________________ विवागसुय 1236 - अभिधानराजेन्द्रः - भाग 6 विवागसुय भाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागाअशुभरसा ये फलविपाका-विपाकोदयास्ते तथा ते आख्यायन्त इति योगः / केषामित्याह--निरयगतौ-- तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां, जीवानामिति गम्यते / तथा 'मणुयत्ते' त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका; अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतम्। तथाहि-वधोयष्ट्यादिताडनं वृषणविनाशोवर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानांच यच्छेदनं तत्तथा जिह्वाछेदनम् 'अंजन' ति अञ्जनं-तप्तायःशलाकया नेत्रयोः म्रक्षणं या देहस्य क्षारतैलादिना'कडमिदाहणं तिकटानांविदलवंशादिमयानामग्निः कटाग्निस्तेन दाहनं कटाग्निदाहनं; कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनंविदारणम् उल्लम्बनंवृक्षशाखादावुद्न्धनंतथा शूलेन लतया लकुटेन यष्ट्याच भञ्जनंगात्राणां तथा त्रपुणा-धातुविशेषेण सीसकेनच-तेनैवतप्तेन तैलेनच 'कलकल' त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां-भाजनविशेषे पाकः कुम्भीपाकः कम्पनं शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धन- निबिडनियन्त्रणं वेधः-कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्तनंत्वगुत्त्रोटनं प्रतिभयकरं-भयजननं तच तत्करप्रदीपनंच वसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्नि प्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषण-विनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति कर्मधारयः / कानीमानीत्याह-दुःखानि, किम्भूतानि ? अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः / तथेदमाख्यायते बहुविविधपरम्पराभिः दुःखानामिति गम्यते। अनुबद्धाः-सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्तेन त्यज्यन्ते, कया ? पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याह-यतोऽवेदयित्वाअननुभूय कर्मफलमिति गम्यते, हुर्यस्मादर्थे, नास्ति-न भवतिमोक्षोवियोगः कर्मणः सकाशात्, जीवानामिति गम्यते। किंसर्वथा नेत्याहतपसा- अनशनादिना, किम्भूतेन ? धृतिः- चित्तसमाधानं तद्रूपा 'धणिय' त्ति अत्यर्थं बद्धानिष्पीडिता कच्छाबन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्ते नेत्यर्थः / शोधनम्-अपनयनं तस्य-कर्मविशेषस्य 'वावि' ति सम्भावनायां 'होज्जा' सम्पद्येत नान्यो मोक्षोपायोऽस्तीति भावः / एत्तो ये' त्यादि इतश्चानन्तरं सुखविपाकेषु, द्वितीयश्रुतस्कन्धाध्य-यनेष्वित्यर्थः, यदाख्यायते तदभिधीयते इति शेषः, शीलंब्रह्मचर्यं समाधिर्वा संयमः-- प्राणातिपातविरतिनियमा-अभिग्रहविशेषाः गुणाः-शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादिएतेषामुपधानंविधानं येषां ते तथा अतस्तेषु शील-संयमनियमगुणतपउपधानेषु, केष्वित्याह-साधुषुयतिषु, किम्भूतेषु ? सुष्ठु विहितम्-अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादिदत्त्वा यथा बोधिलाभादिनिर्वतयन्ति तथहाख्यायत इति सम्बन्धः / इह च सम्प्रदानेऽपि सप्तमी न दुष्टा विषयस्य विवक्षणात्, अनुकम्पा- अनुक्रोशस्तत्प्रधान आशयः-- चित्तं तस्य प्रयोगो-व्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालमति' ति त्रिषु कालेषु या मतिः-बुद्धिर्यदुत दास्थामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च यानि विशुद्धानि तानि तथा, तानिचतानि भक्त पानानि चेति अनुकम्पाशयप्रयोगत्रिकालमिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः / केन प्रदायेत्याह- प्रयतमनसा- आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखहेतुत्वात् सुखःशुभो वा 'नीसेस' ति निःश्रेयसः कल्याणकरत्वात् तीव्रः-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्रिता-असंशया मतिःबुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः, किं ? 'पयच्छिऊणं' ति प्रदाय, किं भूतानि भक्तपानानि ? प्रयोगेषु शुद्धानि दायकदानथ्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्गमादिदोषवर्जितानि, ततः किं ?- यथा च-येन च प्रकारेण पारम्पर्येण मोक्षसाधकत्वलक्षणेन निर्वर्त्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभम्, यथा च परित्तीकुर्वन्तिह्रस्वतां नयन्ति संसारसागरमिति योगः। किं भूतं? नरनिरयतिर्यक्सुरगतिषु यजीवानां गमनं परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवर्तोमत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा, तथा अरतिभयविषादशोकमिथ्यात्वान्येव शैलाः-- पर्वतास्तैः सङ्कटः-सङ्कीर्णो यः स तथा ततः कर्मधारयोऽतस्तम्, इह च विषादोदैन्यमानं शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं महान्धकारं यत्र स तथा अतस्तं, 'चिक्खि-ल्लसुदुतारं' तिचिंक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो दुःखोत्तार्यो यःस तथा तम्, तथा जरामरणयोनय एव संक्षुभितं महामत्स्यमकराद्यनेकजलजन्तुजातसम्मनं प्रविलोडितंचक्रवालं जलपरिमाण्डल्यं यत्र स तथा तं, तथा षोडश कषाया एव स्वापदानिमकरग्राहादीनि प्रकाण्डचण्डानिअत्यर्थं रौद्राणि यत्र स तथा तम्, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदाप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेण च्युतानाम् 'इहेव' ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुः-शरीरंतस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातेरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालौ निराबाधत्वम् आरोग्यस्य प्रकर्षः बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा-अपूर्वश्रुत-ग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजनः- सुहृल्लोकः स्वजन:पितृपितृव्यादिः धनधान्यरूपो यो विभवो-लक्ष्मीः सधनधान्य-विभवस्तथा समृद्धेः-पुरान्तः पुरको-शकोष्ठागारबलवाहनरूपायाः सम्पदोयानि साराणि प्रधानानिवस्तूनितेषांयः समुदायः--समूहः सतथा इत्येतेषांद्वन्द्व