________________ विणय ११६०-अभिधानराजेन्द्रः - भाग 6 विणय यद्वा-वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनिवा 'तुः पुनरर्थे, वर्जयेत्परिहरेत् / इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद्दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्यात् अर्थतो दर्शनविनयो दर्शितः। उक्तं हि प्राक्-"दव्याण सव्वभावा, उवइट्ठा जे जहा जिणिदेहि। तंतह सद्दहइणरो, दंसणविणओ हवति तम्हा // 1 // " शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शनविनय उक्तः, तत्स्वरूपमाह-"णाणं सिक्खइणाणंगुणेइणाणेण"त्तिसूत्रार्थः||८|| कथं पुनरर्थयुक्तानि शिक्षेतेत्याहअणुसासिओ न कुप्पिञ्जा, खंति सेवेज पंडिए। बालेहिं सह संसग्गिं, हासं कीडं च वलए 'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः न कुप्येत्-न कोपं गच्छेत्, किं तर्हि कुर्यादित्याह- 'क्षान्तिं-परुषभाषणादिसहनात्मिकां सेवेत-भजेत, पण्डा-बुद्धिः सा संजाताऽस्येति पण्डितः, तथा क्षुद्रैः-बालैः शीलहीनैर्वा पार्श्वस्थादिभिः सह समं 'संसग्गि' ति प्राकृतत्वात्संसर्ग , हसनंहासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च वर्जयेत्-परिहरेत् सर्वेषामप्येषां विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः / / 6 / / पुनरन्यथा विनयमाहमा य चंडालियं कासी, बहुयं मा य आलवे / कालेण य अहिग्जित्ता, तत्तो भाइस इकाओ / / 10 / / 'मा' निषेधे, चः-समुच्चये, चण्डः क्रोधस्तद्वशादलीकम् अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत्, यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा अलितश्चण्डालः, स चातिक्रूरत्वाचण्डाल--जातिस्तस्मिन् भवं चाण्डालिकं कर्मेति गम्यते, अथवा-अचण्ड! सौम्य ! अलीकम्अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमंचेति गम्यते मा कार्षीःमा विधाः भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बढेव बहुकम् अपरिमितमालजालरूपं 'मा च' इति प्राग्वत्, आडितिस्त्र्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बडालापनात्ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात्, किं पुनः कुर्यादित्याह-कालः-अध्यय नाधवसरः प्रथमपौरुष्यादिस्तेन, चः-पुनरर्थे , अधीत्य-पठित्वा, प्रच्छनाधुपलक्षणमेतत्, 'ततः' अध्ययनात्, अनन्तरमिति गम्यते, ध्यायेत्चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तुविविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुत्थानमधीतार्थस्थिरी-करणं च कृतं भवतीति भावः / इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताच चारित्रान्तर्गता एव, यदुक्तम्- "पणिहाणजोग-जुत्तो, पंचहिसमितीहि तिहिँ गुत्तीहि। एसधरित्तायारो, अट्ठविहो होइणायव्यो ॥१॥"नचचारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशस्तिस्याप्यनेनाभिधानमिति सूत्रार्थः // 10 // इत्यमकृत्यनिषेधः कृत्यविधिश्वोपदिष्टः कदाचिदेतद्विप र्ययसम्भवे च किं करणीयमित्याहआहब चंडालियं कट्टु,न निण्हविज कण्हुइ। कडं कडं ति भासिञ्जा, अकडं नो कडं ति य // 11 // आहत्य-कदाचित् चण्डालिकं च चाण्डालिकं चोक्तरूपम्, यद्वाचण्डश्चालीकं च चण्डालीकं कृत्वा-विधाय न निह्नवीत-न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदाऽपीत्यर्थः, किं तर्हि कुर्यादित्याह-कृतम्-विहितं चाण्डालीकादि कृतमिति-इति कृतमेव, न भयलज्जादिभिरकृतमपि भाषेत-ब्रूयात, अकृतम्-तदेवाविहितंनोकृतमिति-अकृत-मेव भाषेत, नतुमायोपरोधादिना कृतमपि, अन्यथा मृषावादादि-दोषसम्भवात्, उपलत्तणत्वाचास्य बहुनालपनकालाध्ययनादि-विपर्ययसम्भवेऽप्येतदेव कृत्यम्। इदं चात्राकूतं कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य-- 'जह बालो जंपंतो कजमकजं च उज्जुयं भणति / तं तह आलोएज्जा, मायाभयविप्पमुक्को उ॥१॥' इत्याद्यागममनुस्मरन् कथ-- ञ्चित् परैः प्रतीतमप्रतीतं वा मनः शल्यं यथावदालोचयेत्, ततश्चानेनान्तरतपोऽन्तरगताऽऽलोचनाख्यप्रायश्चित्तभेदाभिधानम्, अनेन च शेषतपोभेदानामप्युपलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः / / 1 / / इहैवं पुनः पुनरुपदेशश्रवणायदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशता, तदपनोदायाहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो। कसं वदतुमाइन्नो, पावगं परिवजए॥१२॥ मा-निषेधे, गलिः-अविनीतः,सचासावश्वश्च गल्यश्वः स इव, कशतीति कशस्तम्, उपलक्षणत्वात्कशप्रहारं वचनम् प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, इच्छेत्-अभिलषेत्, पुनः पुनः वारंवारम्, कोऽभिप्रायः? -यथा गल्यश्वो दुर्विनीततया न पुनः पुनः कशप्रहारं विना प्रवर्तते निवर्ततेवा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसंवदठुमाइण्णे' त्ति इवशब्दस्य भिन्नक्रमत्वात् कसंचर्मयष्टिं दृष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्वः स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्ट्वा, पापमेव पापकं, गम्यमानत्वादनुष्ठानं परिवर्जयेत् सर्वप्रकारंपरिहरेत, उपलक्षणत्वादितर-च्चानुतिष्ठत, पठन्ति च-- 'पावगं पडिवज्जइ' ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं प्रतिपद्येत-अङ्गीकुर्यात्, इहापि प्राग्वदितरत् परिहरेत्, किमुक्तं भवति?, यथाऽऽकीर्णोऽश्वः कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं प्रवर्तते निवर्तते वा, तथा सुशिष्येणाप्याकारादिभिराचार्याशयमवगस्यवचनेनाप्रेरित एव प्रवर्तते, मा भूद्-यथाऽऽरोहकस्येव गुरोरायास इति सूत्रार्थः / / 12 / /