चेति द्वितीयः / उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिहरति चेति तृतीयः। इत्याधुपयुज्य वक्तव्यम्। एवं पञ्चचतुष्कसंयोगाः। एकः पञ्चकसंयोगश्च वक्तव्यः। एतेषु च षड्विशतिभङ्गेषु सांभोगिकेन समं शुद्धः, असांभोगिकादिभिः सममसांभोगिकादिविषयं व्यादिसंयोगनिष्पन्नं प्रायश्चित्तम्। तद्यथा-उद्रमनिष्पन्नमुत्पादनानिष्पन्नमित्यादि, एवमुक्तमुपधिसंभोगः। सम्प्रति श्रुतसंभोगादीनतिदेशत आहएवं जहा निसीथे, पंचमउद्देसए समक्खातो। संभोगविही सब्दो, तहेव इह इंपिवत्तव्यो॥५६॥ एवमुक्तेन प्रकारेण यथा निशीथे-निशीथाध्ययने पञ्चमे उद्देशके सर्वश्रुतादिसंयोगनिष्पन्न प्रायश्चित्तविषयं संभोगविधिः समाख्यातस्तथैवेहापि वक्तव्यः / स च ग्रन्थगौरवभयान्न शक्यते लिखितुमिति तत एवावधारणीयः। एष च संभोगविधिः पूर्वमस्मिन्नर्द्धभरते सर्वसंविग्नानामेकरूप आसीत् पश्चात्कालदोषत इमे सांभोगिका इमे त्वसांभोगिका इति प्रवृत्तम्। किं कारणमिति चेदत आहअगडे भाउय तिलतं-दुले सरक्खे य गोणि असिवे य। अविणढे संभोगे, सय्वे संभोइया आसी॥५७।। पूर्वमविनष्ट संभोगे सर्वे संविनाः सांभोगिका एकसंभोगा आसीरन्। पश्चात्तु कालवैगुण्यतः सांभोगिकाऽसांभोगिकविभागः। तत्र दृष्टान्तोऽवटः 1 गाथायां जातावेकवचनम्, एवमुत्तरत्रापि / तथा द्वौ भ्रातरौ 2, तिलाः 3, तण्डुलाः 5, सरजस्काः 5, गोवर्गश्वाशिवविषयः६। तत्रावटदृष्टान्तभावनार्थमाहआगंतु तदुत्थेण व, दोसेण विणहें कूवें तो पुच्छा। कुत आणीयं उदयं, अविणढे नासि सा पुच्छा / / 5 / / "एगस्स नगरस्स एक्कीए दिसाए बहवे महुरोदगा कूवा, तत्थ केइ कूवा आगंतुकेण तया विसाइणा दोसेण केइ तदुत्थेण खारलोणविसपाणियसिरासंभवरूवेण विणट्ठा। तत्थ केसु वि कूवेसु पाणियं पिज्जमाणं, कुट्ठाइणा सरीरसंदूसणकर हवइ। केईजीवंतकरा भवंति। केइण्हाणायमणाइसु अविरुद्धा, केईण्हाणाइसु विरुद्धा। तत्र बहुजणो एयद्दोस दुढे ते नाउं आणीए पाणीए पुच्छइ, कओ आणियंतत्थ जइ निधोसं तो परिभुजंति, अहसदोसंतो वजंति। तत्थ विजइजाणंतेन सदोसमाणीयं ताहे सो तओ फेडिज्जइ तजिज्जइय। अह अयाणंतेणमाणीयं तो वारिजइ मा पुणो आणेज्जासि।"अक्षरगमनिका त्वेवम्-आगन्तुकेन तदुत्थेन वा दोषेण कूपे कूपसंघाते विनष्ट सति ततस्तदनन्तरं यतस्ततोवा समानीते उदके लोकस्य पृच्छा प्रावर्तत कुत आनीतमिदमुदकम् ? इति। अविनष्ट कूपसंघाते नासीत् सा पृच्छा / एष दृष्टान्तोऽयमर्थोपनयः अविनष्ट संभोगे नसांभोगिकासंभोगिकपृच्छा आसीत्, अधुना दुःषमानुभावतः केचिचारित्रशरीरोत्तरगुणदूषका अभवन्, केचिचारित्रजीवितव्यपरोपकाः। केचिसंस्पर्शपरिभोगिनः। केचित्संस्पर्शतोऽपि विवर्जिताः। ततः परीक्षाः।।१। अधुना भ्रातृदृष्टान्तमाहभोइकुलसेवि भाउय, दुस्सीलेगे तुजा यतो पुच्छा।