________________ विणय ११६७-अभिधानराजेन्द्रः - भाग 6 विणय मनसि-चेतसि गतम् स्थितं मनोगतंतथा वाक्ये वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्यापरिसमाप्तार्थाभिधायित्वेन क्वचिदप्रयोजकत्वात्, ज्ञात्वा-अवबुध्य आचार्यस्यविनयार्हस्य गुरो,तुशब्दः कायगतकृत्यपरिग्रहार्थः, तत्-मनोगतादि परिगृह्य-अङ्गीकृत्य वाचा वचसः इदमित्थं करोमि इत्यात्मकेन कर्मणाक्रियया तन्निर्वर्तनात्मिकया तदुपपादयेत्-विदधीत, पठन्ति च 'मणोरुई वक्करुई, जाणित्ताऽऽयरियस्स उ' अत्र च-मनसि रुचिः-अभिलाषस्तामाचार्यस्य ज्ञात्वा-इदम-मीषां भगवतामभिमतमित्यवगम्य,वाक्ये रुचिः-पर्यवसितकार्यवाञ्छा तां च, शेष प्राग्वत्, अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः / / 43 // सचैवं विनीतविनयतया यादृक् स्यात्तदाहवित्ते अचोइए निचं, खिप्पं हवइ सुचोयए। जहोवइलु सुकडं, किचाई कुव्वई सया॥४४॥ वित्ते इति--विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इति यावत्, 'अचोइए' त्ति यथाहि बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहते, कुतस्तन्निपतनम्? एवमयमप्यचोदित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तत इति, कुतःप्रेरितत्वमस्य? नित्यम्-सदा न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्रेरितोऽनुशय-वानपि स्यादिति कदा शङ्कापनोदायाहक्षिप्रम्-इति शीघ्रं भवति 'सुचोयए' त्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच क्षिप्रमेव प्रेरके सति कृत्येषु वर्तते, नानुशयतो विलम्बितमेव, पठ्यते च--'वित्ते अचोइए खिप्पं, पसन्ने थामधं करे' इति, अत्र च–प्रसन्नः-प्रसत्तिमान्, नाहमाज्ञापित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च तत्कुरुते, 'थामवं' ति स्थामबलं तद्वान्। किमुक्तं भवति? सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनेन कारणेन न शक्नोमीति / क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमर्धविहितंवा विदध्यात्तद्व्यवच्छेदायाह-यथो-पदिष्टम्उपदिष्टानतिक्रमेण सुकृतम्-सुष्ठ परिपूर्णं कृतं यथा भवत्येवं कृत्यानि करोति-निवर्तयति, सदा सता वा शोभनेन प्रकारेणेति सूत्रार्थः / / 44|| सम्प्रत्युपसंहर्तुमाहणचा णमइ मेहावी, लोए कित्ती य जायइ। किचाणं सरणं होइ, भूयाणं जगई जहा।।५।। ज्ञात्वा अनन्तरमखिलमध्ययनार्थमवगम्य नमति तत्कृत्यकरणं प्रति प्रह्लीभवति मेधावी-एतदध्ययनार्थावधारणशक्तिमान् मर्यादावर्ती वा, तद्गुणं वक्तुमाह- लोकेकीर्तिः सुलब्धमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्दाः-'एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेर्यशश्चेति समुच्चिनोति, उभयमपि प्रक्रमानन्तुरेव जायते-प्रादुर्भवति, स एव भवति, कृत्यानाम्-उचितानुठानानां कलुषान्तःकरणवृत्तिभिरविनीतविनयैरतिदूरमुत्सादितानां शरणम् आश्रय इत्यर्थः / केषां केद?भूतानाम्-प्राणिनां जगतीपृथ्वी यथेति सूत्रार्थः / / 45 // ननु विनयः पूज्यप्रसादनफलः ततोऽपि च किमवाप्यत इत्याहपुजा जस्स पसीयंति, संबुद्धापुटवसंथुया। पसन्नालंभइस्संति, विउलं अहिअंसुयं // 46|| पूजयितुमर्हाः-पूज्या-आचार्यादयःयस्य इति-विवक्षितशिष्योपदर्शकं सर्वनाम प्रसीदन्ति-तुष्यन्ति सम्बुद्धाः-सम्यगवगतवस्तुतत्त्वाः, (उत्त०) (पूर्वसंस्तुतपदव्याख्या 'पुष्वसंथुय' शब्दे पञ्चमभागे 1064 पृष्ठे गता।) शेषविनयोपलक्षणमेतत् प्रसन्ना इति-सप्रसादाः, पठ्यतेचसंपन्नाः ज्ञानादिगुणपरिपूर्णाः सम्यग्-अविपरीताः प्रज्ञा येषां ते सत्प्रज्ञा वा, लम्भयिष्यन्ति-प्रापयिष्यन्ति, किमित्याह-विपुलम्-विस्तीर्णम् अर्यत इति अर्थोमोक्षः सप्रयोजनमस्येत्यार्थिक, तदस्य"प्रयोजनम्" (पा०५-१-१०६) इति ठक्, अथवा-अर्थःसएव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः,"अत इनिठनौ''पा० (5-2-115) इतिठन, श्रुतम्अङ्गोपाङ्गप्रकीर्णकादिभेदमागम, न तु हरिहरहिरण्यगर्भादिवत् साक्षात् स्वर्गादिकम्, अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्तम्, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः / / 46|| सम्प्रति श्रुतावाप्तौ तस्यैहिकफलमाहस पुजसत्थे सुविनीयसंसए, मणोरुई चिट्ठा कम्मसंपया। तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया // 47 // स इति-शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाधादिना पूजाहं शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हिशास्वं सर्वत्र विशेषेण पूज्यते, यदि वा-प्राकृतत्वात् पूज्यः शास्ता गुरु–रस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजा प्रापयति, अथवा-पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः सुष्ठ-अतिशयेन विनीतःअपनीतःप्रसादितगुरुणैव शास्त्रपरमार्थसमपणन संशयो-दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत् परिषदस्येति सुविनीतसंसत्कः, विनीतस्य हि स्वयमतिशयविनीतैव परिषद्भवति, 'मणोरुइ' त्ति मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः-प्रतिभासोऽस्मिन्निति मनोरुचिः, तिष्ठतिआसते, विनयाधिगतशास्त्रो हि न कथञ्चिद्गुरूणामप्रीतिहेतुरिति। तथा 'कम्मसंपय' त्ति कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत् सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया चहेतुत्वम्।अथवा-मनोरुचितेव मनोरुचिता, तिष्ठति-आस्ते कर्मणांज्ञानावरणादीनां सम्पद्-उदयोदीरणादिरूपा विभूति:-कर्मसम्पद्, " अस्येति गम्यतेतदुच्छेदशक्तियुक्ततया अस्य प्रतिभासमानतयेवतत्स्थि