________________ विणय 1175 - अमिधानराजेन्द्रः - भाग 6 विणय ति पूर्ववत् डहरं वा महल्लकं वा वाशब्दान्मध्यम वा स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा वाशब्दादन्यतीर्थिकं वा न हीलयति, नापिच खिंसयति, तत्र सूयया असूययावा / सकृद् दुष्टाभिधानं हीलनम, तदेवासकृत्खिसनमिति।हीलनखिंसनयोश्च निमित्तभूतं स्तम्भ च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः / / 12 / / किं च-ये मानिता अभ्युत्थानादिसत्कारैः सततम्-अनवरतं शिष्यान्मानयन्ति-श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नन कन्यामिव निवेशयन्ति-यथा मातापितरः, कन्या गुणैर्वयसा च संबद्ध्यं योग्यभर्तरि स्थाययन्तिएवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति। तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना मानार्हान-मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति सूत्रार्थः / / 13 / / तेषां गुरूणम्-अनन्तरोदितानां गुणसागराणां-गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी सुभाषितानि-परलोकोपकारकाणि चरतिआचरति मुनिः-साधुः-पञ्चरतः-पञ्चमहाव्रत-सक्तः-त्रिगुप्तोमनोगुप्त्यादिमान् चतुःकषायापगत इति अपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः // 14 // प्रस्तुतफलाभिधानेनोपसंहरन्नाह गुरुम्आचार्यादिरूपम् इह-मनुष्यलोके सततम्-अनवरतं परिचर्यविधिनाऽऽराध्य मुनिः-साधुः, किंवि-शिष्टो मुनिरित्याह-जिनमतनिपुणःआगमे प्रवीणः अभिगम-कुशलो-लोकप्राघूर्णकादिप्रतिपतिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वा अष्टप्रकारं कर्मेति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वात् अतुलाम्-अनन्यसदृशीं गतिं-- सिद्धिरूपां व्रजति गच्छति तदा जन्मान्तरेण वा सुकुलप्रकृष्टजात्यादिना प्रकारेण ब्रवीमीति पूर्ववदिति सूत्रार्थः / / 15 / / दश० अ०३ उ०। कर्मणां द्राग्विनयना-द्विनयो विदुषांमतः। अपवर्गफलाट्यस्य, मूलं धर्मतरोरयम् // 1 / / (दा०)। (अस्मिन्नेव शब्दे 1152 पृष्ठे प्राग्व्याख्यातः।) ज्ञानदर्शनचारित्र-तपोभिरुपचारतः। अयं च पञ्चधा मिन्नो, दर्शितो मुनिपुङ्गवैः / / 2 / / 'ज्ञानेति' ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्मावन्धाच द्रष्टव्यम् // 2 // प्रतिरूपेण योगेन, तथा नाशातनात्मना। उपचारो द्विधा तत्रा-दिमो योगत्रयात्रिधा ||3| प्रतिरूपेणेति-प्रतिरूपेणोचितेन योगेना तथाऽनाशातनात्मना आशातनाऽभावेन उपचारो द्विधा / तत्रादिमः प्रतिरूपयोगात्मको योगत्रयात्रिधा कायिको वाचिको मानसश्चेति // 3 // अभिग्रहासनत्यागा-वभ्युत्थानाञ्जलिग्रही। कृतिकर्म च शुश्रूषा, गतिः पश्चाच्च संमुखम् // 4 // अभिग्रहेति-अभिग्रहो-गुरुनियोगकरणाभिसन्धिः, आसनत्यागःआसनदानं पीठकाद्युपनयनमित्यर्थः। अभ्युत्थानं निषण्णस्य सहसाह.. दर्शनेन / अञ्जलिग्रहः-प्रश्रादौ कृतिकर्म च वन्दनम् शुश्रूषा-विधिवददूरासन्नतया सेवनम्। पश्चादतिर्गच्छतः, संमुखं च गतिरागच्छत इति॥