________________ विणय 1156 - अभिधानराजेन्द्रः - भाग 6 विणय र्तव्यज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्तव्यतया च प्रतिपत्तिरेषा सर्वाऽपि सनुिलोमताविनयः। उपसंहारमाहलोगोवयारविणओ, इय एसो वण्णिओ सपक्खम्मि। आसन्न कारणं पुण, कीरइ जयणा विपक्खे वि||६|| इत्येवमुक्तेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे-सुविहितलक्षणे वर्णितः। आसाद्य कारणे पुनर्विपक्षेऽपि गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु च एष लोकोपचारविनयोऽभ्यासः वर्तित्वादिलक्षणो यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमानाबाधया च क्रियते। तदेवं कायवाङ्मनोलोकोपचारभेदतश्चतुष्प्रकारः प्रतिरूपविनय उक्तः। अथवा चतुष्प्रकारः प्रतिरूपविनयस्तानेव प्रकारान् दर्शयतिचउहावा पडिरूवो, तत्थेगणुलोमवयणुसहियत्तं / पडिरूवकायकिरिया, फासणसव्वाणुलोमं च / / 7 / / वाशब्दः प्रकारान्तरद्योतनार्थः। अन्यथा वा चतुर्दा-चतुष्प्रकारः प्रतिरूपविनयस्तत्रतेषु चतुर्यु प्रकारेषु मध्ये एकः प्रतिरूपविनय-स्तावदयम्यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति तत्सर्वमनुलोमवचनपूर्वकं करोति नान्यथेति भावः। द्वितीयप्रतिरूपकायक्रिया; यथा-परिपाट्या शरीरविश्रामणमित्यर्थः। तृतीयः संस्पर्शनविनयः यथा गुर्वादः सुखासिकोप-जायते तदा मृदुसंस्पर्शात्मकः संस्पर्शनविनय इति भावः। चतुर्थः सर्वानुलोमतासूत्रे सर्वानुलोममिति भावप्रधानो निर्देशः। चः समुच्चये / साच सर्वानुलोमता व्यवहारविरुद्धेऽपि प्राणव्यपरोपण-- कारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव च कार्यसंपादनमित्येवंरूपा। एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोऽनुलोमवचनसहितत्वं व्याख्यानयति अमुगं कीरउ आम-ति भणइ अनुलोमवयणसहितो उ। / वयणपसायाईहि य, अभिणंदइ तं वयं गुरुणो // 88|| इच्छाकारेण भो शिष्य ! अमुकं क्रियतामित्येवं गुरुणा समादिष्ट यो वचसा आममितिब्रूते न केवलं ब्रूते एव किं तुगुरोस्तां वाचं वदनप्रसादादिभिर्वदनस्य प्रसादेन मुखस्य प्रसन्नतया आदिशब्दात्-उत्फुल्लनयनकमलोऽञ्जलिप्रग्रहादिना वाऽभिनन्दति महान् कृतः प्रसादो यदिदं समादिष्टमित्येवं ज्ञापनेन स्फाति करोति स विनयविनयवतोरभेदोपचारात् अनुलोमवचनसहितः प्रतिरूपविनयः / तुशब्द एवकारार्थः / एवंरूप एवानुलोमवचनसहितो नान्य इति। अस्यैव विनयस्य करणे उपदेशमाहचोययंते परं थेरा, इच्छाणिच्छेव तं वइं। जुत्ता विणयजुत्तस्स, गुरुवक्काणुलोमता || स्थविरा-आचार्यादयः ते परं शिष्यं चोदयन्ते-शिक्षयन्ते तेषांतत्राधिकारित्वात्। तत्र तां चोदनात्मिकां वाचं प्रति यदिइच्छा भवति तदादिष्ट- | कार्यकरणाय, यदिवा-अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमता। आममित्येवं गुरुवाक्योपवृंहणं गुरुवाक्योपदिष्टकार्यसंपादकता चेति लक्षणा युक्ता / इयमत्र भावना-जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोनिकटवर्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते तदाता शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येव वा उपवृंहणीयं कार्यं च संपादनीयमिति। एतदेव सविस्तरमाहगुरवो जं पभासंति, तत्थ खिप्पं समुज्जमे। नहु सच्छंदया सेया, लोए किमुत उत्तरे || गुरवो यत्प्रभाषन्ते-कर्तव्यतयोपदिशन्ति, तत्र क्षिप्रंशीघ्रं समुद्यच्छेत्सम्यगुद्यम कुर्यात्, यतो 'नहु'-नैव स्वच्छन्दता स्वाभिप्रायेणावर्तिता श्रेयसी लोकेऽपि अपिशब्दोऽत्रानुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे-लोकोत्तरे सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, ज्ञानादिविच्युतिप्रसङ्गात्। जं जुत्तं गुरुनिद्देसं, जो वि आइसई मुणी। तस्सावि विहिणा जुत्ता, गुरुवक्काणुलोमता||११|| यथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योऽपि मुनिरादिशति-कथयति तस्यापि तथा दिशतः प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्यानुलोमता यथोक्तस्वरूपा। तदेवमुक्तोऽनुलोमवचनसहितत्वरूपो विनयः। संप्रति प्रतिरूपकायक्रियाविनयमाहअद्घाणवायणाए, निव्वासणएपरिकिलंतस्स। सीसाइजाव पाया, किरियापायादविणओ उIIEI अध्वनि-मार्गे वा वाचनायां 'सूत्रार्थप्रदानलक्षणायां नित्यासनतयानिरन्तरोपवेशनतः परिक्लान्तस्य–समन्ततः क्तममुपागतस्य क्रिया प्रतिरूपकायक्रिया विश्रामणेति तात्पर्यार्थः। कर्तव्येति वाक्यशेषः। कथं कर्तव्येत्यत आह-शीर्षादियावत्पादौ शिरस आरभ्य क्रमेण तावत्कर्तव्या यावत्पादौ, यदि पुनः पादादारभ्य करोति तदा अविनयपादादिमलस्य शीर्षादिषु लगनात्। अत्रैवापवादमाहजत्तो पभणाइ गुरू, करेइ किइकम्म मो ततो पुष्वं / संफरिसणविणओ पुण, परिमउवा जहा सहइ॥३॥ यतो वा अङ्गादारभ्य गुरुर्भणति ततः पूर्वमारभ्य कृतिकर्म विश्रामणां 'मो' इति पादपूरणे करोति। तथा च सति पादादप्यारभ्य ककुर्वतो नाविनयः गुर्वाज्ञाकारित्वात्। उक्तोऽनुलोमकायक्रिया-विनयः संप्रति संस्पर्शनविनयमाह-'संफरिसणे' त्यादिसंस्पर्शनविनयः पुनः परिमृदुकम्, वाशब्दादल्पमृदुकं वा यथासहते तथापि विश्रामणां करोति अतिखरेण विश्रामणायां परितापनसंभवात्। अथ विश्रामणायां को गुण इत्यत आहवायाई सट्ठाणं, वयंति महासणस्स जे खुमिया। खेयजतो तणुथिरया, बलंच अरिसादओ नेवं ||