________________ मणुस्स 67 - अभिधानराजेन्द्रः - भाग 6 मणुस्सखेत्त भेदेनाऽवसेया। ततो यथा मरकतादिमणेरशेषमलापगमसंभवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्याक्तिरुपजायते तद्वदात्मनोऽपिज्ञानदर्शनचारित्रप्रभावतो निःशेषाऽऽवरण-प्रहाणावशेषदेशज्ञानव्यवच्छेदेन एकरूपा अतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तंच-'यथा जात्यस्य रत्नस्य निःशेषमलहानितः / स्फुटकरूपाऽभिव्यक्ति विज्ञप्तिस्तद्वदात्मनः 1' इति। येअज्ञानिमस्ते द्वय ज्ञानिनः,त्र्यज्ञानिनो वा, तत्र ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनश्च, त्र्यज्ञानिनस्ते भत्यज्ञानिनः, श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, योगद्वारे-मनोयोगिनो, वाग्योगिनः, काययोगिनोऽयोगिमश्च, तत्राऽयोनिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत्, उपपात एतेष्वधः सप्तमनरकाऽऽदिवर्जेभ्यः / उक्तं च-"सत्तममहिनेरइया, तेऊ वाऊ अणंतरुव्वट्टा। न वि पावे माणुस्स, तहेवऽसंखाउया सव्ये // 1 // " इति। स्थितिद्वारे-जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्भातमधिकृत्यमरणचिन्तायां समवहता अपि मियन्ते, असमवहता अपि। च्यनवद्वारे-अनन्तमुवृत्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति "अत्यंगतिया सिज्झति० जाव अंतं करेति" इति। अस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका ये निष्ठितार्था भवन्ति। यावत्करणात- "वुज्झति, मुचंति, परिनिव्वायंति, सव्वदुक्खाणमंतं करेंति।" इति द्रष्टव्यम्। तत्र अणिमाऽऽद्यैश्वर्याऽऽप्त्या तथाविधमनुष्यकृत्यापेक्षया निष्ठि ताथा इति असर्वविदोऽपि कैश्चित् सिद्धा इष्यन्ते, ततो माभूदेतेषु संप्रत्यय इति तदपोहायाऽऽह-बुध्यन्ते निरावरणत्वा त केवलावबोधेन समस्त वस्तुजातम्, एत चासिद्धा अपि अवस्थकेवलिन एवम्भूता वर्तन्ते, तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रण कर्मणा. एतेऽपियापि निवृत्ता एव परैरिष्यन्ते-मुक्तिपदे प्राप्ता अपितीर्यनिकारदर्शनाऽऽदिहाऽऽगच्छन्ति, इति वचनात्, ततो भूमरोचरा मन्दमतीनां धीरित्याह-'परिनिर्वान्ति' विध्यातसमस्तकमहुतवहपरमाणवो भवन्ति इति। किमुक्त भवति? सर्वदुःखानां शरीरमानसभेदानामन्तंविनाश कुर्वन्ति, अत एव गत्यागतिद्वारे-चतुरागतिकाः पञ्चगतिकाः, सिद्धिगतागपि गमनात्, ‘परीत्ताः प्रत्येकशरीरिणः सङ्ख्येयाः संख्येयकोटिप्रमाणत्वात् प्रज्ञप्ताः 'हे श्रमण ! हे आयुष्मान् ! उपसंहारमाह'सेत्त मणुरा।' जी०१ प्रति०। आचा०। स्था०। सूत्र०। पं० स०। ति० (दण्डकप्रतिबद्धा अधिकारा अन्टक्रियाऽऽदयोऽन्तक्रियाऽऽदिशब्देषु) - हरिवर्षाऽऽदिषु त्रिषष्टिरात्रिन्दिवं यौवनम्हरिवासरम्मयवासे सु णं मणुस्सा तेवट्ठिए राईदिएहिं | संपत्तजोव्वणा भवंति / (स०६३ सम०) देवकुरुउत्तर कुरासु णं मणुया एगूणपन्नं राइंदिएहिं संपत्तजोव्वणा भवंति / स०४६ सम०। सम्प्रति मनुष्यस्य सचित्ताऽऽदिभेदात् त्रिविधस्याप्युपयोगमाहसच्चित्ते पव्वावण, पंथुवएसे य भिक्खदाणाऽऽइ। सीसऽट्ठिग अचित्ते, मीसऽह्रिसरक्खपहपुच्छा॥