SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मत्तग 102 - अभिधानराजेन्द्रः - भाग 6 मत्तग संसत्तग्गहणम्मी, संजमदोसा सवित्थारा ||376 / / मात्रकं यदि न गृह्णति ततश्चतुर्गुरुकाः, ये अभिनवश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुनर्निर्लेपनं च कुर्वाणं दृष्ट्वा दुर्दृष्टधर्माणोऽमीति मिथ्यात्वं गच्छेयुः। यदि प्रतिग्रह आचार्थाऽऽदीनामर्थाय गृह्णाति, ततश्चाऽऽत्मपरित्यागः, अथाऽऽत्मनो गृह्णाति ततः परेषामाचार्याऽऽदीनां परित्यागः कृतो भवति / संसक्तं भक्त पानं वा प्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति। ततः रंग्यमदोषाः सविस्तराः 'छक्काय चउसुलहुगा'" इत्यादि विस्तरसहिता वक्तायाः। अथवारत्तगदृष्टान्तमाहवारत्तग पध्वजा, पुत्तो तप्पडिम देव बलि साहू। परियरणेगपडिग्गह, आतमणुव्वलणा छेओ॥३८०|| करवा नगर, तत्थ अभयसेणो राया, तस्स अमच्चोवारत्तगो नाम, सो गदखा, घरसार पुत्तस्स दाउ निसिरिय पव्वइओ, तस्स पुत्तेण पिउमनीए देवकुलं कारित्ता रयहरणमुहपोत्तियपडिमा ठविया, तत्थ य सत्ताग.रोपवत्तिओ, तत्थ य एगो साहू एगपडिग्महधारी पडिग्गहए भिक्ख घेत्तु त भोत्तुं तत्थेव पडिग्गहे पुणो पाणगं घेत्तुं सन्नं वोसरिउ तेणेव अजिपरिओ दिट्ठो, तेहिं निच्छूढो, तस्स अत्रेसिंच साहूणं वोच्छेओ तत्थ जाओ।" अथ गाथाऽक्षरार्थः-वारत्रकेण प्रव्रज्यायां गृहीतायां पुत्रस्तस्य वारबकमत्य प्रतिमा देवकुलेऽचीकरत्। तत्र च बली प्रवर्तिता, साधुश्चैकन प्रतिग्रहेण भिक्षार्थमायात्, प्रतिचरणं च कुर्वाणस्तेनैव प्रतिग्रहेणाचमनं निलेपनं कुर्वाणं दृष्ट्वा तस्योद्वालनानिष्का शना कृता, तस्यान्येषां च साधूना व्यवच्छेदः कृतः। एवं मात्रकस्याऽग्रहणे उड्डाहो भवेत्। अथ प्रमाणद्वारमाहजो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं / दोसु विदव्वग्गहणं, वासावासासु अहिगारो॥३८१॥ यो मागधदेशोद्भवः प्रस्थः "दो असईओ पसई, दो पसईओय सेइया होइ, चउसेइयाहिं पत्थो / " इति क्रमनिष्पन्नस्ततो मागधप्रस्थात् सविशषतरं मात्रकप्रमाणं भवति। तेन च मात्रेण द्वयोरपि ऋतुबद्धवर्षावासयोर्गुरुग्लानाऽऽदियोग्यभक्तपानद्रव्यस्य ग्रहणं क्रियते। पानकं गृह्यते। वर्षावासे तु विशेषतो मात्रकेणाधिकारः, यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति / यतः कदाचित् वर्ष निपतेत्, येन गृहाद्गृहं चरितुं न शक्यते, ततः पानकेन विना प्रतिग्रहो लेपकृतो भवति। अथवा-वर्षावासे भक्त पान संसज्यत इति कृत्वा मात्रकण तस्य शोधन कार्यम्। प्रकारान्तरेण मात्रकप्रमाणमाहसुकुल्लओदणस्स, दुगाउअद्धाणमागओ साहू। भुंजति एगट्ठाणे, एवं खलु मत्तगपमाणं // 382| शुष्कोदनस्यान्यभाजनगृहीतेन तीमनेनार्द्रस्य भृतं यदेकस्थाने एकवारं द्विगव्यूतमात्रादध्वन आगतः साधुर्भुङ्क्ते. एतत् खलु मात्रकप्रमाण मन्तव्यम्। यदि वाभत्तस्स व पाणस्स व, एगतरागस्स जो भवे भरिओ। पञ्जत्तो साहस्स उ, वितियं पिय मत्तयपमाणं / / 383 / / भक्तस्य वा पानस्य वा अनयोरेकतरस्य यद् भूतं सदेकस्य साधोः पर्याप्त भवति, एतत् द्वितीयमपि मात्रकप्रमाणामवगन्तव्यम्। अथ हीनद्वारमाहडहरस्सेमे दोसा, ओभायणें खिंसणा गलंते य / छण्णं विराहणा भा-णभेदों जं वा गिलाणस्स / / 384|| डहरस्य-यथोक्तप्रमाणाल्लघुतरस्य मात्रकस्येमे दोषाः / तद्यथाअपभ्राजना तल्लघुतरं मात्रकमतीव भ्रियमाणं दृष्ट्वा लोको ब्यात्- अहो अमी बुभुक्षादुःखमग्राः प्रव्रजन्ति / अथवा-भक्तपानं परिगलद्विलोक्य अहो अमीच सन्तुष्टा एवं सिच्यमाना अपि नगणयन्तीति खिंसां कुर्यात्। अतिभृते च गलतिषट्कायानां विराधना, अथ परिलनभयात्तत्रैवोपयोग ददाति ततः स्थाप्याऽऽदौ प्रस्खलनस्य भाजनभेदो भवेत् / यद्वाग्लानस्योपलक्षणत्वाद् बालवृद्धाऽऽदीनां च तेन डहरमात्रकेणापर्याप्त भवति, तनिप्पन्नं प्राश्चित्तम्।। तथापडगं अपावते से, पुढवीतसपाणतरुगणादीणं / आणिज्जंते गाम-तराउ गलणे य छक्काया // 385 / / डहरमात्रके आकण्ठभृते लेपकृतीकारणतयाऽपावृते उद्घाटिते पृथिवीरजस्त्रसप्राणितरुगणाऽऽदीनां पतनं भवेत् / अथवा-ग्रामान्तरादतिप्रभूते तस्मिन्नानीयमनि परिगलति षट्काया विराध्यन्ते। अथाऽधिकद्वारमाहअहियस्स इमे दोसा, एगयरस्सोग्गहम्मि भरितम्मि। सहसा मत्तगभरणे, भारादिविगिचणियमादी॥३८६|| प्रमाणाधिकस्य मात्रकस्य इमे दोषाः-एकतरस्य भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते सति पश्चान्मात्रके ग्रहणं कुर्यात सहसा वा तस्य मात्रस्य भरणे कृते भारेण स्थाणुकण्टकाऽऽदीनि न प्रेक्षते, तत्राऽऽत्मविराधना। ईर्याया अशोधने संयमविराधना। अन्यच्च-द्वयोरपि प्रतिग्रहमात्रकयोभृतयोर्विवेचन च परिष्ठापनं भवेत् / तत्र षट्कायविराधना। अथ न परिष्ठापयति, ततोऽतिप्रचुरेण भक्षितेन ग्लानन्वं भवेत्, यत एवमादयो दोषा अतः प्रमाणयुक्तं ग्रहीतव्यम्। अथ शोधिद्वारमाहजइ भोयणमावहती, दिवसेणं तत्तिया चउम्भासा। दिवसे दिवसे तस्स उ, वितिएणाऽऽरोवणा भणिया।॥३७॥ यति-यावतो वारान एकदिवसेन मात्रके भोजनं भक्तपानमात्मनो योग्यमावहति, आनयतीत्यर्थः / तावन्ति चतुर्लघूनि। अथ दिवसे मात्रक परिभुक्त, ततो द्वितीयप्रायश्चित्तेनाऽऽरोपणा भणिता। किमुक्तं भवति ? द्वितीये दिवसे मात्र यावतो वारान् परिभुङ्क्ते, तावन्ति चतुर्गुरुकाणि, एवं तृतीये षड्लघु, चतुर्थे षड्गुरु, छेदः, षष्ठ मूलं, सप्तमे अनवस्थाप्यम्, अष्टमे पाराश्चिकम् / गतं शोधिद्वारम्।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy