________________ विणय 1168 - अभिधानराजेन्द्रः - भाग 6 विणय तेरुपलक्ष्यमाणत्वात्, पठ्यते च- 'मणोरुइ' ति तत्र मनसो रुचिः-- अभिलाषो यस्मिस्तन्मनोरुचिस्वप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया? कर्मसंपदायत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या, पठन्ति च-'मणोरुई चिट्ठइ कम्मसंपयं तत्र चमनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं शुभप्रकृतिरूपाम् अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मणिच्छियं संपयमुत्तमंगय' त्ति, इह च संपदं यथाख्यातचारित्रसंपदम्, अन्यत् सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचारीति-समाचरणम्, यद्वा--तपश्च सामाचारी च न्यक्षतो वक्ष्यमाणस्वरूपा समाधिश्च-चेतसःस्वास्थ्यं तैः संवृतः निरुद्धाश्रवः तपस्सामाचारीसमाधिसंवृतः,यद्वा-तपस्सामाचारीसमाधिभिः संवृतं संवरणं यस्य स तथाविधः, महती द्युतिः-तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याहपञ्चव्रतानि-प्राणातिपातविरमणादीनि, पालयित्वानिरतिचारं संस्पृश्येति सूत्रार्थः।।४७|| पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाहस देवगंधवमणुस्सपूहए, चइत्तु देहं मलपंकपुय्वयं / सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए॥४८|| त्ति बेमि। स-तादृग विनीतविनयः,देवैः-वैमानिकज्योतिष्कैः गन्धर्वैश्व गन्धर्वनिकायोपलक्षितैय॑न्तरभुवनपतिभिः मनुष्यैश्चमहाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वा अपहाय देह-शरीरम्-'मलपंकपुव्वयं' तिजीवशुद्ध्यपहारितया मलवन्मलः स चासौ 'पावे वजे वेरे पंके पणए य' तिवचनात् पङ्कश्च कर्ममलपङ्कः स पूर्वकार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकम्, यद्वा-'माओउयं पिऊसुक्कं' ति वचनात् रक्तशुक्रे एव मलपङ्कौ तत्पूर्वकं, सिद्धो वानिष्ठितार्थो वा भवति--जायते शास्वतः-सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतःपुनरिहागमवानशाश्वतः, सावशेषकर्मवास्तुदेवो वा भवति, अप्परए ति अल्पमिति अविद्यमानं रतमिति-क्रीडितं मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुबध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरण-शक्तिःतृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः, देवविशेषणं वा,इतिः-परिसमाप्तावेवमर्थे वा एतावद्विनयश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु स्वोत्पेक्षया इति सूत्रार्थः // 48 // उक्तोऽनुगमः। उत्त० पाई० 110 / साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि चर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगु णोपेतं सूत्रमुच्चारणीयं, तच्चदम्थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे। सो चेव ऊ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ / / 1 / / 'भा व त्ति, अस्य व्याख्या-स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा अक्षान्तिलक्षणात् मायाप्रमादादिति मायातो-निकृतिरूपायाः प्रमादाद् निद्रादेः सकाशात्, किमित्याह-गुरोः सकाशे-आचार्यादेः समीपे विनयम-आसेवनाशिक्षाभेदभिन्नं न शिक्षते-नोपादत्ते, तत्र स्तम्भात्कथमहं ज्ञात्यादिमान् जात्या-दिहीनसकाशे शिक्षामीति, एवं क्रोधात्वचिद्वितथकरणचोदितोरोषाद्वा, मायातःशूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः। तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे विनयेन तिष्ठति-विनयेन वर्तते; विनयं नासेवत इत्यर्थः / इह च ‘स एव तु स्तम्भादिः' विनयशिक्षाविघ्नहेतुः तस्य जडमतेः अभूतिभाव इति-अभूतेर्भावोऽभूतिभाव; असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति--गुणलक्षणभावप्राणविनाशाय भवति / दृष्टान्तमाह-फलमिव कीचकस्यकीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिस्तस्य विनाशात् तद्वदिति सूत्रार्थः // 1 // जे आवि मंदि त्ति गुरुं विइत्ता, डहरे इमे अप्पसुअ त्ति नच्चा। हीलंति पिच्छं पडिवजमाणा, करति आसायण ते गुरूणं // 2 पगईइ मंदावि भवंति एगे, डहरावि(अ)जे सुअबुद्धोववेआ। आयारमंतो गुणसुटिअप्पा, जे हीलिआ सिहिरिव भासकुन्जा // 3 // जे आवि नागं डहरंति नचा, आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो, निअच्छई जाइ पहं खु मंदो // 4 // आसीविसो वावि परं सुरुट्ठो, कि जीवनासाउ परं नु कुजा?। आयरिअप्पाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो॥५॥ जो पावगंजलिअमवक्कमिला, आसीविसं वा विहु कोवइजा। जो वा विसं खायइजीविअट्ठी, एसेवमाऽऽसायणया गुरूणं // 6| सिआ हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे।