________________ विवाह .1238 - अभिधानराजेन्द्रः - भाग 6 विवाहपणत्ति शवर्षः पुमान् तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपिरपालनारूपश्चतुरो वर्णान् कुलीनान् करोति / युक्तितो वरविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः / स च लोकेऽष्टविधः, तत्र अलंकृत्य कन्यादानं ब्राह्मयो विवाहः 1, विभवविनियोगेन कन्यादानं प्राज्यापत्यः 2, गोमिथुनदानपूर्वमार्षः 3, यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः 4; एतेधा विवाहाश्चत्वारः गृहस्थो-चितदेवपूजनादिव्यवहाराणामेतदन्तरङ्ग कारणत्वात् / मातुः पितृबन्धूनां चाप्रामण्यात् परस्परानुरागेण समवायाद्गान्धर्वः 5. पणबन्धने कन्याप्रदानमासुरः 6, प्रसह्य कन्याग्रहणाद्राक्षसः 7, सुप्तप्रमत्तकन्याग्रहणात्पैशाचः 8; एते च चत्वारोऽधाः / यदि वधूवरयोरनपवादं परस्परं रुचिरस्ति तदा अधा अपि धाः / शुद्धकलत्रलाभफलो विवाहः / तत्फलं च सुजातसुतसंततिरनुपहता चित्तनिर्वृत्तिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं चेति / कुलवधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अस्वातन्त्र्य, सदाचारमातृतुल्यस्त्रीलोकावरोधनमिति / / 6 / / ध०१ अधि०। "वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत्। गृहिणां मुख्य कार्यस्य, विवाहस्य तु का कथा॥१॥" कल्प०१ अधि०७ क्षण। आ० म०। (सर्वतः पूर्वमृषभेन भगवता युगलिकमनुष्याणां विवाहोऽनुष्ठापित इति उसह' शब्दे द्वितीयभागे 2627 पृष्ठे उक्तम्।) (एवं जगद्गुरुविषयां महादानविप्रतिपत्तिनिरतस्यैव राज्यदानविषयतां निरस्य परमतं रज्ज' शब्देऽस्मिन्नेव भागे दर्शितम्।) (परविवाहकरणं परविवाहकरण' शब्दे पञ्चमभागे 548 पृष्ठे व्याख्यातम्।) विवाहचूलिया-स्त्री०(व्याख्याचूलिका) व्याख्या-भगवती तस्याश्धूलिका व्याख्याचूलिका / संक्षेपिकानां दशानां पञ्चमेऽध्ययने, स्था० 10 ठा० 3 उ०।२०। पा० / ध०। ती०। विवाहपण्णत्ति-स्त्री०(व्याख्याप्रज्ञप्ति) भगवत्यपरनामके प्रवचनपुरुषस्य पञ्चमे अङ्गे, भ०। विवाह-स्त्री०(ध)प्र(ज्ञा)ज्ञ त्ति)प्ति भगवत्यपरनामके प्रवचन-पुरुषस्य पञ्चमे अङ्गे, भ०। अथ विवाहपन्नत्ति त्तिकः शब्दार्थः ? उच्यते, विविधा--जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्त्या मर्यादया वा-परस्परा-संकीर्णलक्षणाभिधानरूपया ख्यानानिभगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्चितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभि यस्याम्, ? अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याःअभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् 2, अथवाव्याख्यानाम्अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयोः-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः 3, अथवा व्याख्यायाः- अर्थकथनस्य प्रज्ञायाश्वतद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः --- प्राप्तिः आत्तिर्वा-आदानंयस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिाख्याप्रज्ञात्तिर्वा 4-5, व्याख्याप्रज्ञाद्वा-भगवतः सकाशादाप्तिरात्तिर्वा गणधरस्य यस्याः सा तथा 6, अथवा विवाहा विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररुप्यन्तेप्रबोध्यन्ते वा यस्यां, विवाहा वा-विशिष्टसन्ताना विबाधा वा-प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः, विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च–अर्थप्रज्ञप्तिश्वार्थप्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा ७-----६-१०-(भ०१ श०१ उ०।) स०। अनु०। पा० "विवाह-पन्नत्ति' त्ति सज्ञितस्य पञ्चमागस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्ययस्वरूपस्य घनोदारशब्दस्य लिङ्ग विभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितौद्देशकस्य नानाविधाद्भुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहस्रप्रमाण-सूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्शुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्रादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणारिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्त कल्पगणनायकातिप्रकल्पितस्य मुनियोधैराबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया महतामवे वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानां संघट्टनेन बृहत्तरा, अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पिकुलोत्पत्नैरस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना / (सू०१) भ०१श०१ उ०। णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सवसाहूणं / (सू०१) णमो बंभीए लिवीए। (सू०२)। अधिकृतशास्त्रस्यैव मङ्गलत्वात्कि मङ्गलेन ? अनवस्थादिदोषप्राप्तेः, सत्यं, किन्तु शिष्यमतिमङ्गलपिरग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्त मेवेति / अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः। तथाहि-इह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः,तासां च प्रज्ञापना बोधो वाऽनन्तरफलं, परम्परफलं तुमोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न मोक्षाङ्ग तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्यशास्त्रस्येदं प्रयोजनमिति॥२॥ तदेवमस्यशास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्री (10000) प्रमाणस्यानषट्त्रिंशत्प्रश्-(३६०००) सहस्रपरिमाणस्य अष्टाशीतिसहस्वाधिकलक्षद्वय(२८८०००) प्रमाण-पदराशेर्मङ्गलादीनिदर्शितानि। अथ प्रथमेशते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति। उद्देशकाश्चअध्ययनार्थदेशाभिधानियोऽध्ययनविभागाः। उद्दिश्यन्ते-उपधानविधिना शिष्यस्याचार्येण, यथाएतावन्तमध्ययनभागमधीष्वेत्येवमुद्देशास्तएवोद्धेशकाः,