________________ विगइ 1133 - अभिधानराजेन्द्रः - भाग 6 विगइ नव विकृतय :नव विगईओ पण्णत्ताओ, तं जहा-खीरं दहि णवणीयं सप्पिं तिल्लं गुलो महुं मजं मंसं / (सू० 674) 'विगईओ' त्ति विकृतयो विकारकारित्वात्पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव अन्यथा तु दशाऽपि भवन्तीति, तथाहि-'एक्केण चेव तओ, पूरिज्जइ पूयएण जो ताओ। वीओ वि स पुण कप्पइ, निव्विगइअलेवडो नवर' मिति। द्वितीयोऽपि विकृतिर्न भवतीति भावः। तत्र क्षीरं पञ्चधाअजैडकागोमहिष्युष्ट्रीभेदाद् दधिनवनीतघृतानि चतुर्दैव , उष्ट्रीणाम् तदभावात्, तैलं चतुर्कीतिलातसीकुसुम्भसर्षपभेदात् / गुडो द्विधाद्रवपिण्डभेदात्। मधु त्रिधामाक्षिककौन्तिकभ्रामरभेदात्। मद्यं द्विधाकाष्ठपिष्टभेदात्- मांसं त्रिधाजलस्थलाकाशचरभेदादिति / स्था०६ ठा०३ उ०। दश विकृतयः मनसो विकृतिहेतुत्वात् विकृतयस्ताश्च दश। यदाहुः- "खीरं दहिणवणीयं, घयं तहा तेल्लमेव गुडमझं / महु मसं चेव तहा, उग्गाहिमगं च विगईओ॥१॥"तत्र पञ्च क्षीराणि गोमहिष्यजोष्ट्रयै-- लकासम्बन्धिभेदात्। दधिनवनीतघृतानि च चतुर्भेदानि, उष्ट्रीणां तदभावात्। तैलानि चत्वारि-तिलातसीलट्टासर्षपसंबन्धिभेदात, शेषतैलानि तु न विकृतयः लेपकृतानि तु भवन्ति / गुडः-इक्षुरसक्वाथः, स द्विधा-पिण्डो,द्रवश्व। मद्यं द्वेधा-काष्ठषिष्टोद्भवत्वात्। मधु त्रेधामाक्षिकं, कौन्तिकं, भ्रामरं च / मांसं त्रिविधं-जल-स्थलखचरजन्तूद्भवत्वात्, अथवा-मांसं त्रिविधं-चर्मरुधिर-मांसभेदात्। अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् 'भावादिमः' 6-4-21 / श्री सि०। इतीमः। यत्तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते तस्यामेवं तापिकायां तेनैवं घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः ततः पक्वान्नानि अयोगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते। अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीय पक्वान्नं, निर्विकृतिप्रत्याख्याने-ऽपि कल्पते। लेपकृतं तु भवतीत्येषा वृद्धसामाचारी। ध०२ अधि तथा तदिनतलितपक्वान्नं कटाहविकृतिप्रत्याख्यानवतः कल्पतेन वेति? अत्र तदिनतलितपक्वान्नं कटाहविकृतिप्रत्याख्यानवतः प्रत्याख्यानकरणसमये यदि मुत्कलं रक्षितं भवति तदा कल्पते नान्यथेति परंपरा दृश्यते इति। ही०४ प्रका०। श्रावकैर्विकृतयो भक्ष्याः षट्। ता दुग्ध१ दधि 2 घृत 3 तैलन गुड सर्वपक्वान्नभेदात्। ध०२ अधि०ा आव०। इदानीं कस्यां विकृतौ कानि किन्नामकानि कियन्ति विकृतिगतानि भवन्तीत्याह अह पेया 1 दुद्धट्टी 2, दुद्धवलेही य 3 दुद्धसाडी य / / पंचेव विगइगया, दद्धम्मि य खीरसहियाइं॥