________________ विणयपडिवत्ति ११५४-अभिधानराजेन्द्रः- भाग 6 विणयसमाहिट्ठाण विणयपडिवत्ति-स्त्री०(विनयप्रतिपत्ति) विनयस्य प्रारम्भे, अङ्गोकारे, दशा०। आयरितो अंतेवासी इमाएचउव्विहाए विणयपडिवत्तीए विणएता णिरिणित्तं गच्छंति / तं जहा-आयारविणएणं सुयविणएणं विक्खेवणाविणएणं दोसनिग्घायणाविणएणं। आचार्याः आडित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारमाचरति आचारयति वा इत्याचार्यः, पूर्वोक्तगुणयुक्तो वा अन्तेवासि' त्ति अन्ते-समीपे वस्तुंचारित्रक्रियायां वस्तुं शीलमेषामित्यन्तेवासिनः तान् ‘इमाए' त्ति अनयाऽनन्तरवक्ष्यमाणया चतुः संख्यया विनयस्य प्रतिपत्तिः प्रारम्भाङ्गीकार इति यावत् विनय-प्रतिपत्तिस्तया विनयप्रतिपत्त्या विनयित्वा शिक्षयित्वा अनृणीभवति / यदा आचार्येण गच्छोद्धारकरणसमर्थोऽन्यः कोऽपि शिष्यो विनयितो भवति तदा स अनृणीभवतीति / स(ऋर्णस्तु लोकेऽपि गर्हितो भवति; निन्दापात्रमित्यर्थः, सचचतुर्द्धा शिष्ययति, तद्यथा-आचारविनयेन 1, श्रुतविनयेन 2, विक्षेपणाविनयेन 3, दोषनिर्घातनतया 4 / दशा० 4 अ० व्य०। विणयपरिहीण-त्रि०(विनयपरिहीन) शिक्षावियुक्ते, ध०२ अधि०। विणयमंसि(ण)-पुं०(विनयभ्रंशिन) विनयादभ्रश्यतीति विनयभ्रंशी। विनयकरणभीरौ,विशे। विणयमूल-पुं०(विनयमूल) विनयो विनीतता मूलं कारणं यस्यासौ विनयमूलः। विनयप्रभवे,पा०। विणयवई-स्त्री०(विनयवती) विगतभयाया अन्तिके प्रव्रजितायां साध्व्याम्, सा च भक्तप्रत्याख्यानेन मृत्वा देवलोकं गता / आव०४ अ० आ० चू०। विणयवादि(ण)-पुं०(विनयवादिन) विनयादेव केवलात् क्रियासाध्या सिद्धिमिच्छति वैनयिके, आचा१ श्रु०१ अ०७ उ०। सूत्र० विणयविजय-पुं०(विनयविजय) कल्पसुबोधिकाकारे, श्रीकीर्तिविजयगणि-शिष्योपाध्यायश्री 5 विनयविजयगणिविरचितायां कल्पसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम्। कल्प०३ अधि०२ क्षण। "तस्य स्फुरदुरुकीर्तेर्वाचकवरकीर्तिविजयपूज्यस्य / विनयविजयो विनेयः, सुबोधिकां व्यरचयत् कल्पे॥१॥" कल्प०३ अधि०२ क्षण। विणयसंपण्ण-त्रि०(विनयसम्पन्न) अभ्युत्थानादिविनयसम्पन्ने, पं० चू० 1 कल्प। स्था०। औ०। विणयसमाहि-पुं०(विनयसमाधि) विनयस्य समाधेश्च प्रतिपादके दश वैकालिकस्य नवमेऽध्ययने, दश०८ अ०। ('विणय' शब्देसर्वावक्तव्यतोक्ता।) विणयसमाहिट्ठाण-न०(विनयसमाधिस्थान) विनयसमाधिभेदरूपेऽर्थे, दश०। सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह सुअं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता / कयरे खलु ते थेरेहिं भगवंतेहिं विणयसमाहिट्ठाणा पन्नत्ता? इमे खलु ते थेरेहि भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता। तं जहा-विणयसमाही सुअसमाहीतवसमाही आयारसमाही। "सुअं में" इत्यादि सूत्रम् / अस्य व्याख्या श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा-षड्जीवनिकायां तथैव द्रष्टव्यम्। इह खल्विति' इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः। न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि स्थविरैर्गणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तश्चत्वारि विनयसमाधिस्थानानि-विनयसमाधिभेदरूपाणि प्रज्ञप्तानि-प्ररूपितानि। भगवतः सकाशेश्रुत्वा ग्रन्थत उपरचितानीत्यर्थः / कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनम्। तद्यथेत्युदाहरणोपन्यासार्थः / विनय समाधिः, श्रुतसमाधिः, तपः समाधिः,आचारसमाधिः। तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं समाधिम् विनये विनयाद्वा समाधिः विनयसमाधिः / एवं शषेष्वपि शब्दार्थो भावनीयः। एतदेव श्लोकेन संगृह्णातिविणए सुए अतवे, आयारे निचपंडिआ। अभिरामयंति अप्पाणं,जे भवंति जिइंदिआ||१|| अस्य व्याख्या-विनये यथोक्तलक्षणे, श्रुते-अङ्गादौ, तपसि बाह्यादौ, आचारे च मूलगुणादौ चशब्दस्य व्यवहित उपन्यासः / नित्यंसर्वकालं पण्डिताः-सम्यक्परमार्थवेदिनः / किं कुर्वन्तीत्याह-अभिरामयन्ति अनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जत आत्मानंजीवम्। किमित्यस्योपादेयत्वात्। केएवं कुर्वन्तीत्याह येभवन्तिजितेन्द्रियाः, जितचक्षुरादिभावशत्रवः तएव परमार्थतः पण्डिता इतिप्रदर्शनार्थमेतदिति सूत्रार्थः / / 1 / / विनयसमाधिमभिधित्सुराहचउव्विहाखलु विणयसमाही भवइ। तं जहा-अणुसासिख़तो सुस्सूसइ१, सम्मं संपडिवाइ 2, वेयमारा हइ 3, नय भवइ अत्तसंपग्गहिए, चउत्थं पयं भवइ। भवइ अ इत्थ सिलोगो॥ 'चउव्विहे' त्यादि। चतुर्विधः खलु विनयसमाधिर्भवति / तद्यथेत्युदाहरणोपन्यासार्थः। 'अणुसासिज्जंतो' इत्यादि। अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषतितदनुशासनमर्थितया श्रोतुमिच्छति 1 / इच्छा-प्रवृत्तितः तत्सम्यक् संप्रतिपद्यते। सम्यगविपरीतमनुशासनतत्त्वं यथा-विषयमवबुद्ध्यते / स चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति / वेद्यतेऽनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति 3 / अत एव विशुद्धप्रवृत्तेन च भवत्यात्मसंप्रगृहीतः / आत्मैव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना। स तथा नात्मोत्कर्षप्रधानत्वाद्विनयादेर्नचैवंभूतो भवतीत्यभिप्रायः /