४॥ कायिकोऽहविधवायं, वाचिका चतुर्विधः। हितं मितं चापरुष, हुवतोऽनुविचिन्त्य च // 5 // कायिक इति-अयं चाष्टविधः कायिक उपचारः।वाचिकस्तुचतुर्विधःहितं परिणामसुन्दर ब्रुवतः प्रथमः, मितं स्तोकाक्षरं ब्रुवतो द्वितीयः, अपरुषं चानिष्ठुरं ब्रुवतस्तृतीयः, अनुविचिन्त्य-स्वालोच्यच ब्रुवतश्चतुर्थ इति // 5 // मानसब-द्विधा शुद्ध प्रवृत्याऽसन्निरोधतः। छद्मस्थानामयं प्रायः, सकलोऽन्यानुवृत्तितः॥६|| मानसश्चेति-मानसश्चोपचारो द्विधा शुद्धप्रवृत्त्या धर्मध्यांनादिप्रवृत्त्या, असनिरोधत आर्तध्यानादिप्रतिषेधात् अयं च सकलः प्रायः प्रतिरूपो विनयश्छद्मस्थानामन्यानुवृत्तितः आत्मव्यतिरिक्तप्रधानानुवृत्तेः प्रायोग्रपणादज्ञातकेवलभावदशायां केवलिनामपि / अन्यदा तु तेषामप्रतिरूप एव विनयस्तथैव तत्कर्मविनयनोपपत्ते / तदुक्तम्-- "पडिरूवो खलु विणओ, पराणुअत्तिमइओ मुणेअव्वो / अप्पडिरूवो विणओ, णायव्वो केवलीणं तु // 1 // // 6|| अहत्सिद्धकुलाचार्यो-पाध्यायस्थविरेषु च। गणसंघक्रियाधर्म-ज्ञानज्ञानिगणिष्वपि।।७।। अर्हदिति-अर्हन्तस्तीर्थकराः सिद्धाः-क्षीणाष्टकर्ममलाः, कुलम्नागेन्द्रादि, आचार्यः-पञ्चविधाचारानुष्ठाता तत्प्ररूपकश्वा उपाध्यायःस्वाध्यायपाठकः स्थविरः-सीदतां स्थिरीकरणहेतुः, गणः-कौटिकादिः संघः-साध्वादिसमुदायः, क्रिया-अस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानम्-मत्यादि, ज्ञानिनस्त-द्वन्तः, गणिः-गणाधिपतिः // 7 // अनाशातनया भक्त्या , बहुमानेन वर्णनात्। द्विपञ्चाशद्विधः प्रोक्तो, द्वितीयचौपचारिकः|||| अनाशातनयेति-अनाशातनया-सर्वथाऽहीलनया, भक्त्या उचितोपचाररूपया, बहुमानेनान्तरभावप्रतिबन्धरूपेण, वर्णनात्-सद्भूतगुणोत्कीर्तनात्, द्वितीयश्चानाशातनात्मक औपचारिकविनयो द्विपञ्चाशद्विधः 52 प्रोक्तः। त्रयोदशपदानां चतुर्भिर्गुणने, यथोक्तसंख्यालाभात्॥८॥ एकस्याशातनाऽप्यत्र, सर्वेषामेव तत्त्वतः। अन्योऽन्यमनुविद्वा हि, तेषु ज्ञानादयो गुणाः // 6 // एकस्येति–अत्राहदादिपदेषु एकस्यापि आशात्तना तत्त्वतः सर्वेषां हि यतस्तेषु ज्ञानादयो गुणा अन्योन्यभनुवि०द्धाः, यदेव ह्येकस्य शुद्धं ज्ञानं तदेवापरस्यापि। इत्थं च हीलनाविषयीभूतज्ञानादिसंबन्धस्य सर्वत्राविशेषादेकहीलने सर्वहीलनापत्तेर्दारुणविपाकत्वमवधार्थ न कस्यापि हीलना कार्येति भावः // 6