________________ विणय 1163- अभिधानराजेन्द्रः- भाग 6 विणय कया? वाचा, किं त्वमपि किञ्चिज्जानीषे? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा कर्मणा--संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना आविःजनसमक्ष प्रकाशदेश इति यावत्, यदिवा-रहस्ये विविक्तोपाश्रयादी 'न' इति निषेधे एव–अवधारणे,सच 'शत्रोरपि गुणा ग्राह्याः, दोषा वाच्या गुरोरपी' ति कुमतनिराकरणार्थः कुर्यात् इति विदध्यात् कदाचित्परुषभाषणादावपीति सूत्रार्थः / / 17 / / पुनः शुश्रूषणात्मकं तमेवाहण पक्खओ ण पुरओ, व किच्चा ण पिट्ठओ। न जुंजे ऊरुणा ऊरं, सयणे ण पडिस्सुणे / / 18|| न पक्षतः-दक्षिणादिपक्षमाश्रित्य उपविशेदिति सर्वत्रोपस्कारः तथोपवेशने तत्पतिसमविशतः तत्साम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात्, न पुरतः-अग्रतः, तत्र वन्दकजनस्य गुरुवदनानवलोकनादिनाऽप्रीतिभावात्, नैव इति पूर्ववत् कृतिः-वन्दनकं तदर्हन्ति कृत्याः दण्डादित्वाद्द्यप्रत्ययः ते चार्थादाचार्यादयस्तेषां पृष्ठतः-पृष्ठदेशमाश्रित्य, द्वयोरपि मुखादर्शन तथाविधरसवत्ताऽभावादिदोषसम्भवात् न युज्यात्-नसंघट्टयेद् अत्यासन्नोपवेशादिभिः, ऊरुणा-आत्मीयेन, ऊरुंकृत्य संबन्धिनं, तथा करणेऽत्यन्ताविनयसम्भवात्, उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य,शयनेशय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति? कदाचिच्छव्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु-गुरुवचनसमनन्तरमेव सम्भ्रान्तचेता विनयविरचितकराञ्जलिःसमीपमागत्य पादपतनपुरस्सरमनु-गृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः // 18|| पुनस्तमेवाहनेव पल्हत्थियं कुजा, पक्खपिंडं व संजए। पाए पसारिए वाऽवि, न चिडे गुरुणंतिए॥१९॥ नैव पर्यस्तिकां-जानुजसोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात्, पक्षापण्डं वा बाहुद्वयकायपिण्डात्मकं संयतः-साधुः,तथा पादौ प्रसारयेत् वाऽपि नैव, वा-समुच्चयार्थः, अपिः-किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः / अन्यच्चन तिष्ठेत् नाऽऽसीत, क्?-गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसम्भवात्, अथवा-'पाए पसारिए वावि' त्ति पाठात् पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात् प्रसार्य वा न तिष्ठेद् गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थः // 16 // पुनः प्रतिश्रवणविधिमेव सविशेषमाह-- आयरिएहिं वाहिंतो, तुसिणीओ ण कयाइ वि। पसायट्ठी नियागट्टी, उवचिडे गुरांसया / / 20 / / आचार्यः उपलक्षणत्वादुपाध्यायादिभिः 'वाहिंतो' ति व्याहृतःशब्दितः 'तुसिणीओ' त्ति तूष्णीकः तूष्णीशीलः न कदाचिदपि ग्लानाधवस्थायामपि, भवेदिति गम्यते, किन्तु-'धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी। गुरुवदनमलयनिसृतो, वचनरसश्चन्दनस्पर्शः / / 1 / / इति / प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-आलोचितुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः प्रसादार्थी, वा गुरुपरितोषाभिलाषी 'णियागट्ठी तिपूर्ववत्, उपतिष्ठत मस्तकेनाभिवन्दइत्यादि वदन्सविनयमुपसर्पत, गुरुंसदासर्वकालमितिसूत्रार्थः // 20 // / तथाआलवंते लवंते वा, ण णिसीना कयाइ वि। चइत्ता आसणं धीरो,जओ जत्तं पडिस्सुणे॥२१॥ आङिति ईषल्लपति वदति लपति वा वारमनेकधा वाऽभिदधति न निषीदेत्-न निषण्णो भवेत्, कदाचिदपिव्याख्यानादिना व्याकुलतायामपि,किन्तु? त्यक्त्वा-अपहाय आसनंपादपुञ्छनादि, धिया राजते धीरः, अक्षोभ्यो वा परीषहादिभिः, 'यत' इति यतो यत्नवान् ‘जत्त' ति प्राकृतत्वाद्विन्दुलोपे तस्य च द्वित्वे यद्गुरव आदिशन्ति तत् प्रतिशृणुयात्- अवश्यविधेयतया अभ्युपगच्छेदिति यावत्। यदा-यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, यात्रां-संयमयात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिश्टणुयादिति सूत्रार्थः // 21 // पुनः प्रतिरूपविनयमेवाऽऽहआसणगओ ण पुच्छिलाणेव सिजागओ कया। आगम्मुकुडुओ संतो, पुच्छिता पंजलीगडे ||22|| 'आसनगतः' इति आसनासीनो न पृच्छेत्, सूत्रादिकमिति गम्यते, नैव शय्यागत, इति संस्तारकस्थितः, तथाविधावस्थां विनेत्युपस्कारः, 'कदाचिदपि' बहुश्रुतत्वेऽपि, किमुक्तं भवति? बहुश्रुतेनापि संशये सति 'न'-न प्रष्टव्यम्, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात्, तथा चाऽऽगमः-'जहाहि अग्गी जलणं न मंसे, णाणाहुई मंतपयाहि सित्तं / एवायरि (री) यं उवचिट्ठइज्जा, अणंतणाणोवगओऽवि संतो॥१॥" किं तर्हि कुर्या--दित्याह- आगम्यगुर्वन्तिकमेत्य उत्कुटुक इति-मुक्तासनः, कारणतो वापादपुञ्छनादिगतः सन् शान्तोवा पृच्छेत्पर्यनुयुजीत, सूत्रादिकमितीहापिगम्यते, प्रकर्षण अन्तःप्रीत्यात्मकेन कुतोविहितोऽञ्जलिः उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, 'पंजलिउड' त्ति पाठे च प्रकष्टं भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुट इति सूत्रार्थः // 22 // ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहएवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं / पुच्छमाणस्स सिस्सस्स. वागरिज जहासुयं / / 23 / / एवम्-इत्युक्तप्रकारेण विनययुक्तस्य-विनयान्वितस्य सूत्रंकालिकोत्कालिकादि अर्थ च तस्यैवाभिधे यं तदुभयम्-- सूत्रार्थोभयं पृच्छतः-ज्ञीप्सतः शिष्यस्यस्वयं दीक्षितस्यो