________________ विण्णत्ति 1187- अभिधानराजेन्द्रः - भाग 6 विण्णाणवाइ पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवा--- ददर्शनात् // 30 // " नयोग विण्णत्तिहेउभूय-त्रि०(विज्ञप्तिहेतुभूत) ज्ञातव्यसामर्थ्यायुक्ते, विज्ञप्ति-- कारणे, आ०चू०१ अग विण्णयपरिणयमेत्त-पुं०(विज्ञकपरिणतमात्र) विज्ञएव विज्ञकः स चासौ परिणतमात्रं च कलादिष्विलि गम्यते। विज्ञपरिणतमात्रे, ज्ञा०१ श्रु०१ अ० योग्यविज्ञान प्राप्ते, भ०११ श०११ उ०। विपा० विण्णवण-न०(विज्ञपन) विज्ञप्तौ, परिच्छेदे, आ०म०१ अ०) "पण्णवण त्ति वा विण्णवण त्ति वा एगट्ठा" आ० म०१ अ० विण्णावणा-स्त्री०(विज्ञापना) विज्ञप्तिकायाम्, सप्रणयप्रार्थने, भ०६ श० 33 उ०॥ सूत्र०। ज्ञा०नि०। प्रतिसेवनायाम्, प्रार्थनायाञ्च। बृ०१ उ०३ प्रक०। विज्ञाप्यन्ते याः कामार्थिभिस्तदर्थिन्यो वा कामिनमिति विज्ञापनाः / स्त्रीषु, सूत्र०१ श्रु० २१०३उ०। विण्णाण-न०(विज्ञान) विशिष्टं ज्ञानं विज्ञानम्। "ज्ञोञः" / / 8 / 2 / 42 / / इति क्वाचित्कत्वादत्र न अकारः। प्रा०ा "मज्ञोर्णः" इति ज्ञस्थाने णः। प्रा०। ज्ञानदर्शनोपयोगे, विशे०। औ०। क्षयोपशमविशेषत एवावधारितार्थविषये, तीव्रतरधारणाहेतौ बोधविशेषे, नं० चक्षुरादीन्द्रियोपलब्धिरूपे विशेषावबोधे, आतु। नं०। सूत्र०) हिताऽहितप्राप्तिपरिहाराध्यवसाये, आचा०१ श्रु०४अ०२उ०। अर्थादीनां हेयोपादेयत्वविनिश्चये, स्था०३ठा० ३उ०। मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदे, ज्ञा०१ श्रु०१अ० अनेकप्रकाररूपादिकरणे, तं०ा अनेकधर्मिणि वस्तुनि तत्तथाध्यवसाये, दश०४ अ०। 'णाणे विण्णाणफले' प्रव०२ द्वार / ज्ञानं विशिष्टज्ञानफलम्। श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञानमुत्पद्यते / भ०३ श०७ उ०। विज्ञायतेऽनेनेति। मनसि, विज्ञाने, अनु०। विण्णाणखंध-पु०(विज्ञानस्कन्ध) रूपविज्ञानादिरूपे बौद्धपरिभाषिते पञ्चसु स्कन्धेष्वन्यतमे, सूत्र०१ श्रु०१ अ०१उ०। विण्णाणघण-पुं०(विज्ञानघन) ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्मा विज्ञानघनः। कल्प०१ अधि०६क्षण! विज्ञानपिण्डे, सूत्र०१ श्रु०१अ०१ उ०ा पृथिव्यादिभूतानां विज्ञानलवसमुदाये, पृथिव्यादिविज्ञानांशानां पिण्डे, विशे०("विण्णा-णओ" 0(1563-1564) इत्यादिगाथाद्वयम्-'आता' शब्दे द्वितीयभागे 176 पृष्ठे व्याख्यातम्।) विण्णाणपत्त-त्रि०(विज्ञानप्राप्त) हिताहितप्राप्तिपरिहाराध्यवसायं प्राप्ते, आचा०१ श्रु०४ अ०२ उ०। अवाप्तसद्बोधे, उपा०१ अ०। विण्णाणवाइ-पुं०(विज्ञानवादिन) शेषनीलादिविकल्पशून्यस्य पारमार्थिकरागादिवासनाविशेषरहितस्य बोधलक्षणस्य प्रतिज्ञापके बौद्धभेदे, षो०१६ विव० स्या०। तन्मतनिरास:न संविदद्वैतपथेऽर्थसंविद् विलूनशीणं सुगतेन्द्रजालम्। अथ व्याख्यातुमुपक्रम्यते-तत्र च बाह्यार्थनिरपेक्ष ज्ञानाद्वैतमैव ये बौद्धविशेषा मन्वते तेषां प्रतिक्षेपः / तन्मतंचेदम्-ग्राह्यग्राहकादिकलङ्का- | ऽनङ्कितं निष्प्रपञ्चं ज्ञानमात्रं परमार्थसत्। बाह्यार्थस्तु पिवारमेवन क्षमते। तथाहि-कोऽयं बाह्योऽर्थः? किं परमाणुरूपः स्थूलावयविरूपो वा? न तावत्परमाणुरूपः प्रमाणाऽभावात् / प्रमाणं हि प्रत्यक्षमनुमानं वा? न तावत्प्रत्यक्षतत्साधनं बद्धकक्षम् / तद्धि योगिनां स्यात् अस्मदीदानां वा? नाद्यम; अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् / न द्वितीयम्, अनुभवबा-धित्वात्। न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् / नाप्यनु-मानेन तत्सिद्धिः, अणूनामतीन्द्रियत्वेन तैः सह अविनाभावस्य कापि लिङ्गे ग्रहीतुमशक्यत्वात्। किं च-अमी नित्या अनित्या वा स्युः? नित्याश्चेत्क्रमेणाऽर्थक्रियाकारिणो युगपद्वा? न क्रमेण; स्वभावभेदेनाऽनित्यत्वापत्तेः न युगपत्,एकक्षणे एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्त्वापत्तिः। अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा? क्षणिकाश्चेत्, सहेतुका निर्हेतुका वा? निर्हेतुकाश्चेन्नित्यं सत्त्वमसत्त्वं वा स्यान्निरपेक्षत्वात् / अपेक्षातो हि कादाचित्कत्वम् / सहेतुकाश्चेत्, किं तेषां स्थूलं किंचित्कारणं परमाणवो वा? न स्थूलं; परमाणुरूपस्यैव बाह्यार्थस्याऽङ्गीकृतत्वात्।नच परमाणवः। तेहि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणिकुर्युः? सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वा? नोत्पत्तिक्षणे, तद्वानीमुत्पत्तिमात्रव्यग्रत्वात् तेषाम् / अथ-"भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते' इति वचनाद्भ वनमेव तेषामपरोत्पत्ती कारणमिति चेत्, एवं तर्हि रूपाणवो रसाणूनाम्, ते च तेषामुपादानं स्युरुभयत्र भवनाऽविशेषात्। न च क्षणान्तरे, विनष्टत्वात्। अथासन्तस्ते तदुत्पादकास्तर्हि एकं स्वसत्ताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाऽविशेषात् / सदसत्पक्षस्तु "प्रत्येकं यो भवेदोषो, द्वयोर्भावे कथं न सः?" इति वचनाद्विरोधाघ्रात एव। तन्नाणवः क्षणिकाः नापि कालान्तरस्थायिनः क्षणिकपक्षसदृक्षयोगक्षेमत्वात्। किंच-अमी कियत्कालस्थायिनोऽपि किमर्थक्रिया पराङ्मुखाः, तत्कारिणो वा? आधे खपुष्पवदसत्त्वापत्तिः उदग्विकल्पे किमसद्रूपं सद्रूपमु-भयरूपं वा ते कार्यं कुर्युः? असद्रूपं चेत्-शशविषाणादेरपि किं न करणम्? सद्रूपं चेत्, सतोऽपि करणेऽनवस्था। तृतीयभेदस्तु प्राग्वद्विरोधदुर्गन्धः / तन्नाणुरूपोऽर्थः सर्वथा घटते। नापि स्थूलावयविरूपः। एकपरमाण्वसिद्धौ कथमनेकतत्सिद्धिः? तदभावे च तत्प्रचयरूपः स्थूलावयवी वाइमात्रम् / किं च-अयमनेकावयवाधार इष्यते / ते चावयवा यदि विरोधिनस्तर्हि नैकः स्थूलावयवी; विरुद्धधर्माध्यासात् / अविरोधिनश्चेत्प्रतीतिबाधः, एकस्मिन्नेव स्थूलावयविनि चलाचलरक्तारक्ताऽऽवृतानावृतादिविरुद्धावयवानामुपलब्धेः / अपि च असौ तेषु वर्तमानः कात्स्न्य नैकदेशेन वा वर्तते? कात्स्न्ये न वृत्तावेकस्मिन्नेवावयवे परिसमाप्तत्वादनेकावयववृत्तित्वंनस्यात्; प्रत्यवयवं कात्स्न्येन वृत्तौ चावयविबहुत्वापत्तेः / एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः, सांशत्वे वा तेंऽशास्ततो भिन्नाः, अमिन्ना वा? भिन्नत्वेपुनरप्यने कांशवृत्तेरेकस्य कात्स्न्यैकदेशविकल्पानतिक्रमादनवस्था। अभिन्नत्वे न केचि दंशाः स्युः / इति नास्ति बाह्योऽर्थः-कश्चित्। किन्तु-ज्ञानमेवेदं सर्वं नीलाद्याकारण प्रतिभाति।बाह्यार्थस्यजङवेनप्रतिभासायोगात्। यथोक्तं स्वाकारबु