५१॥ सचित्ते इति-षष्ठीसप्तम्योरर्थ प्रत्यभेदात् सचित्तस्य मनुष्यस्य प्रयोजन पथि पृष्ठे उपदेशः कथनं, तथा भिक्षाऽऽदानम्, आदिशब्दाद्वसत्यादिदानं चोपपोगः, (अचित्ते) अचित्तस्य शिरसोऽस्थि, तद्धि लिङ्गे व्याधिविशेषापनोदाय वर्षित्वा दीयते, यदा-कदाचित्कत्रित्परिरुष्टो राजाऽऽदिः साधूनां विनाशाय कृतोद्यमो भवेत्। ततस्ते साधवः शिरोऽस्थिकमादाय कापालिकवेषेण नंष्ट्वा देशान्तरं व्रजितुमिच्छन्तीति तेन प्रयोजनं, तथा मिश्रस्य मनुष्यस्योपयोगः, (अट्टिसरक्खि त्ति) अस्थिभिराभरणकल्पैभूषितस्य सरजस्कस्य सरक्षाकस्य वा भस्मावगुण्ठितवपुष्कस्येत्यर्थः, कापालिकस्यपाचे यत्पथि विषये प्रच्छनम्। पिं०। (अग्रेतनविषयस्तु 'वाउकाइय' शब्दे वक्ष्यते) "ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम्॥१॥" सूत्र०१ श्रु०१५ अ०1 ''मानुष्यकात्परिभ्रष्टैर्लभ्यते न मनुष्यता।" आ०क०१ अ० / (मनुष्यत्वस्य दौर्लभ्यम्'चउरंग' शब्दे तृतीयभागे 1051 पृष्ठे उक्तम्) (मनुष्यशरीराणां जघन्योत्कृष्टपदे संख्या सरीर' शब्दे) छविहा मणुस्सगा पण्णत्ता। तं जहा-जंबूदीवगा, धायइसंडदीवपुरच्छिमद्धगा, धायइसंडदीवपञ्चच्छिमद्धगा, पुक्खरवरदीववपुरच्छिमद्धगा, पुक्खरवरदीवड्वपञ्चच्छिमद्धगा, अंतरदीवगा। अहवा-छव्विहा मणुस्सा पण्णत्ता।तं जहा-समुच्छिममणुस्सा ति०३-कम्मभूमगा 1, अकम्मभूमगा 2, अंतरदीवगा 3 / गब्भवकतिअमणुस्सा ति०३ कम्मभूमिगा 1, अकम्मभूमिगा 2, अंतरदीवगा 3 / (सूत्र-४६०) स्था०६ ठा०३ उ०। 'वारस मुहत्तगब्भे, इअरे चउवीस विरह उक्कोसो। एतद्विरहकालः संमूर्च्छजमनुष्याणां कियता कालेन भवतीति प्रश्नः, अत्रोत्तरम् - इह मनुष्या द्विविधाः-सम्मूछेजाः, गर्भजाश्च / तत्राऽऽद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विशतिमुहूत्तन्तिकालस्य प्रतिपादितत्वात्. उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपकत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौत्रयो वा, उत्कृष्टतरतु असङ्ख्याताः, इतरेतु सतयेया भवन्तीत्यनुयोगदारवृत्ती 1 त्रसत्वं-सत्वेनोत्पत्तिः, सततमनवरतं, जघन्यत एकं समयमुत्कर्षत आवलिकाऽसङ्खयेयभागं कालं, परतोऽवश्यमन्तरम् / अपि च-आस्तां सामान्येन त्रसत्वम्, किन्तु-द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियास्तिर्यक्पश्चेन्द्रियाः सम्पूर्छजमनुष्या अप्रतिष्ठाननरकावासनारकवर्जाः शेषाः प्रत्येकनारका अनुत्तरसुरवजाः शेषाः प्रत्येकं देवाच निरन्तरमुत्पद्यमाना जघन्यत एकसमयमुत्कृस्त आवलिकाया असङ्खयेयभागं कालम्,