________________ विभत्ति 1202 - अभिधानराजेन्द्रः - भाग 6 विभत्ति रूवीणमरूवीण य, विभासियव्वा जहा सुत्ते // 55 // भावम्मि विभत्ती खलु-नायव्वा छविहम्मि भावम्मि। अहिगारो एत्थं पुण, दव्वविभत्तीऍ अज्झयणे / / 556|| तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् द्विविधा- द्विप्रकारा द्वैविध्यं चास्याः संबन्धिभेदादेवेति / तमाह-जीवानामजीवानां च कोऽर्थः 1 जीवविभक्तिः-जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च / उत्तरत्राप्येवमेव संबन्धिभेदाभेदो व्याख्येयः। 'तहिं ति वचनव्यत्ययात्तयोर्जीवाजीवविभक्त्योर्मध्ये द्विविधा- सिद्धानामसिद्धानां च'अजीवाणं तु'त्ति तुरपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उ' त्ति तु अवधारणे, ततो द्विविधैव रूपिणामरूपिणां च विभाषितव्याविशेषेण व्यक्तं वक्तव्या, यथा सूत्रे-प्रक्रान्ताध्ययनरूपे, इह तुप्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरसौन प्रतिपाद्यत इति भावः / भावे-भावनिक्षेपे विभक्तिः, खलुनिश्चितं ज्ञातव्या षड्विधे भावे-षट्प्रकारौदयिकादिभावविषया। आह- एवमनेकविधायां विभक्ताविह कयाऽधिकारः ? उच्यते-अधिकारः- अधिकृतं अत्रेति प्रस्तुते-पुनः शब्दो-वाक्यान्तरोपन्यासे द्रव्यविभक्त्या जीवाजीवद्रव्यविभागावस्थापनरूपया तस्या एवात्र प्रदर्श्यमानत्वादितिभावः / इति नियुक्तिगाथाष्टकावयवार्थः इत्यवसितो नाम निष्पन्ननिक्षेपः / उत्त० पाई०३६ अ०। सांप्रतं विभक्तिपदनिक्षेपार्थमाहणामंठवणा दविए, खेत्ते काले तहेव भावे य। एसो उविभत्तीए, णिक्खेवो छविहो॥६६॥ 'नामंठवणे त्यादि, विभक्तेनमिस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः। तत्र नामविभक्तिर्यस्य कस्यचित् सचित्तादेव्यस्य विभक्तिरिति नाम क्रियते, तद्यथास्वादयोऽष्टौ विभक्तयस्तिवादयश्च / स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते पुस्तकपत्रकादिन्यस्ता वा द्रव्यविभक्तिर्जीवाजीवभेदाद् द्विधा, तत्रापि जीवविभक्तिः सांसारिकेतरभेदाद् द्विधा तत्राप्यसांसारिकजीवविभक्तिद्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा। कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा / सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा। तत्रेन्द्रियविभक्तिः-एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पञ्चधा, जाति-विभक्तिः- पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा, भवविभक्ति रकतिर्यङ्मनुष्यामरभेदाचतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा / तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च। अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा-- धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः / एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति। क्षेत्रविभक्तिश्चतुर्धा, तद्यथा-- स्थानं दिशं द्रव्यं स्वामित्वं चाश्रित्य / तत्र स्थानाश्रयणादूधिस्तिर्यग्विभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः / तत्राप्यघोलोकविभक्तिः- रत्नप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यस्रचतुरस्रादिनरकस्वरूपनिरूपणम्। तिर्यग्लोकविभक्तिस्तुजम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीप सागरस्वयंभूरमणपर्यन्तस्वरूपनिरूपणम् / ऊर्ध्वलोकविभक्तिःसौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यस्रचतुरस्रादिविमानस्वरूपनिरूपणमिति। दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितम्, क्षेत्रमेवमपरास्वपीति द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति। यदि वाक्षेत्रविभक्तिरार्याऽनार्यक्षेत्रभेदाद् द्विधा / तत्राप्यार्यक्षेत्रमर्धषड्विशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते। "रायगिहमगहचंपा, अंगा तह तामलि त्ति वंगाय। कंचणपुरं कलिङ्गा, वाणारसी चेव कासी य ||1|| साकेयकोसलागय-पुरं च कुरुसोरियं कुसट्टाय / कंपिल्लं पंचाला, अहिछत्ता जंगला चेव / / 2 / / वारवई य सुरहा, मिहिलविदेहा य वच्छकोसंवी। नंदिपुरं संदिब्मा, भदिलपुरमेव मलया य / / 3 / / वइराडमच्छवरणा, अच्छा तह मित्तियावइ दसण्णा। सुत्तीमई य चेदी, वीयभयं सिंधुसोवीरा ||4|| मुहरा य सूरसेणा, पावा भंगी य मासपुरिवट्टा। सावत्थी य कुणाला, कोडीवरिसं च लाढाय॥५॥ सेयविया वि य णयरी, केययअद्धं च आरियं भणियं / जत्थुप्पत्ति जिणाणं, चक्कीणं रामकिण्हाणं // 6|| अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा। तदुक्तम्सगजवणसवरवब्बर-कायमुरुडो दुगोणपकणया। अक्खागहूणरोमस-पारसखसखासिया चेव / / 1 / / दुविलयलवोसवोकस, मिलिंदपुलिंदकों चभमररूया। कांबोयचीणचंचुय, मालयदमिला कुलक्खा य / / 2 / / केकयकिरायहयमुह, खरमुह गयंतुरयमेठगमुहा य / हयकण्णा गयकण्णा, अण्णे य अणारिया बहवे // 3 // पावा च चंडदंडा अणारिया णिग्धिणा णिरणुकंपा। धम्मो त्ति अक्खराई, जेसु ण णद्धति सुविणे वि ||4|| कालविभक्तिस्तु अतीताऽनागतवर्तमानकालभेदात् त्रिधा। यदिवैकान्तसुषमादिकक्रमेणाऽवसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रम्अथवा- "समयावलियमुहुत्ता, दिवसमहोरत्तपक्खमासा य। संवच्छरयुगपलिया, सागरउस्सप्पिपरियट्टे' त्येवमादिका कालविभक्तिरिति / भावविभक्तिस्तु-जीवा-जीवभावभेदाद् द्विधा-तत्र जीवभावविभक्तिः औदयिकौपशमिक्क्षायिकक्षायोपशमिकपारिणामिक्सान्निपातिकभेदात् षट्प्रकारा। तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रिपञ्चभेदाः / तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः,