________________ विणय 1176 - अभिधानराजेन्द्रः - भाग 6 विणय नूनमल्पश्रुतस्यापि, गुरोराचारशालिनः। हीलना भस्मसात्कुर्याद, गुणं वहिरिवन्धनम् // 10 // 'नूनमिति' नूनं-निश्चितमल्पश्रुतस्याप्यनधीतागमस्यापि कारणान्तरस्थापितस्य गुरोराचार्यस्याचारशालिनः पञ्चविधाचारनिरतस्य हीलना गुणस्वगतचारित्रादिकंभस्मसात् कुर्यात्, इन्धनमिव वह्निः॥१०॥ शक्त्यग्रज्वलनव्याल-सिंहक्रोधातिशायिनी। अनन्तदुःखजननी, कीर्तिता गुरुहीलना // 11 // शक्त्यग्रेति-शक्तिः-प्रहरणविशेषस्तदग्रं शक्त्यग्रं, ज्वलनोऽग्निः व्यालर्सिहयोः-सर्पकसरिणोः क्रोधः-कोपः, तदतिशायिनीतेभ्योऽप्यधिका अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके // 11 // पठेद्यस्यान्तिके धर्म-पदान्यस्यापि सन्ततम्। कायवाड्मनसां शुद्ध्या, कुर्याद्विनयमुत्तमम्॥१२॥ पठेदिति-यस्यान्तिके धर्मपदानि-धर्मफलानि सिद्धान्तपदानिपठेत् / अस्य सन्ततमपि-निरन्तरमपि, नतुसूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गात्। कायवाड्मनसांशुद्ध्या उत्तम विनयं कुर्यात्॥१२॥ पर्यायेण विहीनोऽपि, शुद्धज्ञानगुणाधिकः। ज्ञानप्रदानसामा-दतो रत्नाधिकः स्मृतः||१३|| पर्यायेणेति-अतो धर्मपाठकस्य सदा विनयाहत्वात्पर्यायेण-चारित्रयर्यायेण विहीनोऽपि शुद्धज्ञानगुणेनाधिको ज्ञानप्रदान सामार्थ्यमधिकृत्य रत्नाधिकः स्मृत आवश्यकादौ / स्वापेक्षितरत्नाधिक्येन तत्त्वव्यवस्थितेः। विवेचितमिदं सामाचारीप्रकरणे // 14 // शिल्पार्थमपि सेवन्ते, शिल्पाचार्य जनाः किल। धर्माचार्यस्य धर्मार्थ, किं पुनस्तदतिक्रमः॥१४॥ शिल्पार्थमिति व्यक्तः // 14 // ज्ञानार्थ विनयं प्राहु-रपि प्रकटसेविनः। अत एवापवादेना-न्यथा शास्वार्थबाधनम्॥१५॥ ज्ञानार्थमिति--अत एव ज्ञानादिग्रहणे विनयपूर्वकत्वनियमस्य सिद्धान्तसिद्धत्वादेवापवादेन ज्ञानार्थ प्रकटसेविनोऽपि विनय-माहुः,पर्यायादिकारणेष्वेतदन्तर्भावात्। अन्यथा तथाविधकारणेऽपि तद्विनयानादरे शास्त्रार्थवाधनं-शास्त्राज्ञाव्यतिक्रमः। तदुक्तम्-"एयाइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे / ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा // 1 // " नन्वेवमपवादतोऽपि प्रकटप्रतिषेविणोऽगृहीतग्रहिलनृपन्यायेन द्रव्यवन्दनमेव यदुक्तं तद्भङ्गापत्तिानगुणबुद्ध्या तद्वन्दने भाववन्दनावतारादित्याशङ्कय तदुक्तिप्रायिकत्वाभिप्रायेण समाधत्तेन चैवमस्य