________________ विणय 1177- अभिधानराजेन्द्रः - भाग 6 विणय तदेवं प्रव्रज्यामभ्युद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाहजेठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते / समितीसु गुत्तीसुय आयपन्ने, वियागरिते य पुढो वएज्जा // 5 // सहाणि सोचा अदु भेरवाणि, अणासवे तेसु परिव्वएज्जा। निदं च भिक्खू न पमाय कुज्जा, कहं कहं वा वितिगिच्छातिने / / 6 / / डहरेण वुड्डेणऽणुसासिए उ, रातिण्णिएणावि समवएणं। सम्मं तयं थिरतो णाभिगच्छे, णिज्जंतए वावि अपारए से // 7 // विउहितेणं समयाणुसिढे, _डहरेण वुड्डेण उ चोइए य। अच्चुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिट्टे || यो हि निर्विण्णसंसारतया प्रव्रज्यामभ्युद्यतो नित्यं गुरुकुलवासतः स्थानतश्वस्थानमाश्रित्य तथा शयनतः-आसनतः, एकश्चकारः समुचये, द्वितीयोऽनुक्तसमुचायार्थः, चकारागमनमाश्रित्यागमनंच तथा तपश्चरणादौ पराक्रमतश्च (सु) साधो:-उद्युक्तविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः; सुसाधुर्हि यत्र स्थान कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपे-क्षणादिकां क्रियां करोति / कायोत्सर्ग च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भुवं कायं चोचितकाले गुरुभिरनुज्ञातः स्वपेत्, तत्रापि जाग्रदिव नात्यन्तं निःसह इति। एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण स्वा ध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति / तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम्। अपि च--- गुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचार-रूपासु, तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु, आगता उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञः- संजातकर्त्तव्याकर्तव्यविवेकः-स्वतो भवति, परस्यापिच व्याकुर्वन् कथयन् पृथक्पृथग्गुरोः प्रसादात् परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनम्तत्फलं च वदेत्-प्रतिपादयेदिति॥५॥ ईर्यासमित्याधुपेतेन यद्विधेयं तदर्शयितुमाह-शब्दान्-वेणुवीणादिकान् मधुरान्- श्रुतिपेशलान् श्रुत्वा-समाकर्ण्य, अथवा-भैरवान्-भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रयति तान् शोभनत्वेन अशोभनत्वेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकूलेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो मध्यस्थो-रागद्वेष-रहितो भूत्वा परिसमन्ताद्व्रजेत् परिव्रजेत्-संयमानुष्ठायी भवेत्, तथा--निद्रांच-निद्राप्रमादंच भिक्षुः-सत्साधुः प्रमादाङ्गत्वान्न कुर्यात्। एतदुक्तं भवति--शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकं न विदध्यात् / तदेवं गुरुकुलवासात् स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथं कथमपि विचिकित्सां-चित्तविप्लुतिरूपां (वि) तीर्णः--अतिक्रान्तो भवति, यदि वा-मद्गृहीतोऽयं पञ्चमहावतभाराऽतिदुर्वहः कथं कथमप्यन्तं गच्छेत् ; इत्येवंभूतां विचिकित्सांगुरुप्रसादाद्वितीर्णो भवति, अथवा-यां काञ्चिच्चित्तविप्लुतिं देशसर्वगतांतां कृत्स्नांगुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति॥६॥ किश्चान्यत् -स गुर्वन्तिके निवसन् क्वचित् प्रमादस्खलितः सन् वयःपर्यायाभ्यां क्षुल्लकेन-लघुना चोदितः-प्रमादा-चरणं प्रति निषिद्धः, तथा वृद्धेन वावयोऽधिकेन श्रुताधिकेन वा अनुशासितः-अभिहितः, तद्यथाभवद्विधानामिदमीदृक्प्रमादाचरणमासेवितुमयुक्तं, तथा रत्नाधिकेन वा-प्रव्रज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा वा अनुशासितःप्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत इत्येवं चोदितः-इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति नसभ्यगुत्थानेनोत्तिष्ठति नापि तदनुशासनं सम्यक् स्थिरतः-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदि-तश्च प्रतिचोदयेद, असम्यक्प्रतिपद्यमानश्चासौ संसारस्रोतसा नीयमानउह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति / यदि वा-आचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षप्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति // 7 // साम्प्रतं स्वपक्षचोदनानन्तरतः (र) स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः- परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलितेचोदितः स्वसमयेन, तद्यथा-नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा-व्युत्थितःसंयमाद् भ्रष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन-अर्हत्प्रणीतागमानुसारेणानु-शासितो मूलोत्तरगुणाचरणे स्खलितः सन् चोदितःआगमं प्रदाभिहितः,तद्यथा-नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना क्षुल्लकेन-लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवकार्यकरणं प्रति उत्थिता अत्युत्थिताः, यदि वादासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति तामेव विशिनष्टि-घटदास्याजलवाहिन्याऽपि चोदितो नक्रोधं कुर्यात, एतदुक्तं भवति-अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत् किं पुनरन्येनेति। तथा अगारिणां-गृहस्थानां यः समयः-अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्यः इत्येवं मन्यमानो मनागपि न मनो 'दूषयेदिति // 8 //