________________ विणय 1166 - अभिधानराजेन्द्रः - भाग 6 विणय विनयसर्वस्वमुपदेष्टुमाहण कोवए आयरियं, अप्पाणं पिण कोवए। बुद्धोवघाईन सिया, न सिया तोत्तगवेसए||४|| न कोपयेत्-न कोपोपेतं कुर्यात्, आचार्यम्, उपलक्षणत्वादपरमपि विनयाहम, 'आत्मानमपि गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथञ्चित् सकोपतायामपि बुद्धोपघाती आचार्योपघातकृत न स्यात्-न भवेत्, तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति तोत्रंद्रव्यतः प्राजनको भावतस्तु तद्दोषोद्भावकतया व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीषां जात्यादिदूषकं वच्मि? इत्यन्वेषयतति तोत्रगवेषकः, प्रक्रमाद्-गुरूणां, न स्यादिति चादरख्यापनार्थत्वान्न पुनरुक्तम्, यदुक्तं बुद्धोपघातीन स्यात्तत्रोदाहरणम्-कश्चिदाचार्यादिगणिगुणसम्पत्समन्वितो युगप्रधानः प्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजघाबलः क्वचिदेकस्थान एवावतस्थे। तत्रत्यश्रावकजनेन चैतेषु भगवत्सु सत्सुतीर्थं सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्निग्धमधुराहारादिभिः प्रतिदिवस-- मुपचर्यते स्म, तच्छिष्याश्च गुरुकर्मतया कदाचिदचिन्तयन्, यथाकियचिरमयमजङ्गमोऽस्माभिरनुपालनीयः, ततस्तमनशनमादापयितुमिच्छवोऽतिभक्तश्रावकजनानुदिनदीयमानमुचितमशनादि तस्मै न समर्पयामासुः, अन्तप्रान्तादि च समुपनीय सविषादमिव तत्पुरत उक्तवन्तः-किमिह कुर्मः? यदीदृशामपि भवतामुचितम-शनादि नामी विवेकविकलतया सदपि सम्पादयितुमीशते, श्राद्धानभिदधतिच, यथाअत्यन्तनिःस्पृहतया शरीरयापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु-संलेखनामेव विधातुमध्यवस्यन्तीति। ततस्ते तद्वचनमाकर्ण्य मन्युभरनिभृतचेतसस्तमुपसृत्य सगद्गदंजगदुः-भगवन् ! भुवनभवभावस्वभावावभासिष्वर्हत्सु चिरतरातीतेष्वपि प्रतपत्सु भवत्सु भुवनमवभासवदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिरारब्धः? न च वयममीषां निर्वेदहेतव इति मन्तव्यम्, यतः-शिरः स्थिता अपि भवन्तो न भारमस्माकममीषां वा शिष्याणां कदाचिदादधति, ततस्तैरिङ्गितज्ञैरवगतं यथाऽस्मच्छिष्यमति-विजृम्भितमेतत्, किममीषामप्रीतिहेतुना प्राणधारणेन? न खलु धर्मार्थिनां कस्यचिदप्रीतिरुत्पादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्त्तम्कियच्चिरमजङ्गमैरस्माभिरुपरोधनीयास्तपस्विनो भवन्तश्च, तद्वरमुत्तमाचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसौ संस्थाप्य भक्तमेव प्रत्याचचक्षे इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः / / 40|| एवं तावदाचार्य न कोपयेदित्युक्तं, कथञ्चित् कु पिते वा यत्कृत्यं तदाहआयरियं कुवियं नच्चा, पत्तिएणं पसायए। विज्झविज्जा पंजलिउडे, वएज्जा न पुणो त्तिय॥५१॥ आचार्यम्-उक्तस्वरूपम्, उपलक्षणत्वादुपाध्यायादिकंमपिकुपितम्- | इति सकोपमनुशासनोदासीनताभिः, 'पुरिसजाए वितहा, विणीयविण- | यम्मि णऽत्थि अभिओगो / सेसम्मि उ अभिओगो, जणवयजाए जहा आसे / / 1 / / ' इत्यागमात्, कृतबहिष्कोपं वा दृष्टयप्रदानादिना ज्ञात्वाअवगम्य पत्तिएणं ति आर्षत्वात्प्रतीतिः प्रयोजनमस्येतिप्रातीतिकशपथादि, अपिशब्दस्य चेहलुप्तनिर्दिष्टत्वात् तेनापि प्रसादयेत्। इदमुक्तं भवति-गुरुकोपहेतु कमबोध्याशातनामुक्त्यभावादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत्, सर्वमपि वा प्रतीत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा- 'पत्तिएणं' ति प्रीत्या साम्नैव, न भेददण्डाद्युपदर्शनेन, एतदेवाह- विध्यापयेत्- कथञ्चिदुदीरितकोपानलानप्युपशमयेत्, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽञ्जलिः उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, प्रकृष्टं वा-भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः। इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह- वदेत्-ब्रूयात् न पुनरिति, चशब्दो भिन्नक्रमः, वदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः-कथञ्चित् कृतकोपानपि गुरून् विध्यापयन् वदेत् यथा--भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम्, न पुनरित्थमा-चरिष्यामीति सूत्रार्थः॥४१॥ साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात्, तथाऽऽहधम्मज्जियं च ववहार, बुद्धे हाऽऽयरियं सया। तमायरंतो ववहारं, गरहं नाभिगच्छह // 42 // धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपार्जितं धर्मार्जितं, नहि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, चः-पूरणेविविधं विधि-वद्वाऽवहरणमनेकार्थत्वाद्वाचरणं व्यवहारस्तं यतिकर्तव्यतारूपं, बुद्धैः-अवगततत्त्वैः आचरितं, सदा-सर्वकालम्, 'त' मिति सदावस्थिततया प्रतीतमेव आचरन्-व्यवहरन्, यद्वा यत्तदोनित्याभिसम्बन्धात् सुब्ब्यत्ययाच्च धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन् कुर्वन, विशेषेणापहरति पापकर्मेति व्यवहारस्तंव्यवहारविशेषणमेतत्, एवं च किमित्याह-गर्हाम्अविनीतोऽयमित्येवंविधां निन्दा नाभिगच्छति-न प्राप्नोति, यतिरिति गम्यते / यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धो-न धर्माति-क्रान्तः, 'जियं ववहारं' ति प्राकृतत्वाचास्य भिन्नक्रमत्वाञ्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह-अत एव बुद्धःआचार्यैराचरितः सदा-सर्वकालं त्रिकालविषयत्वात् जीतव्यवहारस्यय एवंविधो व्यवहारस्तं व्यवहार-प्रमादात् स्खलितादौ प्रायश्चित्तदानरूप- . माचरन् गाँदण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्या इति शेषः, न चायं निजक उपकारी वा मम विनेय इति न दण्डनीय इतिज्ञापनार्थं चधर्म्यजीतविशेषणम्। पठन्ति च-'तमायरंतो मेहावि' त्ति सुगममेवेति सूत्रार्थः।।४।। किंबहुना?मणोगयं वक्तगयं,जाणित्ताऽऽयरियस्सउ। तं परिगिज्झ वायाए, कम्मुणा उववायए।।१३।।