________________ विसंधि 1252 - अभिधानराजेन्द्रः - भाग 6 विसंभोग दो विसंधी। (सू०१०+) स्था० 2 ठा०३ उ०। कल्प०। विसंभ-पुं०(विश्रम्भ) विश्वासे, प्रव०२ द्वार।। विसंभट्ठाण-न०(विश्रम्भस्थान) विश्वासस्थाने, प्रव०२ द्वार। विसंभोइय-पुं०(विसंभोगिक) विसंभोगो दानादिभिरसंव्यवहारः, स यस्यास्ति स विसंभोगिकः।स्था०३ठा०३ उ०मण्डलीबाहो, स्था० 5 ठा०१ उ०। भोजनादिभिरसंव्यवहार्ये, साम्भोगिकस्य विसम्भोगीकरणमाहतिहिं ठाणेहि समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति / तं जहा- सयं वा दटुं सस्स वा निसम्म तचं मोसं आउदृइ चउत्थं नो आउट्टइ। (सू०१७३) 'साहम्मियं' ति समानेन धर्मेण चरतीति साधर्मिकस्तम्, सम्-एकत्र भोगो-- भोजनं संभोगः- साधूनां समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स सांभोगिकस्तं विसंभोगो दानादिभिरसंव्यवहारः स यस्यास्ति स विसंभोगिकस्तं कुर्वन्नातिक्रामति-नलङ्घयत्याज्ञां सामयिकं वा विहितकारित्वादि ति। स्वयमात्मना साक्षात् दृष्ट्वा सांभोगिकेन क्रियमाणां सांभोगिकदानग्रहणादिकामसमाचारी तथा 'सड्विस्स' त्ति श्रद्धा-श्रद्धानं यस्मिन्नस्ति स श्राद्धः श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य-- अवधार्य्य, तथा 'तचं ति एक द्वितीयं यावत् तृतीयं 'मोसं' तिमृषावादम् अकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गलक्षणमा-श्रित्येति गम्यते आवर्तते-निवर्तते; तमालोचयतीत्यर्थः, अनाभोगस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थन्त्वाश्रित्य प्रायो नो आवर्तते-तंनालोधयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासंभोगकारणकारिणं विसंभोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्। उक्तं च-"एणं व दोवि तिन्नि व, आउटुंतस्स होइ पच्छित्तं। आउट्टते वितओ, परिणे तिण्हं विसंभोगो i // 1 // " इति एतचूर्णिः-स सम्भोइओ असुद्धं गिण्हंतो चोइओ भणइ"संतपडिचोयणा, मिच्छा मि दुक्कड़, ण पुणो एवं करिस्सामो," एवमाउट्टो जमावन्नो तंपायच्छित्तं दाउं संभोगो।एवं वीयवाराए वि, एवं तइयवाराए वि, तइयवाराओ परओ चउत्थवाराएतमेवाइयारं सेविऊण आउटुंतस्स वि विसंभोगो' इति। इह चाद्यंस्थानद्वयं गुरुतरदोषाश्रयम्। यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसम्भोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं, तत्र हि चतुर्थवेलायां स विधीयत इति। स्था०३ठा०३ उ०। संभोगिक विसंभोगिकं करोतिनवहिं ठाणेहिं समणे निग्गंथे संभोइयं विसंभोइयं करेमाणे णाइक्कमइ, तं जहा- आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं / गणपडिणीयं / संघपडिणीर्य / नाणपडिणीयं / दसणपडिणीयं / चरित्तपडिणीयं / (सू०६६१) स्था०९ ठा०३ उ०। विसंभोग-पुं०(विसंभोग) दानादिभिरसंव्यवहारे, स्था० 3 ठा० 3 उ०। / आर्यसुहस्तिसमयाद्विसंभोगः। व्य०। अधुना भाष्यविस्तरःसंभोइए त्ति भणिते, संभोगो छविहो उ आदीए। भेदप्पभेदतो विय, उणेगविहो होति नायव्वो॥५१॥ संभोगिक इति भणिते संभोगो विचार्यते / तत्रादौ संभोगः षझिओ भवतिभेदप्रभेदतोऽपिचएकैकस्य भेदस्यप्रभेदतः पुनरनेकविधो भवति। तत्र प्रथमतः षड्विधमाहओहें अभिगहें दाणे, गहणे अणुपलणाएँ उववाए। संवासम्मि यछट्ठो, संभोगविही मुणेयध्वो // 12 // ओघे-उपध्यादौ अभिग्रहे दानग्रहे अनुपालनायामुपपाते एवमेते पञ्चा संभोगा भवन्ति, षष्ठसंभोगविधिः संवासे ज्ञातव्यः। तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमत ओघसंभोगमभिधित्सुराहओधो पुण वारसहा, उवधिमादिकमेण बोधव्यो। कायव्व परूपणया, एतेसिं आणुपुष्वीए॥५३|| उवहिसुयभत्तपाणे, अंजली पम्गहेइ वा। दावणा य निकाए य, अन्मुट्ठाणे त्ति आवरे // 54 // कितिकम्मस्स (य) करणे, वेयावचकरणे इय। समोसरणसन्निसेला, कहाए य पबंधणे / / 5 / / ओघसंभोगो द्वादशप्रकारस्तद्यथा-- उपधिविषयः 1, श्रुतविषयः 2, भक्तपानविषयः 3, अञ्जलिग्रहविषयः 4, 'दावणाए' त्ति दापनाशय्यातरोपिधस्वाध्यायशिष्यगणानां प्रदापनं तद्विषयः 5, 'निकाय' त्ति निकाचो निकाचनं-छदनं निमन्त्रणमित्येकार्थास्तद्विषयः 6, 'अन्भुट्ठाणे त्ति आवरे' अपरोऽभ्युत्थानविषयः 7, कितिकम्मस्स य' इत्यादि, कृतिकर्म वन्दनकं तत्करणविषयः 8, वैयावृत्त्यकरणविषयः 6, समवस-रणविषयः 10, सन्निषद्याविषयः११, कथाप्रबन्धनविषयश्च // 12 // तत्रोपधिसंभोगः षट्प्रकारस्तथा चाहउवहिस्सय छम्मेया, उग्गमउप्पायणेसणासुद्धो। परिकम्मण परिहरणा, संजोगो छट्टओ होइ॥१॥ उपधेरुपधिसंभोगस्यषड्भेदाभवन्ति, तद्यथा-उद्मशुद्धः 1, उत्पादनाशुद्धः२एषणाशुद्धश्च 3, परिकर्मणासंभोगः 4, परिहरणासंभोगः 5, संयोगविषयः षष्ठः संभोगः 6, तत्र यत्सांभोगिकःसांभोगिकेन सममाधा- . कम्मादिभिः षोडशभिरुद्रमदोषैः शुद्धमुपधिमुत्पादयति एष उद्गमशुद्धमुपधिसंभोगः / अथाशुद्धमुत्पादयति तर्हि येन दोषेण अशुद्धमुत्पादयति तनिष्पन्नं प्रायश्चित्तमापद्यते। तत्रापीयं व्यवस्थाअशुद्धग्राही सांभोगिकः शिक्ष्यमाणः सति मे प्रतिचोदनेऽपि मन्यमानो मिथ्यादुष्कृत पुरस्सरं न पुनरेवं करिष्यामीति ब्रुवाणः प्रत्यावर्तते, तदायत्प्रायश्चित्तमापन्नस्तद्दत्वा संभोग्यते, एवं द्वितीयावारं तृतीयवारमपि चतुर्थवेलायां त्वावृत्तस्यापि न संभोगः / अथनिष्कारणेअन्यसांभोगिकेनसमशुद्धमशुद्धंचोपधिमुत्पादयति, तर्हि सोऽपि यदिशिक्ष्यमाणः व्यावततेततः संभोगविषयीक्रियते अन्यथा