________________ विजा ११४७-अभिधानराजेन्द्रः - भाग 6 विजा उपचरिता। न च ते सम्पत् तथा जीवः ज्ञानदर्शनवीर्यसुखरूपैः भावप्राणैरेव जीवति / आयुर्जीवनं तु बाह्यप्राणसंम्बन्धस्थितिहेतुतया तन्नात्मस्वरूपम्। तथा वर्णगन्धरसस्पर्शाचेतनशरीरोपचयश्चनस्वरूपम्, तदपि अस्थिरम् इत्येवमस्थिरपरभावे स्वात्मधर्मप्रध्वंसके कः प्रतिबन्धः? तदर्थं च स्वगुणानचेतनावीर्यादीन् कः परभावग्रहणोन्मुखान् करोति? अत आत्मनि आत्मगुणप्रवृत्तिरेव करणीया। शुचीन्यप्यशुचीका, समर्थेऽशुचिसम्भवे / देहे जलादिना शौच-भ्रमो मूढस्य दारुणः॥४|| 'शुचीन्यपी' ति मूढस्य-अज्ञस्य यथार्थापरयोगरहितस्य देहेन्द्रियायतने जलादिना-पानीयमृत्तिकादिसङ्गेन शौचभ्रमः श्रोत्रियादीनां दारुणः-भयकृत, यश्च जात्याऽशुचिः स किं जलव्यूहैः शुचीभवति? | कथंभूते देहे ?.शुचीन्यपिकर्पूरादीन्यपि अशुवीकर्तुं समर्थे, देहसङ्गात् मलयजविलेपनादयोऽऽप्यशुचीभवन्ति, पुनः कथं भूते देहे? अशुचिसम्भवे अशुचि आर्तवं मातुः रक्तं पितुः शुक्र, तेन सम्भवः उत्पत्तिः यस्य स तस्मिन् / उक्तं च भवभावनायाम्- "सुक्कं पिउणो माउएँ, सोणियं तदुभयं पि संसटुं / तप्पढमाए जीवो, आहारइ तत्थ उप्पन्नो / / 1 / / " जूकाइसुणयभक्खे, किमि-कुलवासे य वाहिखित्ते य / देहम्मि अवचुविहुरे, सुसाणत्थाणे य पडिबन्धो" ॥साअतः अस्थिरे अपवित्रे औपाधिके अभिनवबन्धकारणे द्रव्यभावाधिकरणे कः संस्कारः // 4 // अथ देहे आत्मत्वारोपोऽपि बहिरात्मदोषौघः अतः तन्निवार्य स्वरूपे आत्मनः पावित्र्यं करणीयं तदुपदिशतियः स्नात्वा समताकुण्डे, हित्वा कश्मल मलम् / पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः // 5 / / 'यः स्नात्वेति'-स अन्तरात्मा देहात भिन्न आत्मज्ञानी स्वपरविवेकी परः-प्रकृष्टःशुचिः-पवित्रःज्ञेयः पुरुषः, समता अरक्तद्विष्टता तद्पे कुण्डे स्नात्वा कश्मलजम्-पापोत्पन्नं मलं हित्वा पुनः मालिन्यं न प्राप्नोति। सम्यक्त्वमावितात्मा परमशुचिः 'बन्धेण वोलइ कयाऽवि' इति वचनात्, सम्यगदृष्टिरनेनांशेन स्नातकः न पुनः उत्कृष्टां स्थितिंबध्नाति, एतदेव सहज पवित्रत्वम् / / 5 / / (अष्ट०) ('आत्मबोधः' (6) इति श्लोकः 'आतबोध' शब्दे द्वितीयभागे 162 पृष्ठेगतः।) मिथो युक्तपदार्थाना-मसंक्रमचमत्क्रिया। चिन्मात्रपरिणामेन, विदुषैवानुभूयते // 7 // 'मिथो युक्त' इति परस्परं युक्ताना मिलितानां पदार्थानाधर्मादीनामेकक्षेत्रावगाहिना पुद्गलानां च स्वक्षेत्रपरिणतानामसंक्रमचमत्क्रिया, न संक्रमः परस्परमीलनरूपः चमक्रिया-चमत्कारः, एकक्षेत्रावगाढा अपि नपरस्परं व्यापारका भवन्ति इत्यनेन स्वरूपतो भिन्ना एव। एषांचमक्रिया विदुषा एव अनुभूयते-पण्डिते-नैव विभज्यते / कथंभूतेन विदुषा? चिन्मात्रपरिणामेन-ज्ञानमात्रपरिणामेन ज्ञानमात्रबलेन इत्यनेन पञ्चास्तिकायानां कैश्चित्साधारणगुणैः अगुरुलध्वादिभिः