________________ विवाहपण्णत्ति 1246 - अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति अस्याः करणव्याख्या, श्रुतिलेखनपूजनादिषु यथार्हम्। दायिकसुतमाणिक्यः, प्रेरितवानस्मदादिजनान् / / 14 / / अष्टाविंशतियुक्ते, वर्षसहस्रे शतेन चाभ्यधिके। अणहिलपाटकनगरे, कृतेयमच्छुप्तधनिवसतौ / / 15 / / अष्टादशसहस्राणि, षट् शतान्यथषोडश। इत्येव मानमेतस्याः, श्लोकमानेन निश्चितम् // 16|| ग्रन्थसंख्या (18616) भ० टी०१ विवाहपन्नत्तीए एकासीति महाजुम्मसया पण्णत्ता। (सू०८१४) 'विवाहपन्नत्तीए' ति व्याख्याप्रज्ञप्तौ एकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि / इह च शतशब्देनाध्ययनान्युच्यन्ते, तानि कृतयुग्मादिलक्षणाराशिविशेषविचाररूपाणि, अत्रान्यराध्ययनस्वभावानितदवगमावगम्यानीति। स०६१ सम०। विवाहपन्नत्तीए णं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं पण्णत्ता। (सू०५४+) व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेणपदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं मतान्तरेण तु अष्टादशपदसहस्र परिमाणत्वादाचारस्य, एतद्विगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिर्द्वलक्षे अष्टाशीतिः सहस्राणि पदानां भवन्तीति। तथा चतुरशीतिनागकुमारावासलक्षाणि, चतुश्चत्वारिंशतो दक्षिणायां, चत्वारिंशतश्चोत्तरायां भावादिति / स०५४ सम01 विवाहप्रज्ञप्तिविषयःसे किं तं वियाहे? वियाहे णं ससमया विआहिअंतिपरसमया विआहिजंति ससमयपरसमया विआहिलंति जीवा विआहिलंति अजीवा विआहिजंति जीवाजीवा विआहिजंति / लोगे विआहिजई, अलोए विआहिज्जई, लोगालोगे विआहिज्जई। वियाहे णं नाणाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणंदम्वगुणखेत्तकालपज्जवपदेसपरिणामजहच्छिट्ठिअभावअणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुहरुंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिहदीवभूयईहामविबुद्धिबद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणं दसणाओ सुयत्थबहुविहप्पगारा सीसहियत्था य गुणमहत्था, वियाहस्सणं परित्ता वायणा, संखेचा अणुओगदारा, संखेखाओ पडिवत्तीओ, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ निझुत्तीओ / से णं अंगठ्ठणाए पंचमे अंगे एगे सुयक्खंधे, एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साई, दस समुद्देसग सहस्साई, छत्तीसं वागरणसहस्साई, चउरासीई पयसहस्साई पयग्गेणं पण्णत्ता। संखेज्जाई अक्खराई, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविखंति परूविजंति निदंसिर्जति उवदंसिजंति / से एवं आया से एवं णाया एवं विण्णाया एवं चरणकरणपरूवयणया आधविजंति। सेत्तं वियाहे // 5 / / (सू०१४०) 'से किं तं वियाहे' इत्यादि, अथ केयं व्याख्या ? व्याख्यायन्ते आर्था यस्यां सा व्याख्या। 'वियाहे' इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, 'वियाहे णं' तिव्याख्यया व्याख्यायां वा ससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, 'वियाहे ण' मित्यादि नानाविधैः सुरैः नरेन्दैः राजर्षिभिश्च 'विविहसंसइय' त्ति विविधसंशयितैः-विविधसंशयवद्भिः पृष्टानि यानि तानि तथा तेषां नानाविधसुरनरेन्द्रराजऋषिविविधसंशयित पृष्टानां व्याकरणानां षट्त्रिंशत्सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति पूर्वापरेण वाक्यसम्बन्धः / पुनः किम्भूतानां व्याकरणानाम् ? जिनेनेति भगवता महावीरेण 'वित्थरेण भासियाणं' विस्तरेण भणितानामित्यर्थः, पुनः किंभूतानाम् ? 'दव्वे' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामाऽवस्थायथाऽस्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधैः प्रकारैः प्रकटः प्रदर्शितो यैव्याकरणैस्तानि तथा तेषां, तत्र द्रव्याणिधर्मास्तिकायादीनि गुणाज्ञानवर्णादयः क्षेत्रमाकाशं कालः-समायादिः-पर्यवाः- स्वपरभेदभिन्ना धाः, अथवा-कालकृता अवस्था-नवपुराणादयः पर्यवाःप्रदेशा निरंशावयवाः परिणामा-अवस्थातोऽवस्थान्तरगमनानि यथायेन प्रकारेणास्तिभावः- अस्तित्वं सत्ता यथास्तिभावं अनुगमः संहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारक-लापात्मको वा निक्षेपो-- नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः नयप्रमाणं नयानैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात्ज्ञाननयक्रियानयभेदानिश्चयव्यवहारभेदाद्वा द्वौ ते एव तावेववा प्रमाणं वस्तुतत्त्वपरिच्छेदनं नयप्रमाणं, तथा सुनिपुणः- सुसूक्ष्मः सुनिनुणो वा सुष्ठु निश्चितगुण उपक्रमः-आनुपूर्व्यादिः विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति। पुनः किंभूतानां व्याकरणानां, लोकालोको प्रकाशितौ येषु तानि तथा तेषां, तथा- 'संसारसमुद्दरुंदउत्तरणसमत्थाणं' ति संसारसमुद्रस्य रुन्दस्य–विस्तीर्णस्य उत्तरणेतारणे समर्थानामित्यर्थः, अतएव सुरपतिसम्पूजितानां प्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाघितत्वादा, तथा 'भविजयणपयहिययाभिणंदियाणं' त्ति भव्यजनानां-भव्यप्राणिनां प्रजालोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयश्चित्तैरभिनन्दितानामनुमोहितानामिति विग्रहः, तथा तमोरजसी-अज्ञानपातके विध्वंसयतिनाशयति यत्तत्तमोरजोविध्वंसं तच तद् ज्ञानं च तमोरजोविध्वंसज्ञानंतेन सुष्ठदृष्टानि निर्णीतानि यानितानि तथा अतएव तानि च तानि दीपभूतानि चेति, अत एव तानि ईहामतिबुद्धिवर्द्धनानि चेति तेषां तमोरजोविध्वंसज्ञानसुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानाम्, तत्र ईहावितर्को