________________ विवाहपण्णत्ति 1247 - अमिधानराजेन्द्रः - भाग 6 विवित्तचरिया मतिः- अवायो; निश्चय इत्यर्थः बुद्धिः- औत्पत्तिक्यादिचतुर्विधेति, अथवा-तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा 'छत्तीससहस्समसणूणयाणं' ति अन्यूनकानि षट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति, 'वागरणाणं' तिव्याक्रियन्ते प्रश्नान्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्प्रकाशनादुपनिबन्धनादित्यर्थः / अथवा-तेषां दर्शनाः, उपदर्शका इत्यर्थः / क इत्याह- 'सुतत्थबहुविहप्पयारे' त्ति श्रुत-विषया-अर्थाः श्रुतार्थाः; अभिलाप्यार्थविशेषा इत्यर्थः, श्रुता वा आकर्णिता जिनसकाशे गणधरेण ये अर्थास्ते श्रुतार्थाः, अथवा-श्रुतमिति सूत्रम्, अर्थानियुक्त्यादय इति श्रुतार्थास्तेच ते बहुविधप्रकाराश्चेति विग्रहः, श्रुतार्थानां वा बहवो विधाः- प्रकारा इति विग्रहः / किमर्थ ते व्याख्यायन्ते ? इत्याह-शिष्यहितार्थाय-शिष्याणां हितमनर्थप्रतिघातार्थप्राप्तिरूपं तदेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मै इति / किंभूतास्ते ? अत आहगुणहस्ता गुण एवार्थ-प्राप्त्यादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा 'वियाहस्से' त्यादि तु निगमनान्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा चतुरशीतिः पदसहस्राणि पदाणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वेद्वेलक्षे अष्टाशीतिः सहस्राणि च भवन्तीति। स०१४१ सम०। विवाहिय-त्रि०(विवाहित) संजातविवाहे, आ० म०१ अ०। स्था०। विविण-न०(विपिन) वने, ध० 2 अधि०। विविणकम्म-न०(विपिनकर्मन) छिन्नाछिन्नवनपत्रपुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रये कणदलपेषणे, वनकच्छादिकरणे च / विपिनंवनंतत्कर्म छिन्नाच्छिन्नवनपत्रपुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयः कणदलपेषणं वनकच्छादिकरणं च। यतः- "छिन्नाच्छिनवनपत्रप्रसूनफलविक्रयः। कणानां दलनोत्पेषा वृत्तिश्य वनजीविका ||1 // " इति। अस्यां च वनस्पतेस्तदाश्रितत्रसादेश्च घातसम्भव इति दोषः 2 / 302 अधि०। विवित्त-त्रि०(विविक्त) स्त्रीपशुपण्डकविवर्जिते, सूत्र०१ श्रु०२ अ०२ उ० स्त्र्यादिरहितोपाश्रये, उत्त०३२ अ०। आचा०। 60 / प्रश्न०। पृथग्भूते त्यक्ते, आचा०१ श्रु०८ अ०८ उ०। रहस्यभूते, दशा०५ अ० | आ० म०। एकान्तसंविग्गे, व्य०४ उ०। विवित्तचरिया-स्त्री०(विविक्तचर्या) पशुपण्डककुशीलवर्जितानवद्याश्रयाश्रयणे, पञ्चा०१६ विव०। अधुना विविक्तचर्या सा पुनरियम् - आरामुज्जाणादिसु, थीपसुपंडगविवज्जिएसु (जं) ठाणं। फलगादीण य गहणं, तह भणियं एसणिज्जाणं ||1|| गता विविक्तचर्या / दश०१ अ०। चूलिअंतु पवक्खामि, सुअंकेवलिभासि। जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ||1|| अणुसोअपट्ठिअबहु-जणम्मि पडिसोअलद्धलक्खेणं। पडिसोअमेव अप्पा, दायथ्वो होउ कामेणं // 2 // अणुसोअसुहोलोओ, पडिसोओ आसवो सुविहिआणं / अणुसोओ संसारो, पडिसोओ तस्स उत्तारो॥३॥ तम्हा आयारपर-कमेण संवरसमाहिबहुलेणं। चरिआ गुणा अनियमा, अहुंति साहूण दट्ठव्वा // 4 // चूडां तु प्रवक्ष्यामि- चूडां - प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूद्धं प्रवक्ष्यामीति-प्रकर्षणावसर-प्राप्ताभिधानलक्षणेन कथयामि, श्रुतं-- केवलिभाषितमिति इयं हि चूडा श्रुतं- श्रुतज्ञानं वर्तते, कारणे कार्योपचारात्, एतच केवलिभाषितम्-अनन्तरमेव केवलिना प्ररूपित'मिति सफलं विशेषणम् / एवं च वृद्धवादः- कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, सतदाराधनया मृत एव / ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति, गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपम्, पृष्टो भगवान् अदुष्टचित्ताऽधातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति इदमेव विशेष्यतेयच्छ्रुत्वेति-यच्छुत्वा--आकर्ण्य सुपुण्यानां-कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे- अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे उत्पद्यते मतिःसंजायते भावतः श्रद्धा। अनेन चारित्रं-चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः // 1 / / एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह- अनुस्रोतः प्रस्थिते-- नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्य- क्रियानुकूल्येन प्रवृत्ते बहुजने तथा- विधाभ्यासात् प्रभूतलोके तथा प्रस्थानेनोदधिगामिनि किमित्याह-प्रतिस्रोतोलब्धलक्ष्येण द्रव्यतस्तस्यामेव नद्यां कथञ्चिदेवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथञ्चिदवाप्तसंयमलक्ष्येण प्रतिस्रोत एवदुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलक्ष्याभिमुखमेव आत्माजीवो दातव्यः-- प्रवर्त्तयितव्यो भवितुकामेन-संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपि त्वागमैकप्रवणेनैव भवितव्यमिति। उक्तंच"निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः। तपःश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम्॥१॥ तथाकपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता। विहाय लजां न तु धर्मवैशसे, सुरेन्द्रता (सा) र्थेऽपि समाहितं मनः // 2 // तथापापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः। प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं,