________________ विणय 1157- अभिधानराजेन्द्रः - भाग 6 विणय वातादयो-यातपित्तश्लेष्माणो ये बद्धासनस्य सतः क्षुभिर्ताः-स्थानात् प्रचलितास्ते स्वस्थानं व्रजन्ति-स्वस्थानं प्रतिपद्यन्ते; ते न विक्रियां भजन्तीति भावः / तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातस्य यतोऽपगमो भवति / तथा तनोः-शरीरस्य स्थिरतादायं भवति, न विशरारुताभावः। अत एव च बलं शारीरं तदुपष्टम्भतो वाचिक मानसिकं च / तथा एवं विश्रामणातो वातादीनां स्वस्थागमने अर्शआदयोऽसि वातपित्तश्लेष्मजानि आदिशब्दात् तदन्ये च रोगा नोपजान्ते। एते विश्रामणायां गुणास्ततः कर्त्तव्योऽवश्यमनुलोमकायक्रियाविनयः, संस्पर्शनविनयश्च। संप्रति सर्वत्रानुलोमताविनयमाहसेयवऊ मे कागो, दिहो चउदंतपंडुरो वेभो। आम पडिति भणंते, सव्वत्थऽणुलोमपडिलोमे |5|| श्वेतवपुः श्वेतशरीरोमया काको दृष्टः। यदिवा-इमो-हस्ती चतुर्थन्तः, पाण्डुरश्च मया दृष्ट इति वर्तते। एवं प्रतिलोमे लोकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने इति प्रतिभणति शिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः। किमुक्तं भवति-यदि नामश्वेतवपुर्मया काको दृष्ट इत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापितदानीं सकलजनसमक्षमाममित्येव वक्तव्यम्, न पुनस्तद्वचः कुट्टयितव्यम्। केवलं विशेषार्थिना जनविरहे कारणं प्रष्टव्यम् / एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा। मिणु गोणसंगुलेहि, गणेहि से दचकलाई से। अग्गंगुलीवग्धं, तुद डिवगडं भणइ आमं ||6|| मिनु-प्रमिणु गोनसं-सर्पजातिविशेषम् अङ्गुलैःन्यथा कियन्त्यङ्गुलानि अयं गोनसो विद्यते इति / तथा गण-परिसंख्याहि 'से' तस्य गोनसस्य दंष्ट्राः, यदि वा-'से' तस्य चक्रवालानिपृष्ठस्योपरि मण्डललक्षणानि गणय, कियन्त्योऽस्य दंष्ट्रा कियन्ति वास्य पृष्ठस्योपरि चक्रवालानीत्येतत् गणयित्वा कथयेति भावः। तथा अबागुल्यग्रभागेन व्याघ्रं तुदतोत्रेण या व्यथय, तथा 'डिव' निपत्योलक्य अवटंकूपम् / एवं प्राणिप्रतिलोमं वदति गुरौ, सर्वत्रानुलोमताविनययुक्तः शिष्य आममिति भणति / गुरवो हि सकलजगत्प्राणिवर्गविषयपरमकरुणापरीतचेतसस्ततस्तएव युक्तमयुक्तं वाजानन्तिा किमत्र शिष्यस्य चिन्तयेत शिष्येण सर्वत्रानुलोमविनयमिच्छुना ईदृशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति / व्य०१ उ०। ध००। (लौकिको लोकोत्तरिको बलीयानिति संज्ञाभूमिगमनप्रस्तावे आचार्यस्य 'अइसय' शब्दे प्रथमभागे 16 पृष्ठे उक्तः।) (सत्कारादिविनयेषु दण्डकः 'सक्कार' शब्दे वक्ष्यते।) साम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसार (वत्त्वा) त्वादिगुणान्वितं सूत्रमुच्चारणीयम्, तच्चेदम् संजोगविप्पमुक्कस्स, अणगारस्स मिक्खुणो। विणयं पाउकरिस्सामि, आणुपुटिव सुणेह मे / / 1 / / अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोचारणं संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वात्, तथा चाह-''होइक्यत्थोवोत्तुं, सपयच्छेयं सुयं सुयाणुगमो' त्ति। पदंतुनामिकनैपातिकादि स्वधियैव भावनीयम्, पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजन संयोगः, स च संयुक्तसंयोगादिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिकादिक्लिष्टतरभावसंयोगात्मकाच विविधैः-ज्ञानभावनादिभिर्विचित्रैः प्रकारैः प्रकर्षणपरीषहोपसर्गादिसहिष्णुतालक्षणेन मुक्तोभ्रष्टो विप्रमुक्तः, तस्य-'अनगारस्ये' ति अविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम्-'अनगारो' मुनिर्मानी, साधुःप्रव्रजितो व्रती। श्रमणः क्षपणश्चैव, यतिश्चैकार्थ-वाचकाः॥१॥" इति। इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात्, तत्र चागारं द्विधाद्रव्य-भावभेदात, तत्र द्रव्यागारमगैः-द्रुमदृषदादिभिर्निवृत्तम, भावागारं पुनरगैः--विपाककालेऽपि जीवविपाकतया शरीरपुद्रलादिषु बहिः प्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं कषायमोहनीयम्, तत्रच द्रव्यागारपक्षे तनिषेधे ततोऽनगारस्याविद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्येत्यर्थः / कषायमोहनीयं हि कर्म, न च कर्मणा स्थित्यादिभूयस्त्वे विरतिसङ्गमः / यत आगमः-"सत्तण्हं पयडीणं, अभितरओउकोडिकोडीओ। काऊण सागराणं, जइ लहइ चउण्हमन्नयरं / / 1 / / " इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैव चास्य गतत्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थम्। विशेष्यमाह--'भिक्षो' रिति, अत्रच पचनपाचनादिव्यापारोपरमतः साधुर्भिक्षते तर्मा चेत्यर्थे "सनाशंसभिक्ष उ" रिति (पा०३-२--१६८) ताच्छीलिक उप्रत्ययः। अस्य चवर्तमानाधिकारविहितत्वेऽपि सज्ञाप्रकारास्ताच्छीलिका इति भाष्यकारवचनाद् भिक्षु-शब्दस्त्रिकालविषयो यतिपर्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी। अथवा- "अणगारस्स भिक्खुणो' त्ति अस्वेषु भिक्षुरस्वभिक्षुः जात्याद्यनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादिभिक्षत इति कृत्वा, सच यतिरेव। ततोऽन्नगारश्वासावस्वभिक्षुश्च अनगारास्वभिक्षुस्तस्य। किमित्याह-विशिष्टो विविधो वा नयो नीतिर्विनयः साधुजनासेवितः समाचारस्तं, विनमनंवा विनतं 'णीयं सेजंगई ठाणं' इत्याद्यागमात्। द्रव्यतो नीचैर्वृत्तिलक्षणं प्रहृत्वम्, भावतश्च सध्वाचारं प्रतिप्रवणत्वं प्रादुष्करिष्यामि-प्रकटयिष्यामि। कथमित्याह-पूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्य" (पा०५-१-१२६) कर्मणि चेति ष्यञ्, तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद्गौरादिभ्यश्चे'' ति (पा०४-१-४१) डीष्यानुपूर्वीक्रमः-परिपाटीति यावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणी तिन्यायतः छान्दसत्वे 'सुपां सुपो भवन्ती' ति वचनात् तृतीयार्थे, शृणत-आकर्णयत श्रवणं प्रत्यवहिता भवता यदाशृणु इहेति-जगति जिनमते वा; व्याख्याद्वयेऽपि शिष्याभिमुखीकरणमित्यर्थः / अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म