________________ विवाहपण्णत्ति १२४२-अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति भासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवं संबन्धस्यास्येदमादिसूत्रम्णमो सुयदेवयाए भगवतीए। "श्रीमन्महावीरजिनप्रभावा-द्रोशालकाहकृतिवद्गतेषु / समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति // 1 // " भ०१५ श०॥ व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशाल-कजीमस्यानेकधा जन्म मरणं चोक्तमितीहापि जीवस्य जन्म-मरणाधुच्यते, इत्येवं सम्बद्धस्यास्येयमुद्देशकाभिधानसूचिका गाथाअहिगरणि जरा कम्मे, जावतियं गंगदत्त सुमिणे य। उवओग लोग बलिओ-हि दीव उदही दिसा थणिया||१|| 'अहिगरणी' त्यादि 'अहिगरणि' त्ति अधिक्रियते-ध्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहकाराद्युपकरणविशेषः, तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिक-रण्येवोच्यते।सचात्र प्रथमः। 'जर' ति जराद्यर्थविषयत्वाजरेति द्वितीयः। 'कम्मे' त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीयः / 'जावइयं' ति 'जावइय' मित्यनेन आदिशब्देनो-पलक्षितो 'जावइयमिति' चतुर्थः / 'गंगदत्त' त्ति 'गङ्गदत्तदेववक्तव्यताप्रतिवद्धत्वाद्गदत्त एव पञ्चमः। 'सुमिणेय' त्ति स्नप्नविषयत्वात्स्वप्न इति षष्ठः / 'उवओग' त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः। 'लोग' त्ति लोकस्वरूपाभिधायकत्वाल्लोक एवाष्टमः। 'बलि' त्ति बलिसम्बन्धिपदार्थाभिधायकत्वादलिरेव नवमः। 'ओहि ति अवधिज्ञानप्ररूपणार्थत्वादबधिरेव दशमः। 'दीव' त्तिद्वीपकुमारवक्तव्यतार्थो द्वीप एकादशः। उदहि' ति उदधिकुमारविषयत्वादुदधिरेव द्वादशः। 'दिसि' त्ति दिक्कुमारविषयत्वाद्विगेव त्रयोदशः / 'थणिव' त्ति स्तनितकुमार-विषयत्वात्स्तनित एव चतुर्दश इति / भ० १६श०१ उ०। "सम्यक् श्रुताचारविवर्जितोऽप्यहं यदप्रकोपात्कृतववाविचारणाम्।अविघ्नमेतां प्रतिषोडशं शतं, वाग्देवता सा भवताद्वरप्रदा // 1 // " भ० 16 श०१४ उ०। व्याख्यातं षोडशंशतम्। अथ क्रमायातंसप्तदशमारभ्यते, तस्य चादाबेवोद्देशकसंग्रहाय गाथाकुंजर संजय सेले-सि किरिय ईसाण पुढविदग वाऊ। एगिदिय नाग सुव-नविजुवायुऽग्गि सत्तरसे // 1 // 'कुंजरे' त्यादि। तत्र 'कुंजर' त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजः तत्प्रमुखार्थाभिधायकत्वात्कुञ्जर एव प्रथमोद्देशक उच्यते-एवं सर्वत्र। 'संजय' त्ति संयताद्यर्थप्रतिपादको द्वितीयः। सेलेसित्ति शैलेश्यादिवक्त-व्यतार्थस्तृतीयः। किरिय' त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः / 'ईसाण' त्ति ईशानेन्द्रवक्तव्यतार्थः पञ्चमः ! 'पुढवि' त्ति पृथिव्यर्थः षष्ठः सप्तमश्च। 'दग' त्ति अप्कायार्थोऽष्टमो नवमश्च। 'वाउ' त्ति वायुकायार्थो दशम एकादशश्च / एगिंदिय' त्ति एकेन्द्रियस्वरूपार्थो द्वादशः / 'नाग' ति नागकुमारवक्तव्यतार्थस्त्रयोदशः / 'सुवण्ण' त्ति सुवर्णकुमारार्थानुगतश्चतुर्दशः / 'विलु ति विद्युत्कुमाराभिधायकः पञ्चदशः। 'वाउ' त्ति वायुकुमारवक्तव्यतार्थः षोडशः। अग्गि' त्ति अग्निकुमारवक्तव्यतार्थः सप्तदशः। 'सत्तरसे' ति सप्तदशशते एते उद्देशका भवन्ति। भ०१७ श०१७ उ०1"शते सप्तदशे वृत्तिः, कृतेयं गुर्वनुग्रहात्। यदन्धोयाति मार्गेण, सोऽनुभावोऽनुकर्षिणः // 1 // " भ०१७ श०१७ उ० / व्याख्यातं सप्तदशशतम्। अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसंग्रहणी गाथापढमे विसाहमायं-दिए य पाणाइवाय असुरे य। गुल केवलि अणगारे, भविए तह सोमिलट्ठऽरसे ||1|| 'पढमे' त्यादि, तत्र 'पढमे त्ति जीवादीनामर्थानां प्रथमाऽप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य प्रथमः। 'विसाह' त्ति विशाखा नगरी तदुपलक्षितो विशाखेति द्वितीयः / 'मार्गदिए य' त्ति माकन्दीपुत्राभिधानाऽनगारोपलक्षितो माकन्दिकस्तृतीयः / 'पाणाइवाय' ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः / असुरे य' त्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः / 'गुल' त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः / 'केवलि' ति केवल्यादिविषयः केवली सप्तमः / 'अणगारे' त्ति अनगारादिविषयोऽनगारोऽष्टमः / 'भविय' त्ति भव्यद्रव्यनारकादिप्ररूपणार्थो भव्यो नवमः। 'सोमिल' त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः। 'अट्ठरसे' त्ति अष्टदशशते एते उद्देशका इति। भ०१८ श०१ उ०। 'अष्टादशशतवृत्ति- विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् / प्राकृतनरो ह्यदृष्ट, न कर्म कर्तुं प्रभुर्भवति।।१।।" भ०१८ श०१० उ०। व्याख्यातमष्टादशशतमथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशक सङ्ग्रहाय गाथालेस्सा य गन्भ पुढवी, महासवा चरम दीव भवणा य / निव्वत्ति करण वणचर-सुरा य एगूणवीसइमे ||1|| 'लेस्से' त्यादि। तत्र 'लेस्साय तिलेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि / चशब्दः समुच्चये / 'गठभ' त्ति गर्भाभिधायको द्वितीयः / 'पुढवी' त्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः। महासव' त्तिनारका महासवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः / 'चरम' ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा महास्थितयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः 'दीव' त्ति द्वीपाद्यभिधानार्थः षष्ठः / 'भवणा य' त्ति भवनाद्यर्थाऽभिधानार्थः सप्तमः / 'निव्वत्ति' त्ति निर्वृत्तिनिष्पत्तिः शरीरादेस्तदर्थोऽष्टमः / 'करण' त्ति करणार्थो नवमः / 'वणचरसुरा य, ति वनचरसुराव्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति / भ० 16 श० 1 उ० / "एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकार्ष सुजनानुभावात् / चन्द्रोपलश्चन्द्रमरीचियोगदन म्बुबाहोऽपि पयः प्रसूते।।१।।" भ०१६ श०१उ०।