________________ विमाण 1216- अभिधानराजेन्द्रः - भाग 6 विमाण सविसेसं परिक्खेवेणं अद्धकोसंबाहल्लेणं पण्णत्ते, ताराविमाणे णं अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं पंचधणुसयाई बाहल्लेणं पण्णत्ते / (सू०१९७) 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं भदन्त ! किं संस्थितं' किमिव संस्थितं प्रज्ञप्तम् ? भगवानाह-गौतम! अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितम् / आह- यदि चन्द्रविमानमुत्तानीकृताछकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदि वा तिर्थक्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते? कामं शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानवात्, उच्यते-इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं; किन्तुतस्य विमानस्यपीठं, तस्य चपीठस्योपरिचन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादः, सच प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, सच दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः। नचैतत्स्वमनीषिकाया विजृम्भितम्, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेप-पुरस्सरमुक्तम्- "अद्धकविट्ठागारा, उदयत्थमणम्मि कह न दीसंति। ससिसूराण विमाणा, तिरियक्खेत्ते ठियाणं च ? ||1|| उत्ताणद्धकविट्ठागारं पीढं तदुवरि चपासाओ। वट्टालेखेण ततो, समवट्ट दूरभावातो // 2 // " तथा सर्व निरवशेष स्फटिकविशेषमणिमयं तथाऽभ्युद्गताआभिमुख्येन सर्वतो विनिर्गता उत्सृताः प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितम् अभ्युद्गतोत्सृतप्रभासितम्। यावत्करणात्-'विविहमणिरयणभत्तचित्ते वा उद्भूयविजयवैजयन्तीपडागच्छतातिछत्तकलिये तुंगे गगणतलमणुलिहंतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगथूभियागे वियसिय-सयवत्तपुंडरीयतिलगरयणद्धचंदचित्ते अंतोबहिं च सण्हे तवणिज्जवालुयापत्थडेसुहफासे सस्सिरीयरूवे पासाईएदरिसणिज्जे अभिरूवे पडिरूवे' इति, तत्र विविधा-अनेकप्रकारा मणयः चन्द्रकान्तादयो रत्नानि च कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्वित्रम्- अनेकरूपवद् आश्चर्यवद्धा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवाविजया इति वैजयन्तीयां पार्श्वकणिका उच्यन्ते, तत्प्रधानावैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणितैः कलितं वातोद्भूतविजयवैजयन्तीपताकाकलितं तुङ्गम्उचम् अत एवं 'गगणतलमणुलिहंतसिहर' गगनतलमनुलिखद्अभिलङ्घयद् गगनतलानुलिखच्छिखरं, तथा जातानि- जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदनन्तरेषु विशिष्टशोभानिमित्त रत्नानि यत्र तज्जालान्तर-रत्नम्। सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः। तथा पञ्चणद् उन्मीलितमिव- बहिष्कृतमिव पञ्जरोन्मीलितमिव, यथाहि-किल किमपि वस्तुपञ्जराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते; तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानिशतपत्राणि पुण्डरीकाणि चद्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्चभित्त्यादिषु पुण्ड्राणि रत्नम'याश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादिअञ्जनपर्वतोपरिसिद्धायतनद्वारवत्, ‘एवं सूरविमाणे वि' इत्यादि, एवं चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं; ग्रहविमानमपि नक्षत्रविमानमपि ताराविमानमपि,ज्योतिविमानानां प्राय एकरूपत्वात्। 'चंदविमाणे णं भंते!' इत्यादिचन्द्रविमानं भदन्त! कियदायामविष्कम्भेन कियत्परिक्षेपेण कियाहल्येन प्रज्ञप्तम् ? भगवानाह-गौतम! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तम् / 'सूरविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, भगवानाह- गौतम ! अष्टचत्वारिंशतमेकषष्टिभागान्, योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहल्येन / 'गहविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह- गौतम ! अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेष परिक्षेपेण क्रोशं बाहल्येन / 'नक्खत्तविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह- गौतम ! क्रोशमेकमायामविष्कम्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेष परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्रज्ञप्तम् / 'ताराविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह- गौतम ! अर्द्धक्रोशमायामविष्कम्भेन तदेवायामविष्कम्भायामपरिमाणं त्रिगुणं सविशेष परिक्षेपेण, पञ्चधनुःशतानि बाहल्येन प्रज्ञप्तम्। एवं परिमाणं च ताराविमानमुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धि द्रष्टव्यं, जघन्यस्थितिकस्य तु पञ्चधनुः- शतान्यायामविष्कम्भेन अर्द्धतृतीयानि धनुःशतानिबाहल्येन, उक्तञ्च-तत्त्वार्थभाष्ये- "अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः; चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामर्द्धयोजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशः, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयो नृलोकेः" इति। चंदविमाणेणंभंते! कतिदेवसाहस्सीओपरिवहति? गोयमा !चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफे,णरययणिगरप्पगासाणं (मुहगुलियर्पिगलक्खाणं) थिरलट्ठ (पउह) वट्टपीवरसुसिलिहसुविसिट्ठतिक्खदाढाविडंवितमुहाणं रत्तुप्पलपत्तमउयसुकुमालतालुजीहाणं (पसत्थसत्थवेरुलियभिसंतकक्कडनहाणं) विसालपीवरोरुपडिपुण्णविउलखंधाणं मिउविसयपसत्थसुहुमलक्खणविच्छिपणकेसरसडोवसोभिताणं चंकभितललियपुलियधवलगवि