२३१।। अथानन्तरं पञ्चैव दुग्धे चशब्दस्यावधारणार्थत्वात् विकृतिगतानि भवन्ति, विकृतौ क्षीरादौ गतानिस्थितानि विकृतिगतानि-विकृत्याश्रितानि न विकृतिरित्यर्थः / कानि तानीत्याह-पेया; दुग्धकाजिकमित्यर्थः / तथा दुग्धाटीदुग्धावलेहिका दुग्धसाटिका चक्षीरसहिता इति। क्षरेय्या पायसेन सहितानि पूर्वोक्तानि चत्वारि पञ्चमी च; रेयीत्यर्थः / एतानि क्षीरे पञ्च विकृतिगतानीति। एतेषु स्वयमेव कानिधिद्विवृणोतिअंबिलजुअम्मि दुद्धे, दुट्टी दक्खमीसरद्धम्मि। पयसाडी तह तंदुल-चुण्णयसेहम्मि अवलेहि॥२३२॥ अम्बिलेन युक्ते दुग्धे दुग्धाटी किलाटिकेत्यर्थः, अन्ये तु बलाहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयसाटी, पयो-दुग्धं सटतिगच्छतीति व्युत्पत्तेः, तथा तन्दुलचूर्णकसिद्धे दुग्धे अबलेहिका। दधिविकृतिगतान्याहदहिए विगयगयाइं, घोलवडा घोल सिहरिणि करंबो। लवणकणदहि य महियं, सगरिगायम्मि अप्पडिए॥२३३।। दधिन-दधिविषये विकृतिगतानिपञ्च घोलवटकानिघोल युक्तवटकानि तथा घोलो-वस्षगालितं दधि, तथा शिखरिणी करमथितखण्डयुक्तदधिनिष्पन्ना, तथा करम्बको दधियुक्तकूर-निष्पन्नस्तथा लवणकणयुक्त दधि च मथितं राजिका खाटकमित्यर्थः। तच्च संगरिकादिके पतितेऽपि विकृतिगतं भवति। संगरिका पुंस्फलं शकलादौ पतिते पुनर्भवत्येव। घृतविकृतिगतान्याहपकघयं घयकिट्टी, पक्कोसहिउपरि तरियसप्पिं च। निभंजण वीसंदण, गई घय विगय विगइ गया // 23 // औषधैः पक्वं घृतं सिद्धार्थकादि, तथा घृतकिट्टी-घृतमलं तथा घृतपक्वौषधोपरि तरिकारूपं यत् सर्पिस्तद्विकृतिगतम्, तथा निर्भज्जन पक्वान्नोत्तीण दुग्धघृतमित्यर्थः / तथा विस्पन्दनं दधितरिका कणिक्कानिष्पन्नद्रव्यविशेषः, सपादलक्षप्रसिद्धंघृतविकृतिगतान्येतानिपञ्चापीत्यर्थः। तैलविकृतिगतान्याहतेल्लमली 1 तिलकुट्टी२, दद्ध तेलं 3 तहोसहोदेवरियं / लक्खाइ दय्वपळ, तेल्लं 5 तेलम्मि पंचेव // 235 / / तैलमलिका१तथा तिलकुट्टिः तथा दग्धं तैलं निभजनमित्यर्थः, तथा तैलपक्वौषधोपरिभागे यदुवरितं तथा लाक्षादिद्रव्यपक्वं च तैलम्। एतानि तैलविकृतौ पञ्च तैलविकृतिगतानि। गुडविकृतिगतान्याहअद्धकाडिक्खुरसो 2, गुडपाणीअंच सकराखंडं। पायगुलं गुलविगई, विगइगयाई तु पंचेव // 236|| अर्द्धक्वथितेक्षुरसस्तथा गुडपानीयम्, तथा शर्करा, तथा खण्डम् तथा पाकगुडो येन खज्जकादि लिप्यते गुडविकृतौ विकृतिगतानिएतानि पञ्चैव। पक्वान्ने विकृतिगतान्याहजेणेगेणं तवओ, पूरिज्जइ पूयगेण तब्बीओ। अक्खवियनेहो पचइ, जइ सवे होइ ते विगई // 237 / / एग एगस्सुवरिं, तिन्नोवरि बीअगं च जंपकं / तुप्पेणं तेणं चिय, तइयं गुलहाणिया पमिई // 238|| एकं विकृतिगतं तद्यदेकस्य घाणस्योपरि पच्यते / कोऽभिप्रायः ? प्रक्षिप्तघृतादिके तापके एके नैव पूपके न स