________________ विवागसुय 1237- अभिधानराजेन्द्रः - भाग 6 विवाह स्तत एषां ये विशेषाः प्रकर्षास्ते तथा, तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषा इतीहापि सम्बन्धनीयम्, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमास्तेषु जीवेष्विति गम्यम्। इह चेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानांसाधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतम्। अथ प्रत्येकं श्रुतस्कन्धयोरभिधेये पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येनते आह-'अणुक्रये' त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः- पारम्पर्यप्रतिबद्धाः, के? विपाका इति योगः, केषाम् ? अशुमानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैवच भाषिताः-उक्ता बहुविधा विपाकाः विपाकश्रुते एकादशाङ्गे भगवता जिनवरेण संवेगकारणार्थाः-- संवेगहेतवो भावाः अन्येऽपि चैवमादिका आख्यायन्त इतिपूर्वोक्तंक्रियया वचनपरिमाणाद्वोत्तरक्रियया योगः, एवं च बहुविधा विस्तरेणार्थप्ररूपणता आख्यायन्त इति। शेषं कण्ठ्यम्, नवरं संख्यातानिपदशतसहस्राणि पदाणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति॥११॥ स० 146 सम० / नं०। "नामेण पूसमित्तो, समणो समणगुणनिउणविंशतितो। होही अपच्छिमो किर, विवायसुयधारको धीरो।" ति०। विवाय-पुं०(विवाद) विरुद्धो वादो विवादः / आचा० 1 श्रु० 4 अ०२ उ० / विप्रतिपत्तौ, प्रश्न०२ सर्व० द्वार। विप्रतिपत्तिसमुत्थवचने, क्रोधकार्यत्वादस्य क्रोधकषायविशेषे, भ०१२ श०५ उ०। स०1 सूत्र०। वाकलहे, जी०१ प्रति० / कलहो त्ति वा भंडणं ति वा विवादो त्ति वा एगटुं / नि० यू०१६ उ०। छविहे विवादे पण्णत्ते, तं जहा- ओसकतित्ता उस्सकइत्ता अणुलोमइत्ता पडिलोमतित्ता भइत्ता भेलतित्ता। (सू०४१२) 'छविहे त्यादिषड्विधः-षड्भेदो विप्रतिपन्नयोः-क्वचिदर्थे वादोजल्पो विवादः प्रज्ञप्तः, तद्यथा- 'ओसक्कइत्त' त्ति अवष्वष्क्यअपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च 'ओसक्कावइत्त' त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसl-अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसक्कइत्त' त्ति उत्ष्यष्क्य-उत्सृत्य लब्धावसरतयोत्सुकीभूय 'उस्सकावइत्त' त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरोजयार्थी विवदते, तथा अणुलोमइत्त' त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा पूर्व तत्पक्षाभ्युपगमेनानुलोमं कृत्वा 'पडिलोमइत्ता' प्रतिलोमान कृत्वा अध्यक्षान् प्रतिपन्थिनंवा, सर्वथा सामर्थ्य सतीति,तथा भइत्त' त्ति अध्यक्षान् भक्त्वा-संसेव्य, तथा 'भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः / कचित्तु - 'भैयइत्त' ति पाठः, तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः। स्था०६ठा०३ उ०। लब्धिख्यात्यर्थिना तु स्याद्, दुःस्थितेनाऽमहात्मना। छलजातिप्रधानो यः, स विवाद इति स्मृतः॥४॥ लब्धिः-- सुवर्णादीनां लाभः ख्यातिश्व-प्रसिद्धिः ताभ्यामर्थः प्रयोजन यस्यास्ति स तथा तेन, तुशब्दः पुनःशब्दार्थः, स चाद्यवादविवादयोर्विशेषद्योतकः स्याद्भवेत् यो वाद इति संबन्धः, दुस्थितेन-दरिद्रेण मनोदुःस्थितेन वा अमहात्मना-अनुदारचित्तेन एवंविधस्य हि पराजये हि विषाद-वृत्तिच्छेदादिदोषप्रसङ्गेन साधोः परलोकबाधेति कृत्वा वादस्य विरुद्धता स्यादत एव कारणात् विशेषितोऽसाविति। इह चसह वादिनेति गम्यम्, छलजातिप्रधानो यस्तत्र छलं वाक्छलादि यथा नवकम्बलो देवदत्तः जातयो दूषणाभासाः यथाअनित्यः शब्दः कृतकत्वात्घटवदिति, अस्य हेतोर्दूषणं तथाहि-यदि घटगतं कृतकत्वं हेतुस्तदा तच्छब्देन सिद्धमित्यसिद्धो हेतुः, अथशब्दगतं तदनित्यत्वेन व्याप्तं न सिद्धमित्यसाधारणा-नैकान्तिको हेतुरिति तत्प्रधानो यःस तथा स एवंविधो वादो विवाद इति स्मृत-एवमभिहित इति / / 4 / / कस्माद्विवादोऽयं स्मृत इत्याह। मूलसूत्रम् - विजयो पत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः। तद्भावेऽप्यन्तरायादि, दोषोऽदृष्टविघातकृत्॥५॥ विजयः-प्रतिवाद्यभिभवद्वारेण जयो हिर्यस्मात-अत्र छलादिप्रधाने विवादे सन्नीत्या-शोभनेन न्यायेन यतस्तत्र सन्नीत्युद्ग्रहणपरस्यापि छलाय शब्दादिना निग्रहस्थानावाप्तिः स्यात् , दुर्लभो न सुलभः / कस्येत्याह-तत्त्ववादिनः वस्तुतत्त्ववदनशीलस्य साधोः अथात्यन्तप्रमादितया छलादिपरिहरतो विजयस्य लाभो भवति तत्रान्तरायादिदोषमाह-तद्भावेऽपि आस्तां विजयाभावो दोषस्तद्भावेऽपिपरनिराकरणे हि अन्तरायः प्रतिवादिनो लाभख्यात्यादिविघात आदिर्यस्य शोकप्रद्वेषादेः स तथा सचासौ दोषश्चेत्यन्तरायादिदोषः संभवतीति गम्यते। स हि पराजितो राजादिभ्यो न किंचिल्लभते, लब्धं चास्य ह्रियते / किंविधो दोष इत्याह-अदृष्टविधातकृतत्परलोकव्याहतिकारीति॥५|| हा०१२ अष्ट। शक्रेशान्योर्विवादःअत्थिणं भंते ! तेसिं सकीसाणाणं देविंदाणं देवराईणं विवादा समुप्पजंति, हंता अस्थि / से कहमिदाणिं पकरेइ ? गोयमा ! ताहे चेवणं ते सकीसाणा देविंदा देवरायाणो सणंकुमारं देविंदं देवरायं मणसीकरेंति / तए णं से सणंकुमारे देविंदे देवराया तेहिं सकीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउन्भवंति, जं से वयइ तस्स आणा उववा-यवयणनिहेसे चिट्ठति / (सू०१४०) भ०३ श०१ उ०। विवाह-पुं०(विवाह) पाणिग्रहणे, प्रश्न० 2 आश्र० द्वार। वैवाह्यं विवाह एव तत्कर्म वा वैवाह्यं सामान्यतो गृहस्थधर्म इति प्रकृतम्, अग्रेऽपि सर्वत्र ज्ञेयम्। अत्र लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री षोड