________________ विवाहपण्णत्ति 1245 - अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति पेक्षया भावाभावाः, अथवा भावा-विधयः, अभावा-निषेधाः प्राकृतत्वाचेत्थं निर्देशः, अनन्ताः- अपरिमाणाः अथवा- भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि अत्र-प्रत्यक्षेपञ्चमेइत्यर्थः अङ्गे-प्रवचनपरमपुरुषावयव इतिगाथार्थः।।१।। अथान्त्यमङ्गलार्थं संघ समुद्ररूपकेण स्तुवन्नाहतवनियमविणयवेलो, जयति सदा नाणविमलविपुलजलो। हेतुसतविपुलवेगो, संघसमुद्दो गुणविसालो॥२॥ 'तवे' त्यादि गाथा, तपोनियमविनया एव वेलाजलवृद्धिरवसरवृद्धिसाधाद्यस्य स तथा जयति-जेतव्यजयेन विजयते सदा सर्वदा ज्ञानमेव विमलं-निर्मलं विपुलं-विस्तीर्णं जलं यस्य स तथा, अस्ति (अस्ताघ) त्वसाधर्म्यात्स तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेगः-कल्लोलाव दिरयो यस्य विव-क्षितार्थक्षेपसाधनसाधात्स तथा संघ समुद्रः-जिनप्रवचनोदधिर्गाम्भीर्यसाधात् , अथवा साधर्म्य साक्षादेवाह-गुणैःगाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्रहुत्वाद्यः स तथेति गाथार्थः / / 2 / / णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमो दुवालसंगस्स गणिपिडगस्स / / (कुसुम) "कुम्मसुसंठियचलणा, अमिलियकोरंटवेंटसंकासा। सुयदेवया भगवई, मम मतितिमिरं पणासेउ॥१॥" पण्णत्तीए आयिमाणं अट्ठण्हंसयाणं दो दो उद्देसगा उद्दिसिजंति णवरं चउत्थे सए पढमदिवसे अट्ठ वितियदिवसे दो उद्देसगा उद्दिसिजंति, णवरंणवमाओ सताओ आरद्धं जावइयं जावइयं तावइयं तावइयं एकदिवसेणं उद्विसिजंति, उक्कोसेणं सतं पि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं, जहण्णेणं तिहिं दिवसेहिं सतं एवं० जाव वीसतिम सतं, णवरं गोसालो एगदिवसेणं उद्दिसिज्जंति / जदि ठिओ एगेण चेव आयंबिलेणं अणुण्णजिहिति। अहण ठितो आयंबिलेणं छठेणं अणुण्णवति, एकवीसवावीसतेवीसइमाई सताई एके-कदिवसेणं उद्दिसिजंति, चउवीसतिमं सयं दोहिं दिवसेहिं छछ उद्देसगा, पंचवीसतिमं सयं दोहिं दिवसेहिंछछ उद्देसगा, बंधिसयाइ अट्ठसयाई एगेणं दिवसेणं सेढिसयाई वारस, एगेणं एगिदियमहाजुम्मसयाई वारस, एगेणं एवं वेंदियाणं वारस, तेइंदियाणं वारस, चउरिंदियाणं वारस, एगेण असपिण-पंचिंदियाणं वारस,सण्णिपंचिदियमहाजुम्मसयाईएकवीसं एगदिवसेणं उद्दिसिजंति,रासीजुम्मसतं एगदिवसेणं उहिसिञ्जति। (सू०५६९)। वियसियअरविंदकरा, नासियतिमिरा सुयाहिया देवी। मज्झं पि देउ मेहं, बुहविबुहणमंसिया णिचं ||1|| सुयदेवयाएँ पणमिमों, जिए पसाएण सिक्खियं णाणं / अण्णं पवयणदेवी, संतिकरी तं नमसामि // 2 // सुयदेवयाएँ जक्खो, कुंभधरो बंभसंति वेरोट्टा। विजाय अंतहुंडी, देउ अविग्धं लिहंतस्स // 3 // इति श्री विवाहपन्नत्ती पंचम अंग सम्मत्तं / भ० / यदुक्तमादाविह साधुयोधैः, __ श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम्। सुखादिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् // 1 // समर्थितं तत्पटुबुद्धिसाधु साहायकात् केवलमत्र सन्तः। सबुद्धिदात्र्याऽपगुणान् लुनन्तु, सुखग्रहा येन भवत्यथैषा ||2|| चान्द्रे कुलेसद्वनकक्षकल्पे, महाद्रूमो धर्मफलप्रदानात्। छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् / / 3 / / तत्पुष्पकल्पौ विलसद्विहार सद्गन्धसम्पूर्णदिशौ समन्तात्। बभूवतुः शिष्यवरावनीच वृत्ती श्रुतज्ञानपरागवन्तौ / / 4 / / एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः। तयोविनयेन विबुद्धिनाऽप्यलं, __ वृत्तिः कृतैषाऽभयदेवसूरिणा // 5 // तयोरेव विनेयानां, तत्पदं चानुकुर्वताम्। श्रीमतां जिनचन्द्राख्य-सत्प्रभूणां नियोगतः // 6|| श्रीमज्जिनेश्वराचार्य-शिष्याणां गुणशालिनाम्। जिनभद्रमुनीन्द्राणा-मस्माकं चाङ्घ्रिसेविनः / / 7 / / यशश्चन्द्रगणेढ-साहाय्यात्सिद्धिमागता। परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः // 8 // युग्मम्। शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः। श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः परागः।।। शोधितवान् वृत्तिमिमां, युक्तो विदुषां महासमूहेन। शास्त्रार्थनिष्कनिकषण कषपट्टककल्पबुद्धीनाम्॥१०॥ विशोधिता तावदियं सुधीभि स्तथापि दोषाः किल सम्भवन्ति। मन्मोहतस्तांश्च विहाय सद्भि स्तद्ग्राहामाप्ताभिमतं यदस्याम्॥११।। यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात्। मोहाद्वृत्तिजमन्यच्च, तेनागो मे विशुध्यतात्।।१२।१ भ०। (अन्यकृता इवेमा गाथा इति प्रतीयते) (ग्रन्थलेखनकर्तृकृतानि।)