________________ विमुत्ति 1221 - अभिधानराजेन्द्रः - भाग 6 विमुत्ति अपिचतहप्पगारेहि जणेहिं हीलिए, ससद्दफासा फरासाउईरिया। तितिक्खए नाणि अदुट्ठचे यसा, गिरिव वाएणन संपवेयए॥३॥ तथाप्रकारैः-अनार्यप्रायैर्जनैः हीलितः-कदर्थितः, कथं? यतस्तै परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, ताँश्च स मुनिरेवं हीलितोऽपि तितिक्षते-सम्यक्सहते, यतोऽसौज्ञानीपूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, अदुष्टचेताः-अकलुषान्तःकरणः सन् न तैः संप्रवेपते-नकम्पते गिरिरिव वातेनेति // 3 // __ अधुना रूप्यदृष्टान्तमधिकृत्याह-- उवेहमाणे कुसलेहि संवसे, __ अकंतदुक्खी तसथावरा दुही। अलूसए सव्वसहे महामुणी, तहाहि से सुस्समणे समाहिए।।। उपेक्षमाणः-परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणोमाध्यस्थ्यमवलम्बमानः कुशलैः- गीतार्थः सह संवसेदिति। कथम् ? अकान्तम्-अनभिप्रेतंदुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावरणांतान् दुःखिन-स्त्रसस्थावारान् अलूषयन्-अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत्सर्वसहः-परीषहोपसर्गसहिष्णुः महामुनिः-सम्यग् जगत्त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः॥४|| किशविऊ नए धम्मपयं अणुत्तरं, विणीयतण्णस्स मुणिस्स झायओ। समाहियस्सऽम्गिसिहावतेयसा, तवो य पन्ना य जसो य वह / / 5 / / विद्वान्-कालज्ञः नतः-प्रणतः प्रहः, किंतत् ?-धर्मपदम्-क्षान्त्यादिकं, किंभूतम् ?- अणुत्तरम्-प्रधानमित्यर्थः, तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं समाहितस्य- उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति // 5 // तथादिसो दिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया। महागुरू निस्सयरा उईरिया, तमेव तेउत्ति दिसं पसासगा।।६।। दिशो- दिशमिति- सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षे-मपदानिरक्षणस्थानानि प्रवेदितानि-प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेष-जयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?- महागुरूणिकापुरुषैर्दुर्वहत्वात् निःस्वकराणि- स्वंकर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि उदीरितानिआविष्कृतानि तेजस इव तमोऽपनयनात्त्रिदिशं प्रकाशकानि। यथातेजस्तमोऽपनीयोवधिस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्त्रिदिशं प्रकाशकानीति // 6 // __ मूलगुणानन्तरमुत्तगुणाभिधित्सयाऽऽहसिएहि भिक्खू असिए परिथ्वए, असज्जमित्थीसु चइड पूयणं / अणिस्सिओ लोगमिणं तहा परं, न मिलई कामगुणेहिँ पंडिए॥७॥ सिताः-बद्धाः कर्मणा-गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा, तैः असितः- अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षुः परिव्रजेत्-संयमानुष्ठायी भवेत्।तथा स्त्रीषु असजन-सङ्गमकुर्वन् पूजन त्यजेत्, नसत्काराभिलाषी भषेत्। तथा अनिश्रितः-असंबद्धइहलोकेअस्मिन् जन्मनि तथा परलोके स्वर्गादाविति, एवंभूतश्च कामगुणैःमनोज्ञशब्दादिभिः न मीयते-न तोल्यते न स्वीक्रियत इति यावत्, पण्डितः-कटुविपाककामगुणदर्शी ति॥७॥ तहा विमुकस्स परिनचारिणो, धिईमओ दुक्खखमस्स मिक्खुणो। विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं वजोइणा ||8|| तथा तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निस्सङ्गस्तस्य, तथापरिज्ञानं परिज्ञा–सदसद्विवेकस्तया चरितुंशीलमस्येति परिज्ञाचारी ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः- समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमतेसहते, न वैक्लव्यमुपयाति, नापि तदुपशमार्थं वैद्यौषधादि मृगयते; तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म विशुध्यति-अपगच्छति। किमिव ? समीरित-प्रेरितं रूप्यमलमिव ज्योतिषाअग्रिनेति // 8 // साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याहसेह (ह) परिनासमयम्मिवई, निराससे उवरयमेहुणा चरे। भुयंगमे जुम्नतयं जहा चए, विमुचई से दुहसिन माहणे // 6 // स-एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः, परिज्ञासमये वर्तते, तथा निराशंसः-ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा-सर्पः कञ्चुकं मुक्त्वा निर्मलीभवति एवं मुनिरपि दुःखशव्यातः-नरकादिभवाद्विमुच्यत इति / / 6 / /