भावत्वाद, द्रव्यतोक्तिर्विरुध्यते। सद्भावकारणत्वोक्तेर्भावस्याप्यागमाख्यया ||16|| न चैवमिति-न चैवं ज्ञानार्थ प्रकटप्रतिषेविणोऽपि विनयकरणेऽस्य ज्ञानार्थविनयस्य भावत्वाद्व्यत्वोक्तिरापवादिकविनयस्योपदेश- 1 पदादिप्रसिद्धा विरुध्यते, भावस्यापि आगमाख्यया-आगमनाम्ना सद्भावकारणत्वोक्तः पुष्टालम्बनत्ववचनादस्वारसिककारणस्थल एवोक्तनियमादिति। भावलेशस्तु मार्गानुसारी यत्र क्वचिदपि मार्गोगासनार्थं वन्दनादिविनयार्हतानिमित्तमेव श्रूयते। यदुक्तं बृहत्कल्पभाष्ये"दंसणनाणचरितं, तवविणयं जत्थ जत्तियं पासे / जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं" ||16|| विनयेन विना न स्या-जिनप्रवचनोन्नतिः। पयःसेकं विना किं वा, वर्धते भुवि पादपः // 17 // विनयं ग्राह्यमाणो यो, मृदूपायेन कुप्यति।। उत्तमां श्रियमायान्ती,दण्डेनापनयत्यसौ ||18|| त्रैलोक्येऽपि विनीतानां, दृश्यते सुखमङ्गिनाम्। त्रैलोक्येऽप्यविनीतानां, दृश्यतेऽसुखमङ्गिनाम् // 16 // ज्ञानादिविनयेनैव, पूज्यत्वाप्तिः श्रुतोदिता। गुरुत्वं हि गुणापेक्षं, न स्वेच्छामनुधावति / / 20 / / विनये च श्रुते चैव, तपस्याचार एव च। चतुर्विधः समाधिस्तु, दर्शितो मुनिपुङ्गवैः॥२१॥ शुश्रूषति विनीतः सन्, सम्यगेवावबुध्यते। यथावत् कुरुते चार्थ, मदेन च न माद्यति // 22 // श्रुतमेकाग्रता वा मे, भविताऽऽत्मानमेव वा। स्थापयिष्यामि धर्मेऽन्यं, वेत्यध्येति सदागमम् // 23 // कुर्यात्तपस्तथाऽऽचार, नैहिकामुष्मिकाशया। कीाद्यर्थ च नो किं तु, निष्कामो निर्जराकृते // 24 // इत्थं समाहिते स्वान्ते, विनयस्य फलं भवेत् / स्पर्शाख्यं स हि तत्त्वाप्तिबोधमात्रं परः पुनः॥२५॥ अक्षेपफलदः स्पर्श-स्तन्मयी भावतो मतः। यथा सिद्धरसस्पर्श-स्ताने सर्वानुवेधतः॥२६॥ इत्थं च विनयो मुख्यः, सर्वानुगमशक्तितः। मिष्ठान्नेष्विव सर्वेषु, निपतन्त्रिक्षुजो रसः॥२७।। दोषाः किल तमांसीव, क्षीयन्ते विनयेन च / प्रसृतेनांशुजालेन, चण्डमार्तण्डमण्डलात्॥२८॥ श्रुतस्याप्यतिदोषाय, ग्रहणं विनयं विना। यथा महानिधानस्य, विमानधनसनिधिम् // 26 // विनयस्य प्रधानत्व-द्योतनायैव पर्षदि। तीर्थ तीर्थपतिर्नत्वा, कृतार्थोऽपि कथां जगौ ||30|| छिद्यते विनयो यैस्तु, शुश्रूषोऽपि परैरपि। तैरप्यग्रेसरीभूय, मोक्षमार्गो विलुप्यते // 31 // नियुङ्क्ते यो यथास्थान मेनं तस्य तु सन्निधौ / स्वयंवराः समायान्ति, परस्य रतिसंपदः // 32 // अर्थः स्पष्टः / / 32 / / द्वा०२६ द्वा०।