________________ विवाहपण्णत्ति 1243 - अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति व्याख्यातमेकोनविंशतितमं शतम् / अथावसरायातं विंशतितभमारभ्यते-तस्य चादावेवोद्देशकसंग्रहणीम् ‘वेइंदिये' त्यादिगाथामाहवेइंढियमागासे, पाणवहे उवचए य परमाणू। अंतर बंधे भूमी, चारण सोवक्कमा जीवा // 2 // तत्र 'वेइंदिय' ति द्वीन्द्रियादिवक्तव्यताप्रतिबद्धः प्रथमोद्देशको दीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि। आगासे' त्ति आकाशाद्यर्थों द्वितीयः / 'पाणवहे' ति प्राणातिपाताद्यर्थपरस्तृतीयः / 'उवचए' त्ति श्रोत्रेन्द्रियाद्युपचयार्थश्चतुर्थः / परमाणु त्ति परमाणुवक्तव्यतार्थः पञ्चमः / 'अंतर' त्ति रत्नप्रभाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः / 'बंधे' त्ति जीवप्रयोगादिबन्धार्थस्सप्तमः। 'भूमि' ति विद्याचारणाद्यर्थो नवमः। 'सोवक्कमा जीव' त्ति सोपक्रमायुषो निरुषक्रमायुषश्च जीवा दशमे वाच्या इति। भ०२० श०१ उ०। "विंशति-तमशतकमलं, विकासितं वृद्धवचनविकिरणैः / विवरणकरणद्वारेण सेवितं मधुलिहेव मया / / 1 / / " भ० २०श०१० उ०। व्याख्यातं विंशतितमशतम्। अथावसरायातमेकविंशतित-ममारभ्यते, अस्य चादावेवोद्देशकवर्गसंग्रहायेयं गाथासालि कल अयसि वंसे, इक्खु दन्भे य दम्भ तुलसीय। अहेए दस वग्गा, असीति पुण होति उद्देसा // 1 // भ० 21 श०१ उ०1 (व्याख्या चास्य 'वणप्फइ' शब्दे 812 पृष्ठे गता।) 'एकविंशं शतं प्रायो, व्यक्तं तदपि लेशतः / व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत्॥१॥' भ०२१ श० 8 वर्ग। व्याख्यातमेकविंशतितमं शतम्। अथ क्रमायातं द्वाविंशं व्याख्यायते, तस्य चादावेवोद्देशकवर्गसङ्गग्रहायेयं गाथातालेगट्ठिय बहुबी-यगा य गुच्छा य गुम्म वल्ली य। छद्दस वग्गा एए, सष्टिंपुण होति उहेसा ||1|| भ०२२ श०१ वर्ग। (814 पृष्ठे 'वणप्फई' शब्दे गता।) "द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन। व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम् ? ||1||" भ० 22 श० 6 वर्ग। व्याख्यातं द्वाविंशं शतमथावसरायातं त्रयोविंशं शतमारभ्यते, अस्य चादावेवोद्देशकवर्गसंग्रहायेयं गाथा आलुय लोहो अवया, पाढी तह मास वनि वल्लीय। पंचेते दस वग्गा, पन्नासा हो ति उद्देसा॥१॥ भ० 23 श०१ वर्ग। "प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः। प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ||1||" भ० 23 श०५ वर्ग। व्याख्यातंत्रयोविंशं शतम्। अथावसरायातं चतुर्विशंशतं व्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसंग्रहगाथाद्वयम्उववाय परीमाणं, संघयणुचत्तमेव संठाणं / लेस्सा दिट्ठीणाणे, अण्णाणे जोग उवओगे ||1|| सण्णा कसाय इंदिय, समुग्धाया वेयणा य वेदे य। आऊ अज्झवसाणा, अणुबंधो कायसंवेहो / / 2 / / 'उववाये' त्यादि, एतच्च व्यक्तं नवरम् ‘उववाय' ति नारकादयः कुत उत्पद्यन्ते इत्येवमुपपातो वाच्यः, परीमाणं' तिये नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं 'संघयण' ति तेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम्, 'उचत्तं' ति नारकादियायिनामवगाहनाप्रमाणं वाच्यम्, एवं संस्थानाद्यप्यवसेयम्। 'अणुबंधो' त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो' त्ति विवक्षितकायात्कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम्। भ०२४ श०१ वर्ग।''चरमजिनवरेन्द्रप्रोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्द्यसूत्रे। विवृतमिह शते ना कर्तृमिष्ट बुधोऽपि, प्रचुरगमगभीरे किं पुनर्मादृशोऽज्ञः॥१॥" भ०२५ श०२४ उ०। व्याख्यातं चतुर्विंशतितमशतम् / अथ पञ्चविंशतितममारभ्यते तस्य चैवमभिसम्बन्धः - प्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामवे लेश्यादयो भावाश्चिन्त्यन्ते इत्येवं सम्बन्धस्यास्योद्देशकसंग्रहगाथेयम्लेसा य दव्व संठा-ण जुम्म पज्जव णियंठ समणा य। ओहे भवियाऽमविए, सम्मा मिच्छे य उद्देसा॥१॥ 'लेसे' त्यादि। तत्र 'लेसा य' त्ति प्रथमोद्देशका लेश्यादयोऽर्थावाच्या इति लेश्योद्देशक एवायमुच्यत इत्येवं सर्वत्र। 'दव्य' त्ति द्वितीये द्रव्याणि वाच्यानि। 'संठाण' त्ति तृतीये संस्थानादयोऽर्थाः। 'जुम्म' त्ति चतुर्थे . कृतयुग्मादयोऽर्थाः / पज्जव' त्तिपञ्चमे पर्यवाः / 'नियंठ' त्ति षष्ठे पुला कादिका निर्गन्थाः। 'समणाय'त्तिसप्तमे सामायिकादिसंयतादयोऽर्थाः। 'ओहे' त्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम्? ओघे सामान्ये वर्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः। भविए' त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यम्। 'अभविए' त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः। 'सम्म' त्ति एकादशे सम्यग्दृष्टिविशेषणाः। 'मिच्छेय त्तिद्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः / 'उद्देस' ति एवमिहशतेद्वादशोद्देशका भवन्तीति। भ०२५ श० 1 उ०। "कृचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं, कृचिच्छाब्दी वृत्तिं क्वचिदपि गर्मवाच्यविषयम्। कचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं, समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम्॥१॥" भ०२५ श०१२ उ०। व्याख्यातं पञ्चविंशतितमं शतम्। अथ षड्वंशतितममारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरशते नारकादिजीवानामुत्पत्तिरभिहिता; सा च कर्मबन्धपूर्विकेति षड्विंशतितमशते मोहकर्मबन्धोऽपि विचार्यते इत्येवं सम्बन्धस्यास्यैकादशोद्देशकप्रमाणस्य प्रत्युद्देशकद्वारनिरूपणाय तावद्गाथामाहजीवा य लेस्स पक्खिय, दिट्ठी अन्नाण णाण सन्नाओ। वेय कसाए उवओग जोग एकार विट्ठाणा।।१।