________________ विवाहपण्णत्ति 1244 - अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति "जीवा य' इत्यादि जीवा य'त्तिजीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानम्, ततो लेश्याः पाक्षिकाः दृष्टयः अज्ञानं ज्ञानं संज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानम्, तदेवमेतान्येकादशाऽपि स्थानानीति गाथार्थः / भ०२६श०१उ०।"येषां गौरिव गौः सदर्थपयसांदात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता। निर्गत्यास्य गृहाङ्गणाद् बुधसभाग्रामाजिरं राजयेत्, ये चास्यां विवृत्तौ निमित्तमभवन्नन्दन्तु ते सूरयः॥१॥" भ०२६ श०११ उ०। व्याख्यातं षड्वंशं शतम्। अथ सप्तविंशमारम्भ्यते, अस्य चायमभिसंबन्धः, अनन्तरशते जीवस्य कर्मबन्धनक्रियाभूतादिकालविशेषेणोक्ता, सप्तविंशशते तुजीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवं सम्बद्धस्यास्येदमादिसूत्रम्- . जीवे णं भंते ! पावं कम्मं किं करिसु करेंति करिस्संति 1? करिंसु करेंति ण करिस्संति 21 करिंसु ण करिति करिस्संति 31 करिंसु ण करेंति ण करिस्संति ? गोयमा! अत्थेगइए करेंसु करेंति करिस्संति 1 अत्थेगइए करिंसु करिंतिण करिस्संति 2, अत्थेगएइ करिसुन करेंति करिस्संति 3, अत्थेगइए करिंसु ण करेंति ण करिस्संति / भ०२७ श० 1 उ०। (सू०८१५४) "व्याख्यातशतसमानं, शतमिदमित्यस्तनो कृता विवृत्तिः। दृष्टसमाने मार्गे, किं कुरुताद्दर्शकस्तस्य।॥१॥" भ० 27 श०११ उ०। व्याख्यातं कर्मवक्तव्यतानुगतं सप्तविंशं शतम् / अथ क्रमायातं तथाविधमेवाष्टविंशव्याख्यायते, तत्र चैकादशोदेशका जीवाद्येकादशद्वारानुगतपापकर्मादि दण्डकनवकोपेता भवन्ति चाद्योद्देशकस्येदमादिसूत्रम्जीवा णं भंते ! पावं कम्म कहिं समश्रिणिंसु ? कहिं समायरिंसु ? गोयमा! सवे विताव तिरिक्खजोणिएस होजा ||1|| म०२८ श०१ उ०। "इति चूर्णिवचनरचना-कुञ्जिकयोद्घाटितं मयाऽप्येतत् / अष्टाविंशतितमशत-मन्दिरमनघं महाघचयम्॥१॥" भ०२८ श०११ उ०1 व्याख्यातं पापकर्मादिवक्तव्यतानुगतमष्टाविंशं शतम्। अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र चतथैवैकादशोद्देशका भवन्ति / भ०२६ श०१ उ०॥"अनुसृत्यमयाटीका, टीकेयं टिप्पिता प्रपटुनेव। अप्रकटपाटवोऽपि हि, पटूयते पटुगमेनाटन् // 1 // " भ० 26 श०११ उ० व्याख्यातमेकोनत्रिंशं शतम् / अथ त्रिंशमारभ्यते-अस्य चायं पूर्वेण सहाभिसम्बन्धः- प्राक्तनशते कर्मप्रस्थापनाद्याश्रित्य जीवा विचारिता इह तुकर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्यतएव विचार्यन्ते / भ० 3 श०१ उ० / "यद्वाङ्महामन्दरमन्थनेन, शास्त्रार्णवादुच्छलितान्यतुच्छम् / भावार्थरत्नानि ममापि दृष्टौ, यातानि ते वृत्तिकृतो जयन्ति / // 1 // " भ०३श०११ उ०। त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्दे शकयुक्तमेकत्रिंशं शतं व्याख्यायते / भ० 31 श०१ उ० / "शतमेतद्भगवत्या, भगवत्या भावितं मया वाण्याः। यदनुग्रहेण निरवब्रहेण सदनुग्रहेण तथा // 1 // " भ०३१ श०२८ उ०।" एकत्रिंशे शते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्तनोच्यते इत्येवं संबद्धमष्टाविंशत्युद्देशकमानमिदं व्याख्यायते। भ०३२ श०१3०1"व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः। एकत्र तोयचन्द्रे हि, दृष्ट दृष्टाः परेऽपिते॥१॥" भ०३२ श०२८ उ०। द्वात्रिंशे शते नारकोद्वर्तनोक्ता नारकाचोवृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते इत्यस्यामाशङ्कायां ते प्ररूपयितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंश शतं द्वादशावान्तरशतोपेतं व्याख्यायते। भ०३३ श०१उ०।"घ्याख्येयमिह स्तोक, स्तोका व्याख्या तदस्य विहितेयम्। न ह्योदनमात्राया-मतिमात्र व्यञ्जनं युक्तम् / / 1 / / " भ०३३ श०६ उ०ात्रयस्त्रिंशशते एकेन्द्रियाः प्ररूपिताश्चतुस्विंशच्छतेऽपि भङ्गयन्तरेण तएव प्ररूप्यन्ते। भ०३४ श०१ उ०।"यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा / तेषां ज्ञप्तिविनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया॥१॥" भ०३४ श०६ उ०। चतुस्विंशशते एकेन्द्रियाः श्रेणिप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशेतुतएव राशिप्रक्रमेण प्ररूप्यन्ते। भ०३५ श०१ उ०। "व्याख्या शतस्यास्य कृता सकष्ट, टीकाऽल्पिका येन नचास्ति चूर्णिः / मन्दैकनेत्रोवत पश्यताद्वा, दृश्यान्यकष्ट कथमुद्यतोऽपि।।१।।" भ०३५ श०१२ उ०॥पञ्चत्रिंशे शते संख्यापदैरेकेन्द्रियाः प्ररूपिताः षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्ते। भ०३६ श०१ उ०। सव्वाए भगवईए अद्वतीसंसतंसयाणं 138 / उद्देसगाणं 1925 भ०४१श०। आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि 32 त्रयस्त्रिशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश 84, चत्वारिंशे त्वेकविंशतिः, २१एकचत्वारिंशे तु नास्त्यवान्तरशतम् 1, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानांशतं भवति। एवमुद्देशकपरिमाणमपि सर्वशास्वमवलोक्यावसेयम्, तचैकोनविंशतिशतानि पञ्चविंशत्यधिकानि। "इहशतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि सुशङ्कितः / विवृतिचूर्णिगिरां विरहाद्विदृक् कथमशङ्कमियय॑थवा पथि? ||15" एकचत्वारिंशं शतं वृत्तितः परिसमाप्तम् // 41 // अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहचुलसीय सयसहस्सा, पदाण पवरवरणाणदंसीहिं। भावाभावमणंता, पन्नत्ता एत्थमंगम्मि||१|| 'चुलसी' त्यादि, चतुरशीतिः शतसहस्राणि पदानामत्राङ्गे इति सम्बन्धः / पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला येतेप्रवरवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः / इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह'भावाभावमणंत' त्तिभावा-जीवादयः पदार्थाः अभावाश्च-तएदास्या