________________ विणय 1164 - अभिधानराजेन्द्रः - भाग 6 विणय पसम्पन्नस्य वा व्यागृणीयात्-विविधमभिव्याप्त्याऽभिदध्यात् व्याकु द्विा-प्रकटयेत् यथा येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इतिगम्यते / नतु स्वबुद्ध्यैवोत्प्रेक्षितमित्यभिप्रायः / अनने च-"आयारे सुयविणए, विक्खिवणे चेव होइ बोद्धव्वे। दोसस्सयनिग्याए, विणए चउहेस पडिवत्ती ||1||" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य, "सुत्तं अत्थं च तहा, हियकरणिस्सेसयं च वाएइ। एसो चउविहो खलु, सुयविणओ होइ णायव्यो।।१।। सुत्तं गाहेति उज्जुत्तो, अत्थं च सुणावए पयत्तेणं। जं जस्स होइ जोगं, परिणामगमाइ तं तु सुयं / / 2 / / निस्सेसमपरिसेसं, जाव समत्तं च ताव वाएइ। एसो सुयविणओ खलु, निद्दिडो पुव्वसूरीहिं" ||3|| इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानम्, यच्च विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय 'अब्भुट्ठाणं अंजलि' तथा 'दसणणाणचरित्ते' इत्यादिना ग्रन्थेनैव नतस्यशुद्धस्वरूपाभिधानं, किंतु-'णिसंते सिया अमूहरी' इत्यादि लिडन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमितिसूत्रार्थः // 23 // उत्त० पाई० १अ०। (पुनः शिष्यस्य वाग्विनयः 'भासा' शब्दे पञ्चमभागे 1545 पृष्ठे गतः।) इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाहसमरेसु अगारेसुं. गिडसंधिसु अ महापहेसु / एगो एगितिथए सद्धिं, नेव चिट्टे न संलवे // 26 // समरेषु-खरकुटीषु, तथा च चूर्णिकृत्-समरं नामजत्थ हेट्ठा लोहयारा कम्मं करेंति' उपलक्षणत्वादस्यान्येष्वपि नीचास्पदेषु अगारेषुगृहेषु गृहसन्धिषु च गृहद्वयान्तरालेषु च महापथेषु-राजमार्गादौ, किमित्याह-- एक:-असहायः एका असहाया सा चासौ स्त्री च एकस्त्री तया सार्द्धसह नैव तिष्ठत्-असंलपन्नेव चोद्धस्थानस्थो न भवेत्, न संलपेत्-न तयैव सह संभाष कुर्यात्, अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम्, अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, अथवा-- सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः, भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवस्वतत्त्वघातिनः, तासामेव दृष्ट्या दृष्टिसम्बन्धाः , तत्रेह भावसमरैरधिकारः, सप्तमी चेयम्, ततोऽयं भावार्थः-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेकाकितायाम, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्रा, अनेनापि चारित्रविनय एवोक्तः / उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः // 26 // कदाचित्स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाहजं मे बुद्धाऽणुसासंति, सीएण फरसेण वा। मम लाभु त्ति पेहाए, पयओ य (तं) पडिस्सुणे // 27 // यन्मा बुद्धा अनुशासन्ति-शिक्षा ग्राहयन्ति शीतेन–सोपचारवचसा, 'शीलेन वे ति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपि शीलं तेन, यद्वा-शील-समाधौ, ततः शीलेन-समाधानकारिणाभद्र ! भवादृशामिदमनुचितमित्यादिना, परुषेण कर्कशेन, उभयत्र वचसेति गम्यते, तत् प्रतिशृणुयात्-विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम लाभः-अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शासन्तीति 'पेहाए' त्ति एकारस्यालाक्षणिकत्वात् प्रेक्ष्यआलोच्य प्रेक्षया वा एवंविधबुद्ध्या पयतो ति प्रयतः-प्रयत्नवान् पदतो वा-तथा--विधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः // 27 // किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिद न्यथा सम्भवति? येनैवमुपदिश्यते इत्याहअणुसासणमोवायं, दुकडस्स य परेणं। हियं तं मन्नए पन्नो, वेस्सं भवइ ऽसाहुणो // 25 अनुशासनम्--उक्तरूपम्, ओवायं' ति उपाये-मृदुपरुष-भाषणादी भवमौपायम्, यद्वा-'ओवायं' ति सूत्रत्वात् उपपतनमुपपातः-समीपभवनं तत्र भवमौपपातं गुरुसंस्तारास्तरणविश्रामणादिकृत्यं दुष्कृतस्य च-कुत्सिताचरितस्य प्रेरणं-हा! किमिद-मित्थमाचरितमित्याद्यात्मकं गुरुविहितमिति गम्यते, हितम्-इह परलोकोपकारि, तदित्यनुशासनादि मन्यते प्राज्ञः-प्रज्ञावान् द्वेष्यम्-द्वेषोत्पादकं भवति-जायते, कस्य? असाधोः-अपगत-भावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः // 28 // अमुमेवार्थं व्यक्तीकर्तुमाहहियं विगयभया बुद्धा, फरुसमप्पणुसासणं। वेस्सं तं होइ मूढाणं, खंति सुद्धिकरं पयं // 29 // हितम्-पथ्यं विगतभयाः-सप्तभयरहिताः बुद्धाः-अवगत-तत्त्वाः, मन्यन्त इति शेषः, परुषमपि-कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, द्वेष्यम्-द्वेषोत्पादि तद् इति अनुशासनं भवति मूढानाम्-अज्ञानानां क्षान्तिः-क्षमाशुद्धिः-आशयविशुद्धता तत्करणम्, यद्वा-क्षान्तेःशुद्धिः-निर्मलता क्षान्तिशुद्धिस्तत्करणम्, अमूढानां विशेषतः क्षान्तिहेतुत्वाद्गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते गुणैर्ज्ञानादिभिरिति पदंज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीति अपिशब्दो भिन्नक्रमः ततश्च हितमप्यायत्यां विगतभयाद्बुद्धाद्-आचार्यादः उत्पन्नमितिशेषः, परुषं यच्छुत्यसुखदमनुशासनम्, तत्किमित्याह-द्वेष्यं तद्भवति मूढानां, शेषं प्राग्वदिति सूत्रार्थः॥२६ पुनर्विनयमेवाहआसणे उवचिद्विजा, अनुचेऽकुक्कुए थिरे। अप्युत्थाई निरुत्थाई, निसीज्जा अप्पकुक्कुई // 30 // आसनम - पीठादि वर्षास ऋतुबद्धे तु पादपुञ्छनं तत्र पीठादौ उपतिष्ठे त् - उपविशेत्. अनुचे - द्रव्यतो नीचे भावतस्त्वल्पमूल्यादौ, गुर्वासनात् इति गम्यते; अकुक्कुचे