________________ विवाहपण्णत्ति 1236 - अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहोतुमिमां गाथामाहरायगिहंचलणदुक्खं, कंखपओसे य पगइपुढवीओ। जावंते नेरइए, बाले गुरुए य चलणाओ ||1|| अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते-तत्र 'रायगिहे' त्ति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्याओं भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम् / एवमन्यत्रापीष्टविभस्त्यन्तताऽवसेया। 'चलण' त्ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए' इत्याद्यर्थनिर्णयार्थ इत्यर्थः 1, 'दुक्खे' त्ति दुःखविषयो द्वितीयः / 'जीवो भदन्त! स्वयं कृतं दुःखं वेदयती' त्यादिप्रश्ननिर्णयार्थ इत्यर्थः / 2, 'कंखप-ओसे' त्ति काङ्क्षामिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषोजीवदूषणं कासाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त! कासामोहनीयं कर्मकृत' मित्याद्यर्थनिर्णयार्थ इत्यर्थः 3, चकारः समुच्चये, 'पगइ' त्ति प्रकृतयःकर्मभेदाश्चतुर्थोद्देशकस्यार्थः, 'कति भदन्त ! कर्म प्रकृतयः ?' इत्यादिश्चासौ 4, 'पुढवीओ' त्ति रत्नप्रभादिपृथिव्यः पञ्चमेवाच्याः, कति भदन्त! पृथिव्यः?' इत्यादिचसूत्रमस्य 5, 'जावंतो' ति यावच्छब्दोपलक्षितः षष्ठः 'यावन्तो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रश्चासौ ६,'नेरइए' त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमानः' इत्यादि च तत्सूत्रम् / 7. 'बाले' त्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त ! मनुष्यः' इत्यादिसूत्रश्चासौ 8, 'गुरुए' त्ति गुरुकविषयो नवमः, 'कथं भदन्त ! जीवा गुरुकत्वमागच्छन्ति ? इत्यादिचसूत्रमस्य:, चः समुच्चायार्थः 'चलणाओ' त्ति बहुवचननिर्देशाचलनाद्या दशमोद्देशकस्यार्थाः, तत्सूत्रं चैवम्- 'अन्यूथिका भदन्त ! एवमाख्यान्ति चलद् अचलितमित्यादी' ति प्रथमशतो-द्देशकसमहणिगाथार्थः / / 1 / / तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाहनमो सुयस्य / / (सू०३)। 'नमो सुयस्स' त्ति नमस्कारोऽस्तु श्रुताय- द्वादशाङ्गीरूपायाहत्प्रवचनाय, नन्विष्टदेवतानमस्कारो मङ्गलार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ? अत्रोच्यते-श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो, 'नमस्ती ये' ति भणनात्। तीर्थं च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैव च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तथा सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव-"काऊण नमोक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे'' इति वचनादिति // 3 // एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च यथोद्देशं निर्देश, इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चो वाच्यः, तस्य | चगुरुपर्वक्रमलक्षण सम्बन्धमुपदर्शयन् भगवान सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था, वण्णओ, तस्सणं रायगिहस्स बहिया नगरस्स उत्तरपुरच्छिमे दिसीभाए गुणसिलएनामंचेहए होत्था, सेणिएराया, चेल्लणादेवी। (सू०५) अथ कथमिदमवसीयते यदुत-सुधर्मस्वामी जम्बूस्वामिनमभिसंबन्धग्रन्थमुक्तवानिति ? उच्यते-सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात्, आह च- “तित्थं च सुहम्माओ, निरवचा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति। तथा षष्ठाने उपोद्घात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह- "जह णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमढे पण्णत्ते, छट्ठस्सणं भंते ! के अष्टे पन्नत्ते?" तितत एवमिहापि सुधर्मैव जम्बूनामानं प्रत्युपोद्धातमवश्यमभिहितवानित्यवसीयत इति / अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति। अयं च प्राग् व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृतान व्याख्यातः कुतोऽपि कारणादिति। 'तेणं कालेणं' ति, ते इति-प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमासीत्, णकारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा-"इमाणं भंते! पुढवी" त्यादिषु काले अधिकृतावसर्पिणीचुतर्थविभागलक्षण इति, 'तेणं तितस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समएण' ति समये- कालस्यैव विशिष्ट विभागे, अथवा तृतीयैवेयं ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे' त्ति एकारः प्रथमैकवचनप्रभवः 'कयरे आगच्छइ दित्तरूवे' इत्यादाविव / ततश्च राजगृहं नाम नगरं 'होत्थं त्ति अभवत्। नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति ? उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत्न तु सुधर्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात्। 'वन्नओ' त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात् / भ०१२०१ उ०। "इति गुरुगमभङ्गैः सागरस्याहमस्य, स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य सद्यः / प्रथमशतपदार्थावर्तगर्तव्यतीतो, विवरणवरपोतं प्राप्त सद्धीवराणाम् / / 1 / / " इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्तौ प्रथमशतं समाप्तमिति। भ०१श०. ग अथ द्वितीयं व्याख्यायते- तत्रापि प्रथमोद्देशकः- तस्य चायमभिसम्बन्धः-प्रथमशतान्तिमोद्देशकान्त जीवानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्वासादि चिन्त्यत इत्येवं सम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम्। गाहा ऊसासखंदए विय 1, पुढविं 2, दिय 3, अन्नउत्थि, भासा 5 य। देवा य 6 चमरचंचा 7, समय 8 खित्त ऽस्थिकाय 10 बीयसए।।१।। भ०२श०१ उ०।