________________ विणय 1156- अभिधानराजेन्द्रः - भाग 6 विणय न्तकुत्सोपदर्शकः, पूती--परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाधुपलक्षणमेतत्, तथाविधौ कर्णीश्रुती यस्याः पक्वरक्तं वा पूतिस्तव्याप्तौ कर्णी यस्याः सापूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत्, सा चेदृशी शुनी, किमित्याह-निष्काश्यते-निर्वास्यते बहिनिःसार्यत इति यावत्, कुतः?-'सव्वसो' तिसर्वतः-सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः, सर्वान् वा हतहतेत्यादिविरूक्षवधनलतालकुटलेष्ठुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत्सूत्राणि भवन्ती' तिछान्दसत्वाच्च सूत्रेशस्प्रत्ययः। उपनयमाह-एवम्-अनेनैव प्रकारेण, दुष्टमिति रागद्वेषादिदोषविकृतं शीलंस्वभावः समाधिराचारो वा यस्यासौ दुःशीलः, प्रत्यनीकःप्राग्वत्, मुखेनारिमावहति मुखमेव वेह परलोकापकारितयाऽरिरस्य मुधैव वा कार्य विनैवारयो यस्यासौ मुखारिर्मुधारि/बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि त्ति मुखरी वाचाटो निष्काश्यते 'सर्वतः' इतीहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसंघसमवायबहिर्वर्ती विधीयत इति सूत्रार्थः // 4 // आह-दौःशील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतौ किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरिति कृत्वा, तामेव दृष्टान्तपूर्विकामाहकणकुंडगं जहित्ता णं, विहं मुंजइ सूयरो। एवं सीलं जहित्ता णं, दुस्सीले रमई मिए॥५॥ कणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः-तत्क्षोदनोत्पन्नकुकुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा विष्ठाम्-पुरीष भुङ्क्तेअभ्यवहरति 'सूकर' इति गर्तासूकरो, यथेति गम्यते, एवं शीलम्उक्तरूपं प्रस्तावाच्छोभनं हित्वा-प्राग्वत्त्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टंशीलमस्येति दुःशीलस्तद्भावो दौःशील्यं तस्मिन्, उभयत्र दुराचारादौ रमतेधृत्तिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः / इदमत्र हृदयम्-यथा मृग उदीर्णासिपुत्रिकगौरिगायनपुरुषहेतुकमायती मृत्युरूपमपायमपश्यनज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एव सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते / इह च दृष्टान्तेऽपि विड्भुक्त्यभिरतिरेवार्थत उक्ता, तदविनाभावित्वात्तस्याः, यद्वा-शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तमस्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थः / / 5 / / उक्तोपसंहारपूर्वकं कृत्योपदेशमाहसुणिया मावं साणस्स, सूयरस्स नरस्स य। विणए ठविध अप्पाणं, इच्छंतो हियमप्पणो॥६॥ श्रुत्वा आकर्ण्य अभावं-नत्रः कुत्सायामपि दर्शनादशोभनं भावं सर्वतो निष्काशनलक्षणं पर्यायं 'साणस्स' ति प्राकृतत्वादिवेत्यस्य गम्यमा नत्वात् शुन्या इव सूकरस्य-उक्तन्यायेन शूकरोपमस्य नरस्य, 'चः' पूरणे, यद्वा-शुन्याः शूकरस्य च दृष्टान्तस्य नरस्य च दान्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-विनये वक्ष्यमाणस्वरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, इच्छन्-वाञ्छन् हितम्-ऐहिकमामुष्मिकं च पथ्यम् आत्मनः-स्वस्य, इह च पुनर्दृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थः / / 6 / / यतश्चैवं ततः किमित्याहतम्हा विणयमेसिखा, सीलं पडिलभे जओ। बुद्धउत्ते नियागट्ठी,न निकसिबइ कण्हुइ // 7 // 'तस्माद्' इति यस्मादविनयदोषदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति। किं पुनरस्य विनयस्य फलम् येनैवमत्रात्मनोऽवस्थापनमुद्दिश्यत इत्याशङ्कयाह-शीलम्-उक्तरूपं प्रतिलभेत-प्राप्नुयात्- 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम्, अस्यापि किं फलमित्याह-बुद्धैः-अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्-अभिहितं,तच्च तन्निजमेव निजकंच-ज्ञानादिस्तस्यैव बुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात,बुद्धोक्तनिजकम, तदर्थयते--- अभिलषतीत्येवंशीलः बद्धोक्तनिजकार्थी सन्, पठन्ति च-'बुक्चुत्ते णियाणट्टि' ति बुकेः-उक्तरूपैर्युक्तोविशेषेणाभिहितः सचद्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यदा-बुद्धानाम्-आचार्यादीनांपुत्र इवपुत्रो बुद्धपुत्रः 'पुत्ता य सीसा य समं विहित्ता इति वचनात्, स्वरूपविशेषणमेतत्, नितरां यजनं याग:-पूजा यस्मिने सोऽयं नियागो-मोक्षः, 'तत्रैव नितरां पूजासम्भवात्, तदर्थी सन्, किमित्याह-न निष्काश्यतेन बहिष्क्रियते, कुतश्चिद् गच्छगणादेः, किन्तु-विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः // 7 // कथं पुनर्विनय एषयितव्य इत्याहणिसंते सिया अमुहरि, बद्धाणमंतिए सया। अट्ठ जुत्ताणि सिक्खिज्जा, निरट्ठाणि उवज्जए॥॥ नितराम्-अतिशयेन शान्तः उपशमवान् अन्तःक्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः स्याद्-भवेत्, तथा अमुखारिः-प्राग्वत् अमुखरो वा सन् बद्धानाम्-आचार्यादीनाम् अन्तिके समीपे, न तु, विनयभीत्या-ऽन्यथैव सदा-सर्वकाल-मर्यते--गम्यते इति अर्थ: अर्तेरौणादिकस्थन् (उषिकुषिगाऽतिभ्यस्थन् उ०२-४) स च हेय उपादेयश्चोभयस्याप्यर्यमाणत्वात्, तेन युक्तानि-अन्वितानिअर्थयुक्तानि, तानिच हेयोपादेयाभिधायकानि, अर्थादागमवचांसि,यदा-मुमुक्षुभिरर्थ्यमानत्वादर्थोमोक्षस्तत्रयुक्तानि-उपायतयासङ्गतानि अर्थवा अभिधेयमाश्रित्ययुक्तानि यतिजनोचितानि शिक्षेतअभ्यस्येत,प्रपञ्चितज्ञ-विनेयानुग्रहाय व्यतिरेकत आह-निरर्थकानि-उक्तविपरीतानि डित्थडवित्थादीनि, १-सूकर शब्दो दन्त्यादिस्तालव्यादिश्च /