________________ विणय 1158 - अभिधानराजेन्द्रः - भाग 6 विणय एवेतिख्यापितं भवति। तथाच वाचकः-"न भवतिधर्मः श्रोतुः, सर्वस्यैकान्तताहितश्रवणात् / बुवतोऽनुग्रहबुद्ध्य, वक्तुस्त्वेकान्ततो भवति // 1 // " मे-मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः / उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च (उक्त इति) ततश्चालनावसरः, साच सूत्रार्थगतदूषणात्मिका, "सुत्तगयमत्थविसयं, व दूसणं चालणं मयं तस्स'' इति वचनात्, तत्र सूत्रचालना-संयोगस्य विप्रमुक्तक्रिया प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी? अर्थचालना च 'विनयं प्रादुष्करिष्यामी' ति प्रतिज्ञातम्, उत्तरत्र च आणाऽणिद्देसकरे' इत्यादिना 'खड्डयाहिं चवेडाहिं' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते इति कथं न प्रतिज्ञाक्षतिः? प्रत्यवस्थानं शब्दार्थन्यायतः परोप-- न्यस्तदोषपरिहाररूपम्, यत आह-"सद्दत्थन्नायाओ, परिहारोपच्चवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुःकर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्न्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः। यतो यद्यलक्षणं तत्तद्विपर्ययाविधान एव तल्लक्षणमक्लेशेन ज्ञातुं शक्यमिति / अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानम्, तथा च शय्यम्भवप्रणीताचारकथायामपि "वयछक्ककायछक्क' मित्यादिनाऽऽचारप्रक्रमेऽप्यनाचारवचनम् / अथवा--एकमपीदं सूत्रमावृत्त्या श्वेतो धावती' तिवदर्थद्वयाभिधायकम्, ततश्चायमन्योऽर्थः-संयोगेन कषायादिसम्पर्कात्मकेनाप्यविप्रमुक्तः-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्अष्टप्रकारं कर्म तत् करोतीति कोऽर्थः?-तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य भिक्षोः-कषायादिवशतो जीववीर्यविकलस्य पौरुषध्नीभेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य विनयं 'प्रादुष्करिस्यामि' इति "प्राकाश्यसम्भवे प्रादु" रिति वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा-विरुद्धो नयो विनयः; असदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य-भिक्षोः-उक्तन्यायेन-भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः समाधिः- संयोगः, ततो विविधैः परीषहासनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः तस्य, शेषं प्राग्वत्। एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्वं सुस्थम्। अपरस्त्वाह-- प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम्, इदमपि बालप्रजल्पितं यतः शास्वारम्भेऽभिधेयाद्यवश्यमभिधेयम् अन्यथा प्रेक्षावत्प्रवृत्त्यसम्भवात्, तत्प्रदर्शनात्मकं चैतत् प्रतिज्ञानम्, तथाहि-विनयं प्रादुष्करिष्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्प्रादुष्करणंफलम्, तथा चेदमुपेयम्, उपायश्चास्य प्रस्तुताध्ययनम्, इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति,ततो नाप्रस्तुतत्वं प्रतिज्ञातस्येति स्थितम्। उत्त० पाई० 10 // सम्प्रति यदुक्तं विनयं प्रादुष्करिष्यामीति,तत्र विनयोधर्मः सचधर्मिणः कथञ्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाह आणानिद्देसयरे, गुरूणमुववायकारए। इंगियागारसम्पन्ने, से विणीए त्ति वुचइ // 2 // आडिति स्वस्वभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञाभगवदभिहितागमरूपा तस्या निर्देशउत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमित्थं वेत्येवमात्मकः तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः, यद्वा-आज्ञा-सौम्य? इदं कुरु इदंचमा कार्षीरिति गुरुवचनमेव,तस्या निर्देश इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बालाऽबलादिबोधोत्पादनार्थत्वाच्चास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा गुरूणाम्--गौरवाहाणामाचार्यादीनामुप--समीपे पतनं स्थानमुपपातः-दृग्-वचनविषयदेशावस्थानं तत्कारक:-तदनुष्ठाता, न तु गुर्वादशादि-भीत्या तद्व्यवहितदेशस्थायीति यावत्, तथेङ्गितंनिपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद् भूशिरः कम्पादि आकारः-- स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः,आह च"अवलोयणं दिसाणं, वियंभणंसाडयस्ससंठवणं।आसणसिढिलीकरणं, पट्ठियलिंगाइँ एयाई॥१॥" अनयोर्द्वन्द्वे इङ्गिताकारौतौ अर्थाद्-गुरुगतौ सम्यक् प्रकर्षेण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा--इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तम्, तेन सम्पन्नोयुक्तः,'स' इत्युक्तविशेषणान्वितः विनीतः-विनयान्वितः, 'इति' सूत्रपरामर्श उच्यते तीर्थकृद्रणधरादिभिरिति गम्यते,अनेन चस्वमनीषिकाऽपोहमाहं इति सूत्रार्थः / / 2 / / इह विनयोऽभिधित्सितः, सच विपर्ययाभिधान एव तद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहआणानिद्देसकरे, गुरूणमणुववायकारए। पडिणीए असंबुद्धे, अविणीए त्ति दुचइ||३|| पादद्वयं प्राग्वत्, नवरं नज्योजनादव्यतिरेकतो व्याख्येयम्, प्रत्यनीकः-प्रतिकूलवर्ती शिलाऽऽक्षेपककूलबालक श्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-असम्बुद्धःअनवगततत्त्वः, अविनीतः अविनयवान् 'इत्युच्यते' इति पूर्ववदिति सूत्रार्थः // 3 // साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य सदोषतामाह-- जहा सुणी पूइकण्णी, णिकसिजह सव्वसो। एवं दुस्सीलपडिणीए, मुहरी निक्कसिजइ॥॥ यथा इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्य