SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ विकंपण 1126 - अभिधानराजेन्द्रः - भाग 6 विकंपण पूर्ण पठनीयं व्याख्यानीयं च / 'ता जया ण' मित्यादि / तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठा--प्राप्तः-- परमप्रकर्षप्राप्त उत्कर्षतः-उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या च द्वादशमुहूर्ता रात्रिः / से निक्खममाणे' इत्यादि / ततः सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन् ससूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अभितराणंतरं ति-सर्वाभ्यन्तरस्य मण्डलस्यानन्तरंबहिर्भूतं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया ण' मित्यादि। तत्र यदा तस्मिन्नवसंवत्सर-सत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य सूर्यश्वारं चरति, चारं चरितुमारभते,'तदाण' मिति प्राग्वत्, द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन पाश्चात्येनाऽहोरात्रेण विकम्प्य चारं चरति। इयमत्र भावना-सर्वाभ्यन्तरेमण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्व शनैः शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखं तथा कथंचन मण्डलगत्या परिभ्रमतियथा तस्याऽहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेक षष्टिभागान् योजमस्यापरे च द्वे योजने अतिक्रान्तो भवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयमण्डल-मुपसम्पन्नो भवति, तत उक्तम्-'तयाणं दो जोयणाई अडयालीसंच एगद्विभागे जोयणस्स एगेणं राइंदिएणं विकंपइत्ता सूरिए चारं चरति तयाण' मित्यादि, तदा सर्वाभ्यन्तरानन्तरद्वितीय-मण्डलचारथरणकाले णमिति पूर्ववत् अष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्तकषष्टिभागाभ्यामूनः, द्वादशमुहूर्ता रात्रिः द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका। तस्मिन्नपि द्वितीये मण्डले प्रथमक्षणादूर्ध्व तथा कथञ्चनाऽपितृतीयमण्डलाभिमुखं मण्डलपरिभ्रमणगत्या चारं चरति यथा तस्याहोरात्रस्य पर्यन्ते द्वितीयमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च तदहिभूते द्वे योजने अतिक्रान्तो भवति, ततो नवसंवत्सरस्य द्वितीयेऽहोरात्रे प्रथमक्षण एव तृतीयं मण्डलमुपसंक्रामति। तथा चाह-'से निक्ख-ममाणे' इत्यादि। स सूर्यो द्वितीयान्मण्डलात् प्रथमक्षणादूर्ध्वं शनैः शनैर्निष्क्रामन्बहिर्मुखं परिमभ्रन् नवसंवत्सरसत्के द्वितीयेऽहो-रात्रे 'अभिंतरतच्चं, ति सर्वाभ्यन्तरान्मण्डलात्तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां यावत्प्रमाणं क्षेत्रं विकम्प्य चारं चरति, तावन्निरूपयितुमाह-'ताजयाण' मित्यादितत्र यदा सूर्यः सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डल मुपसंक्रम्य चारं चरति, तदाद्वाभ्यां रात्रिन्दिवाभ्यां सर्वाभ्यन्तरमण्डलगततदनन्तरद्वितीयमण्डलगताभ्यां पञ्चयोजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य विकम्प्य, तथाहि-एकेनाप्यहोरात्रेण द्वे योजने अष्टाचत्वारिंशच्च योजनस्यैकषष्टिभागा विकम्पिता द्वितीयेनाप्यहोरात्रेण / तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति एतावन्मात्रं विकम्प्य चारं चरति। 'तया ण' मित्यादि, रात्रिन्दिवपरिमाणं सुगमम्। सम्प्रति शेषमण्डलेषु गमनमाह-एवं खलुं, इत्यादि, एवमुक्तेन प्रकारेण खलु-निश्चितमेतेनोपायेन तत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्व शनैः शनैस्तत्तदहिभूतमण्डलाभिमुखगमनरूपेण तस्मात्तन्मण्डलान्निष्क्रामन् तदनन्तरान् मण्डलात्तदनन्तरं मण्डलं संक्रामन् 2 एकैकेन रात्रिन्द्रिवेन द्वे द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य निष्कम्पयन् 2 प्रथमषण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति। 'ता जयाण' मित्यादि, सुगमम्। 'तया ण' मित्यादि, तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय-अवधीकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, त्र्यशीतेन-त्र्यशीत्यधिकेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य, तथाहि-एकैकस्मिन्नहोरात्रेद्वेद्वेयोजने अष्टचत्वारिंशतंचैकषष्टिभागान्योजनस्य विकम्पयति, ततो द्वे द्वे योजनेत्र्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणि शतानि षट्षष्ट्यधिकानि 366 येऽपि चाष्टाचत्वारिंशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकेनशतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि 8784, तेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धं चतुश्चत्वारिंशं योजनशतम् 144, एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पञ्च शतानि दशोत्तराणि 510, एतावत्प्रमाणं विकम्प्य चारं चरति / 'तया ण' मित्यादि, रात्रिन्दिवपरिमाणं सुगमम्, सर्वबाह्ये च मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैरभ्यन्तरसर्वबाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथंचनापि मण्डलगत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्रपर्यवसाने सर्वबाह्यमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च द्वेयोजने अतिक्रम्य सर्वबाह्यानन्तरद्वि-तीयमण्डसीमायां वर्तते, ततोऽनन्तरे द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह- 'से पविसमाणे' इत्यादि, स सूर्यः सर्वबाह्यान्मण्डलादुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोरात्रे 'बाहिराणंतरं' ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरं द्वितीयमनन्तरमण्डलमुपसंक्रम्य चारं चरति, 'ता जया ण' मित्यादि, 'ता' इति-तत्र यदा सूर्यो बाह्यानन्तरंसर्वबाह्यमण्डलानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन रात्रिंदिवेन सर्वबाह्यमण्डलगतेन प्रथमषण्मासपर्यवसानभूतेन व योजने अष्टाचत्वारिंशतं च एकषष्टिभागान योजनस्य विकम्प्य, एतच्चानन्तरमेव भावितं, चारं चरति-चारं प्रतिपद्यते। 'तया ण मित्यादि, रात्रिन्दिवपरिमाणं सुगमम्। 'से पविसमाणे' इत्यादि। स सूर्यः सर्वबाह्यानन्तराभ्यन्तरद्वितीयमण्डलादपि प्रथमक्षणादूर्ध्वं शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरतच्च' ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति, 'ताजयाण' मित्यादि, तत्र यदा सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वबाह्यमण्डलगतसर्वबाह्यानन्तरद्वितीयमण्डलगताभ्यां पञ्चयोज
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy