________________ विणय 1161 - अभिधानराजेन्द्रः - भाग 6 विणय अत्र च नियुक्तिकृत् गल्याकीर्णी व्याधिख्यासुः 'तत्त्वभेदपर्यायैयाख्या' इति तत्पर्यायानाहगंडी गली मराली, अस्से गोणे य हुंति एगट्ठा। आइन्ने य विणीए,य भइए वावि एगट्ठा॥६४|| गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो विहायोगमनेनेति गण्डिः , गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, मियत इव शकटादौ योजितो राति च ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः-अमी च अश्वेतुरगेगोणेच बलिवः भवन्ति एकार्थाः-एकोऽर्थो--- दुष्टतालक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनि-मित्तभेदेऽप्यमीषामिति कृत्वा। आकीर्यते-व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः चः-पूरणे, विशेषेण नीतः-प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृत्तिमिति भद्रः; स एव भद्रकः,चशब्दः इहाप्यश्वे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, एकार्था इति प्राग्वदिति गाथार्थः॥६४॥ न चैव गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एव गुणदोषौ, किन्तु-गलिसदृशस्यानाश्रवत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि। अत एवाह-- अणासवाथूलवया कुसीला, मिउं पिचंडं पकरंति सीसा। चित्ताणुया लहु दक्खीववेया, पसायएते हु दुरासयं पि।१३।। 'अणासव' त्ति आ-समन्तात् शृण्वन्ति-गुरुवचनमाकर्णयन्तीत्याश्रवाः न तथा प्रतिभाषाविषयस्य तस्याश्रवणादनश्रवाः, पठ्यतेच'अणासुण' त्ति अस्यार्थः स एव स्थूलम्-अनिपुणं यतस्ततो भाषितया वचो येषां ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, मृदृमपिअकोपनमपि कोमलालापिनमपि वा चण्डं-कोपनं परुष-भाषिणं वा प्रकुर्वन्ति-प्रकर्षेण विदधति शिष्याः-विनेयाः, सम्भवति ह्येवंविधशिष्यानुशासनाय पुनः पुनर्वचयनात्मकं खेदमनुभवतो मृदोरपि गुरोः कोप इति। इत्थं गलितुल्यस्य दोषमभिधायेतरस्य गुणमाह-चित्तं-हृदयं प्रक्रमात् प्रेरकस्यानुगच्छन्ति कसपाताननपेक्ष्य जात्याश्ववदनुवर्त्तयन्तीति चित्तानुगाः लघु-शीघ्र-मेव दक्षस्य भावो दाक्ष्यम्-अविलम्बितकारित्वं तेन 'उववेय' त्ति उपपेता युक्ता दाक्ष्योपपेताः प्रसादयेयुः सप्रसादे कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुःखेनाऽऽश्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि, प्रक्रमाद् गुरुं, किं पुनरनुत्कटकषायमित्यपिशब्दार्थः / अत्रोदाहरणं चण्डरुद्राचार्यशिष्याः, तत्र च सम्प्रदायः- "अवन्तीजणवए उज्जेणीणयरीए ण्हवणुजाणे साहुणो समोसरिया, तेसिं सगासं एगो जुवा उदत्तवेसो वयंससहिओ उवागतो, सो ते वंदिऊण भणति-भयवं ! अम्हे संसाराउ उत्तारेह पध्वयामि त्ति, एस एमेव पवंचेति त्ति काऊण 'घृष्यतां कलिना कलिरि' ति चंडरुद्ध आयरियं उवदिसन्ति, एस ते नित्थारेहि ति। सोऽविय सभावेण फरुसो, तओ सो वंदिऊण भणइ-भगवं ! पव्वावेह (हि) ममं ति, तेण भणितोछारं आणेह त्ति, आणीए लोयं काऊण पव्वाविओ वयंसगा से अधिई काऊण पडिगया / तेऽवि उवस्सयं नियगं गया, विलंबिए सूरे पंथं पडिलेहेइ, परंपच्चूसे वचामि त्ति विसज्जिओ। पडिलेहिउमागओ। पच्चूसे निग्गथा पुरतो वचति त्ति भणितो / वचंतो पंथातो फिडितो चंडरुद्दो खाणुए पक्खलितो। रुसिएण हा दुछ सेह त्ति दंडएण मत्थए आहतो, सिरं फोडितं / तहावि सम्मं सहइ विमले पहाए चंडरुद्वेण रुहिरोग्गलंतमुद्धाणो दिट्ठो। हा! दुटु कयं ति संवेगमावण्णेण खामिओ।" एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्तिरिति मत्वा मनोवाक्कायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति / अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः // 13 // कथं पुनर्गुरुचित्तमनुगमनीयमित्याहणाऽपुष्टो वागरे किंचि, पुट्ठो वा नाऽलियं वए। कोहं असचं कुट्विजा, धारिज्जा पियमप्पियं // 14|| नापृष्टः-कथमिदम्? इत्याद्यजल्पितः, गुरुणेति गम्यते, व्यागृणीयात् वदेत, तथाविधं कारणं विना, किञ्चित्-स्तोकमपि, पृष्टो वा न अलीकम्--अनृतं वदेत् कारणान्तरेण च गुरुभिरतिनिर्भत्सितोऽपि न तावत् क्रध्येत् कथंचिदुत्पन्नं वा क्रोधम् असत्यंतदोत्पन्नकुविकल्पविफलीकरणेन कुर्वीत-विदध्यात्, कथम्? धारयेत्-- स्थापयेत्, मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्रश्लोकपूर्वार्धेन वाचा यथा गुरुरनुवर्तनीयः तथोक्तमुत्तरार्धेन तु मनसेति / अथवा-नापृष्ट इति--न गुरुणैव किन्तु येन केनचिदपी-त्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपल-क्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत। क्रोधासत्यतायामुदाहरणं संप्रदायः-"कस्स वि कुलपुत्तयस्स भाया वेरिएणवावाइओ। तओ सो जणणीए भण्णइ-पुत्त ! पुत्तघाययं घायसु त्ति, तओ सो तेण जीवग्गहो गिहिऊण जणणीसमीवमुवणीओ / भणिओ अणेणभायघायय? कहिं ते आहणामि त्ति, तेण भणिओ-जहिं सरणागया आहम्मंति, तेण जणणी अवलोकिया, ताए भण्णइ--ण पुत्त! सरणागया आहम्मंति। तेण भण्णइ-कहं रोसं सफलं करेमि त्ति / तेण भण्णइ-ण पुत्त! सव्वत्थ रोसो सफलो कज्जइ। पच्छा सोतेण विसज्जिओ।" एवं क्रोधमसत्यं कुर्वीत, मानादिविफलीकरणे उदाहरणान्यागमादवधा यथैषामुदय एव न स्यात्तथोपदेष्टुमाह-धारयेत्-स्वरूपेणावधारयेत्, न तद्वशतो राग द्वेषं वा कुर्यात्, प्रियंप्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, अप्रियंतद्विपरीतं निन्दादि, तत्रोदाहरणंसंप्रदायः-"असिवोवद्दुएणयरे तिन्नि भूयवाइया रायाणमुवगया, भणति-अम्हे असिवं उवसमेमो