तुल्येनापि असाधारणगुणैः गतिस्थित्यवगाहचेतनापूरणगलनादिलक्षणैश्च भेद एव, स्वाशुद्ध- | ग्राहकता-गृहीतपुद्गलेष्वपि न स्वगुणसंक्रमः, नाऽपि पुद्गलगुणसंक्रमः, यावत् एषां भेदचमत्क्रिया भिन्नद्रव्ये स्वद्रव्यगुणपर्यायाणामेकद्रव्यं व्याप्यावस्थितानामाधाराधेयत्वेनाभेदरूपाणामपिस्वस्वधर्मपरिणतिरूपा भेदचमत्क्रिया / एवं द्रव्याद् द्रव्यस्य, गुणाद् गुणस्य, पर्यायात्पर्यायस्य स्वभावस्य भेदलक्षणचमक्रिया विदुषा पण्डितेनैव अनुभूयते, नान्येन द्रव्यानुयोगज्ञानविकलेन / उक्तं च सम्मतौ-"अण्णोण्णाणुगयाणं,''इमं व तं व ति विभयणमजुत्तं / जह दुद्धपाणियाणं, जावंत विसेसपज्जाया // 47 // (नेयं गाथा सम्मतावुपलभ्यते) जं दव्वखित्तकाले, एगत्ताणं पि भावधम्माणं / सुअनाणकारणेणं, भेए नाणं तु सा विज्जा ।।१।इति / हरिभद्रपूज्यैः द्रव्यानुयोगलीनानामाधाकर्मादिदोषमुख्यत्वं न मतम्। तथा च भगवत्यङ्गे-'समणोवासगस्सणं भंते ! तहारूवं समणंवा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखइमसाइमेणं पडिलाभमाणे किं कज्जइ? गोयमा ! बहुतरा से निज्जरा कज्जइ, अप्पतरो से पावे कम्मे कज्जइ / तवृत्तिः- इह च केचित् मन्यन्ते-असंस्तरणादिकारणे एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणम्। यत उक्तम्- "संथरणम्मि असुद्धं, दोण्ह विगेण्हंतदितयाणं हिआआउरदिवतेणं, तंचेव हियं असंथरणे' ||1|| अन्ये त्याहुः-कारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा भवति, अल्पतरं च पापं कर्म इति निर्विशेषत्वात्, सूत्रस्य परिणामस्य च प्रामाण्यात् / आह "परमरहस्समिसीणं, समत्तगणिपिडगधरियसाराणं / परिणामि पमाणं, निच्छयमवलंबमाणाणं" ||1|| इमे पुनः"चरणकरणप्पहाणा, ससमयपरसमयमुकवावारा। चरणकरणस्स सारं, निच्छयसुद्धं न याति // 2 // अहागडाइ भुंजंति, अण्णमण्णे सकम्मुणा। उवलित्ते वियाणिज्जा, ऽणुवलित्ते त्ति वा पुणो, // 1 // एतेहिं दोहिँ ठाणेहिं, ववहारेण विजइ। एलेहिँ दोहिँ ठाणेहिं, अणायारं तु जाणए।।। इति" द्वितीययोमे 21 अध्ययने इत्यादि गीतार्थस्याकल्प कल्पम्, एषा लब्धिः तत्त्वज्ञानवतामेव // 7 // अविद्यातिमिरध्वंसे, दशाविद्याञ्जनस्पृशा। पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः ||8|| 'अविद्या' इति, हि-निश्चय योगिनः-समाधिदशावस्थाप्रवृत्तचक्रयोगिनःआत्मनिएक्स्वात्मनिएवपरात्मानम्-उत्कृष्टनिष्पन्न सिद्धात्मानम् पश्यन्ति-आत्मनि परमात्मत्वं निर्धारयन्ति। कया? विद्याञ्जनस्पृशा दृशा अविद्या-अज्ञानमबोधविद्या-तत्त्वबुद्धिरूपा, सा एव अञ्जनं तस्य स्पृशा दृशाचचुषा, वसति? अयथार्थोपयोगोवातदव तिमिरंतस्यध्वंसः तस्मिन्, इत्यनेन मिथ्यात्वतिमिरध्वसेजातेसम्यगदृष्टयः आत्मानम् आत्मनिपश्यन्ति, अत एव अनेकोपयोगेन श्रुताभ्यासेन आत्मस्वरूपोपलम्भायतत्त्वपरी(१)-नेयं गाथा सम्मतावुपलभ्यते