________________ विणय 1153 - अभिधानराजेन्द्रः - भाग 6 विणय लोकोपचारविनयो-लोकप्रतिपत्तिफलः अर्थनिमित्तं च अर्थप्राप्त्यर्थे च कामहेतुश्च-कामनिमित्तश्च तथा भयविनयो भयनिमित्तः मोक्षविनयो-मोक्षनिमित्तः एवमुपाधिभेदाद्विनयः खलु पञ्चधा-पञ्चप्रकारो भवतीति गाथासमासार्थः / व्यासार्थाभिधित्सया तु लोकोपचारविनयमाहअब्भुट्ठाणं अंजलि-आसणदाणंच अइहिपूआय। लोकोपचारविणओ, देवयपूया य विभवेणं // 311 / / 'अब्भुट्ठाणं' तदुचितस्यागतस्याभिमुखमुत्थानम् अञ्जलिः विज्ञापनादौ आसनदानं च गृहागतस्य प्रायेण अतिथिपूजा चाहारादिदानेन एष इत्थंभूतोलोकोपचारविनयः, देवतापूजा चयथाभक्तिबल्याधुपचाररूपा विभवेनेति यथा-विभवं विभवोचि तेति गाथार्थः / उक्तो लोकोपचारविनयः। दश० अ०१ उ०। आ० म० नं0 व्य०। अर्थविनयमाहअब्भासवित्तिछंदा-गुवत्तणं देसकालदाणं च। अन्मुट्ठाणं अंजलि-आसणदाणं च अत्थकए॥३१॥ अभ्यासवृत्तिः--नरेन्द्रादीनां समीपावस्थानं छन्दोऽनुवर्तनम् अभिप्रायाराधनं देशकालदानंच कटकादौ विशिष्टनृपतेः प्रस्तावदानम, तथा अभ्युत्थानमञ्जलिरासनदानं नरेन्द्रादीनामेव कुर्वन्ति अर्थकृतेऽर्थार्थमिति गाथार्थः / उक्तोऽर्थविनयः। कामादिविनयमाहएमेव कामविणओ, भये अनेयव्वमाणुपुथ्वीए। मोक्खम्मि वि पंचविहो, परूवणा तस्सिमा होइ॥३१३|| एवमेव यथार्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः भये चेति भयविनयश्च ज्ञातव्यो-विज्ञेयः आनुपूर्व्यापरिपाट्या, तथाहि-कामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति, प्रेष्याश्च भयेन स्वामिनामिति उक्तौ कामभयविनयौ / मोक्षविनयमाह-मोक्षेऽपि मोक्षविषयो विनयः-पञ्चविधःपञ्च-प्रकारः प्ररूप्रणा-निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः। दर्शनादिविनयमाहदंसणनाणचरित्ते, तवे य तह ओवयारिए चेव। एसो अमोक्खविणओ, पंचविहो होइ नायय्वो॥३१४।। दर्शनज्ञानचारित्रेषुदर्शनज्ञानचारित्रविषयः तपसि चतपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो मोक्षनिमित्तः पञ्चविधो भवतिज्ञातव्य इतिगाथासमासार्थः / दश०६ अ०२ उ०ा आo चू० गधा तिन ज्ञानादिसप्तविनयाःसे किं तं विणए? विणए सत्तविहे पण्णत्ते,तं जहा-णाणविणए दंसणविणए चरित्तविणए मणविणए वइविणए कायविणए लोगोवयारविणए। (सू०२०x) ज्ञानविनयः से किं तं णाणविणए? णाणविणए पंचविहे पण्णत्ते,तं जहाआभिणिवोहियणाणविणए सुअणाणविणए ओहिणाणविणए मणपज्जवणाणविणए केवलणाणविणए। (सू० 20+) औ०। भाव्य दर्शनविनयःसे किं तं दंसणविणए? दंसणविणए दुविहे पण्णत्ते, तं जहासुस्सू(स्सु)सणाविए अणचासायणाविणए / से किं तं सुस्सूसणाविणए? सुस्सूसणाविणए अणेगविहे पण्णत्ते, तं जहाअब्भुट्ठाणेइ वा आसणाभिग्गहेइ वा आसणप्पदाणेति वा सकारेइ वा संमाणेइ वा कितिकम्मेइ वा अंजलि पग्गहेइ वा एयस्स अणुगच्छणया ठिअस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया। से तं सुस्सूसणाविणए। (सू० 204) औ०) (दर्शनविनयोऽप्यष्टप्रकारः सच 'दंसणायार' शब्दे चतुर्थभागे 2436 पृष्ठे दर्शितः।) (अनत्याशातनाविनयः अणच्चासायणा-विणय' शब्दे प्रथमभागे 283 पृष्ठे दर्शितः।) उपसंहरन्नाह-- एसो भे परिकहिओ, विणओ पडिरूवलक्खणो तिविहो। बावन्नविहिविहाणं, ति अणासायणाविणयं // 32 // एषः अनन्तरोदितः 'भे'-भवतां परिकथितो विनयः प्रतिरूपलक्षणस्त्रिविधः कायिकादिः द्विपञ्चाशद्विधिविधानम् एतावत्-प्रभेदमित्यर्थः अवते-अभिदधति तीर्थकरा अनाशातनावियं वक्ष्यमाणमिति गाथार्थः। एतदेवाहतित्थयरसिद्धकुलगण-संघकियाधम्मनाणनाणीणं / आयरियथेरओज्झा-गणीण तेरस पयाणि // 325 / / तीर्थकरसिद्धकुलगणसंघक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलंनागेन्द्रकुलादि गणः-कोटिकादिः संघः-प्रतीत:-क्रिया अस्तिवादरूपा,धर्म:-श्रुतधादिः ज्ञानम्-इत्यादिज्ञानिनस्त-द्वन्तः, आचार्यः प्रतीतः स्थविरः-सीदतां स्थिरीकरणहेतुः,उपाध्यायः प्रतीतः गणाधिपतिर्गणिरिति गाथार्थः। एतानि त्रयोदश पदान्यनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याहअणॉसायणा य भत्ती, बहुमाणे तह य वन्नसंजलणा। तित्थगराई तेरस, चउग्गुणा हॉति बावन्ना / / 326 / / अनाशातनाचतीर्थकरादीनांसर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलनातीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना। एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इतिगाथार्थः। उक्तो विनयः / दश० 6 अ०२ उ०। (चारित्रविनयः 'चारित्त-विणय' शब्दे तृतीयभागे 1175 पृष्ठे गतः।)