________________ विणय 1174 - अभिधानराजेन्द्रः - भाग 6 विणय एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः / / 3 / / किं च- अज्ञातोञ्छं-परिचयाऽकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति-अटित्वाऽऽनीतं भुङ्क्ते, नतुज्ञातस्तद्-बहुमतमिति, एतदपि विशुद्धम्-उद्गमादिदोषरहितम्, नन्सद्विपरीतम्, एतदपि यापनार्थम्-संयमभरोद्वाहिशरीरपालनाय नान्यथा समुदानंच-उचितभिक्षालब्धं च नित्यं--सर्वकालं न तूञ्छमप्येक-चैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः अलब्ध्वा अनासाद्य, न परिदेवयेत नखेदं यायात्, यथा-मन्दभाग्योऽहम-शोभनो वाऽयं देश इति, एव विभागतश्च लब्ध्वा-प्राप्योचितं न विकत्थते-नश्लाघां करोति-स पुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः // 4 / / किं च-संस्तारकशय्यासनभक्तपानानि प्रतीतान्येवएतेषु अल्पेच्छता-अमूर्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानम् अभितोषयति येन वा तेन वा यापयति संतोषप्राधान्यरतः-संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः / / 5 / / इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोढुम् आशये-त्ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका अयोमया-लोहात्मकाःउत्सहतानरेण-अर्थोद्यमवतेत्यर्थः,तथाच कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सया, न तु वाक्कण्टकाः शक्या इत्येवं व्यवस्थिते अनाशया-फलप्रत्याशया निरीहः सन्यस्तुसहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान-कर्णगामिनः स पूज्य इति सूत्रार्थः / / 6 / / एतदेव स्पष्टयति-मुहूर्तदुःखा-अल्पकालदुःखा भवन्ति कण्टका अयोमयाः वेधकाल एव प्रायो दुःखभावात्, तेऽपिततः कायात् सूद्धराः-सुखैनैवोज्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः दुरुद्धराणि-दुःखेनोज्रियन्ते मनोलक्षवेधनाद् वैरानुबन्धीनि तथा श्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः / / 7 / / समावयंता वयणाभिघाया, कन्नं गया दुम्मणि जणंति। धम्मु त्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुजो // 6 // अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअंच भासं। ओहाराणिं अप्पिअकारिणिंच, भासं न भासिज्ज सया स पुलो / / 6 / अलोलुए अकुहए अमाई, अपि (पी)सुणे आवि अदीणवित्ती। नो भावए नोऽवि अभाविअप्पा, अकोउहल्ले असया स पुजो॥१०॥ गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुणमंचऽसाहू। विआणिआ अप्पगमप्पएणं, जो रागदोसेहि समो स पुज्जो // 11 / / तहेव डहरं च महलगं वा, इतिथ पुमं पव्वइ गिहिं वा। नो हीलए नोऽवि अखिंसइज्जा, . थंभं च कोहं च चए स पुज्जो // 12 // जे माणिआ समयं माणयन्ति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी , . जिइंदिए सच्चरएस पुञ्जो॥१३॥ तेसिं गुरूणं गुणसायराणं, सुच्चा णं मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो, चउकसायावगए सपुशो ||1|| गुरूमिह मययं पडिअरिअमुणी, जिणमयनिउणे अभिगमकुसले। धुणिअरयमलं पुरकडं, भासुरमउलं गई वयइ।।१५।। तिबेमि।। किंच-समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाता:-खरादिवचमप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् दौर्मनस्यं दुष्टमनोभावं जनयन्तिप्राणिनामेवंभूतान् वचनाभिघातान् धर्म इति कृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमाग्रशूरोदानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते नतु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः // 8 // तथा अवर्णवादंच अश्लाघावादं च पराङ्मुखस्य-पृष्ठत इत्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकाम्अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणीम्--अशोभन एवा–यमित्यादिरूपाम् अप्रियकारिणीं च-श्रोतुमृतनिवेदनादिरूपां भाषां वाचंन भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः / / 6 / / तथा अलोलुपः-आहारादिष्वलुब्धः अकुहकः-इन्द्रजालादिकुहकरहितः अमायी कौटिल्यशून्यः अपिशुनश्चापि-नो छेदभेदकर्ता अदीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिःनो भावयेद् अकुशलभावनया परं, यथाऽमुक-पुरतो भवताऽहं वर्णनीयः नापि च भावितात्मास्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्व सदा नटनर्तकादिषु यः स पूज्य इति सूत्रार्थः / / 10 / / किंच-गुणैः-अनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैः-उक्त-गुणविपरी-तैरसाधुः, एवं सति गृहाण साधुगुणान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति विविधं ज्ञापयत्यात्मानमात्मना यः, तथा रागद्वेषयोः समः न रागवान्न द्वेषवानिति स पूज्य इति सूत्रार्थः / / 1 / / किंच-तथैवे.