________________ विमुत्ति १२२२-अभिधानराजेन्द्रः - भाग 6 विमोक्ख समुद्राधिकारमधिकृत्याह - जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं। अहे य णं परिजाणाहि पंडिए, से (हुमुणी अंतकडे त्ति वुधई // 10 // यं-संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम्, ? ओधरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्। अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग्जानीहि, प्रत्याख्यानपरिज्ञया तु परिहर पण्डितः-सदसद्विवेकज्ञः। सच मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते॥१०॥ अपिचजहा हिबद्धं इह माणदेहि, जहा य तेसिं तु विमुक्ख आहिए। अहा तहा बन्धविमुक्ख जे विऊ, से (हू) हुमणी अंतकडे ति बुचई // 11 // यथा-येनप्रकारेण मिथ्यात्वादिना बद्धं कर्म-प्रकृतिस्थित्यादिनाऽऽ-- त्मसात्कृतम् इह-अस्मिन् संसारे मानवैः-मनुष्यैरिति, तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते।।११।। इमम्मि लोए परए य दोसु वि, न विजई बंधण जस्स किंचि वि। से (हू) हुनिरालंवणमप्पइहिए. कलंकलीभावपहं विमुचइ तिमि // 12 // अस्मिन् लोके परस्त्रच द्वयोरपि लोकयो यस्य बन्धनं किञ्चनास्ति स निरालम्बनः-ऐहिकामुष्मिकाशंसारहितः अप्रतिष्ठितः-न क्वचित्प्रतिबद्धोऽशरीरी वास एवंभूतः कलंकलीभावात्-संसारगर्भादिपर्यटनाद्विमुच्यतेब्रवीमीति पूर्ववत्। उक्तोऽनुगमः। आचा०२ श्रु०४ चूल आचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य षोडशेऽध्ययने, स०।आचा०। नि० चू०। आव० : विमुच्यते प्राण सकलबन्धनेभ्यो यया सा विमुक्तिः // 12 // गौणीहिंसायाम, प्रश्न०१संव० द्वार। बन्धदशानामष्टमे अध्ययने, स्था० 10 ठा०३ उ०। विमुह-त्रि०(विमुख) निरपेक्षे, विशे०। विमुखस्यादेरभावाद् विमुखम्। भ०२श०२ उ०1 विमुहया-स्त्री०(विमुखता) वैमुख्ये, षो०४ विव०। विमुहीकय-त्रि०(विमुखीकृत) विरञ्जिते, प्रश्न०३ आश्र० द्वार। विमोइ(चि)य-त्रि०(विमोचित) स्वस्थानाचलिते,बृ०३ उ०। विमोक्ख-पुं०(विमोक्ष) परित्यागे, आचा०१९०८ अ०१उ०। निसर्गे, विशे०। विमोक्षस्य निक्षेपं चिकीर्षुर्नियुक्तिकार आहनाम ठवण विमुक्खो, दवे खित्ते य काले भावे य। एसोउ विमुक्खस्स, निक्खेवो छविहो होइ।।२५८|| नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः षोढा भवतीति गाथासमासार्थः। व्यासार्थप्रतिपादनायतुसुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह - दव्वविमुक्खो नियला-इएसु खित्तम्मिचारयाईसुं। काले चेइयमहिमा-इएसु अणघायमाईओ / / 256 / / द्रव्यविमोक्षो द्वेधा-- आगमतो, नोआगमतश्च / आगमतो ज्ञाता, तत्र चानुपयुक्तः, नो आगमतस्तुज्ञशरीरभव्यशरीव्यतिरिक्तो निगडादिकेषु विषयभूतेषुयो विमोक्षः स द्रव्यविमोक्षः।सुब्व्यत्ययेन वा पञ्चम्यर्थेसप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षोद्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्याऽऽयोज्यः। तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते, क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः। कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वानाघातादिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन्वा काले व्याख्यायते सोऽभिधीयत इति गाथार्थः। भावविमोक्षप्रतिपादनायाहदुविहो भावविमुक्खो, देसविमुक्खो य सव्वमुक्खो य। देसविमुक्खा साहू, सव्वविमुक्खा भवे सिद्धा।।२६०॥ भावविमोक्षो द्विधा- आगमतो, नोआगमतश्च / आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्वतश्च / तत्र देशतोऽविरतसम्यग्दृष्टीनप्रमाद्यकषायचतुष्कक्षयोपशमाद् देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यांच यस्ययावन्मात्रं क्षीणं तस्यतत्क्षयादेशविमुक्ततेत्यतः साधर्वा देशविमुक्ताः। भवस्थकेवलिनोऽपि भवोपग्राहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुरितिगाथार्थः / ननुबन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्य वच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाहकम्म य दव्वेहि समं, संजोगो होइ जो उ जीवस्स। सो बन्धो नायव्यो, तस्स विओगो भवे मुक्खो // 261 / / कर्मेद्रव्यैः कर्मवर्गणाद्रव्यैः सम-साद्धयः संयोगो जीवस्य सम्बन्धः प्रकृतिस्थितत्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनिकाचनावस्थश्च ज्ञातव्यः / तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहणयोग्यत्वात्। कथं पुनरष्टप्रकारं कर्म बध्नातीति चेद् ? उच्य-ते-मिथ्यात्वोदयादिति। उक्तं च-"कहं णं भंते!जीवा अट्ठकम्मपगडीओबंधंति? गोयमा!णाणावरणिजस्स कम्मस्स