________________ मणपज्जवणाण 61- अभिधानराजेन्द्रः - भाग 6 मणपदुट्ठवंदण नाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विभङ्ग दर्शनमिष्यते, तथा मनःपर्यायदर्शनमपि भविष्यति। ततः तेन मनःपर्यायज्ञानी पश्यति इत्युपपत्स्यत एवति / अत्र सूरिराहगन्वेतत् श्रुतांतीतमागमविरुद्धमेव त्वपा भणितम् / / 818 // कुतः? इत्याहजेण मणोनाणविओ, दो तिण्णि व दंसणाइँ भणियाइं। जइ ओहिदसणं होज होज नियमेण तो तिण्णि / / 16 / / यस्माद्भगवत्यामाशीविषोद्देशके मनःपर्यायज्ञाने-चक्षुरचक्षुर्दर्शनलक्षणे द्वे दर्शने, चक्षुरचक्षुरवधिदर्शनलक्षणानि त्रीणि वा दर्शनानि प्रोक्तानियो मतिश्रुतमनःपर्यायज्ञानत्रितयवांस्तस्य द्वे दर्शने, यस्तुमतिश्रुताऽवधिमनःपर्यायज्ञानचतुष्टयवास्तस्य त्रीणि दर्शनानीति भावः / तस्मादुत्सूत्र मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाऽभिधानम् / यदि पुनरित्थं स्यात, तदा मतिश्रुतमनःपर्यायज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि द्वे, तस्मात् श्रुतातीतमिदमिति॥८१६।। अन्ये त्वाहुः, किम् ? इत्याहअन्ने उ मणोनाणी, जाणइ पासइय जोऽवहिसमग्गो। इयरो य जाणइ च्चिय, संभवमेत्तं सुएऽभिहियं / / 820|| अन्ये तु मन्यन्तेयोऽवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्मानीत्यर्थः, अस्मै मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन तु पश्यति / यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् / अतो मनःपर्यायज्ञानमात्रमाश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिसूत्रेऽभिहितमिति // 820 / / / अन्ये तु'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याहअन्ने जं साऽऽगारं, तो तं नाणं न दंसणं तम्मि। जम्हा पुण पचक्खं, पेच्छइ तो तेण तन्नाणी / / 21 / / अन्ये त्वाहुःयद्यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञान साकारमेवोत्पद्यते, 'तोत्ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधिकेवलयोरिव दर्शनमस्ति। तर्हि पश्यति' इति कथम, इत्याह-यस्मात् पुनः, प्रत्यक्ष मनःपर्यायज्ञानं, 'तो त्ति' ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानीस चासो ज्ञानी चतत्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः / इदमुक्तं भवति-'दृशिर प्रेक्षणे' प्रकृष्ट चेक्षण प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम्, अतस्तेन पश्यतीति घटत एव / साकारत्वेन तु तस्य ज्ञानत्वात् 'तेन जानाति' इति निर्विवादमेव सिद्धम् / तस्माद् दर्शनाभावेऽपि यथोक्तन्यायात् | 'मनःपर्यायज्ञानी जानाति, पश्यति' इत्युपपद्यत एवेति / एतदपि मूलटीकाकृता दूषितमेव, तद्यथा-ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शन नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु इति विरुद्धवयं वाचोयुक्तिः, साकारात्वेन निषिद्धस्यापीह दर्शनस्य दृश्यतेऽ-- नेनेति दर्शनम्' इति व्युत्पत्त्या सामार्थ्यादापत्तेः / किच 'जानाति' इत्यनेनाऽत्र साकारत्वं स्थापितम्, 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्मप्राप्त्याऽपि न किञ्चिदेतदिति // 21 // आह-यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, सदोषाश्च केऽपि कथञ्चित्, तह्याचार्यस्य कोऽभिप्रायः? इत्याशङ्कयाऽऽहभण्णइ पन्नवणाए, मणपज्जवनाणपासणा भणिया। तो एव पासए सो, संदेहो हेउणा केण ? ||22|| भण्यते स्थितः पक्षोऽत्र / कः ? इत्याहप्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयागविशेषरूपा पश्यता प्रोक्ता, तयैवासौ मनःपर्यायज्ञानी पश्यति' इति व्यपदिश्यते। तत् केन किल हेतुनाऽभिप्रायान्तरवादिना सन्देहोऽत्र, येनाऽपराऽपरान् निजनिजाऽभिप्रायानत्र प्रकटयन्ति ? तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निर्दोषत्वादिति भावः / प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीत्वात्, केषुचिद् भाष्यपुस्तकेष्वदर्शनाच केवलं केषुचिद् भाष्यपुस्तकेषु दर्शनात्, किञ्चित्साऽभिप्रायत्वाचाऽस्माभिर्गृहीता। इति द्वादशगाथाऽर्थः / सत्पदप्ररूपणताऽऽदयोऽस्यापि* अवधिवद्वाच्याः, केवलमप्रमत्तसंयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् // 822 / / विशे० / आ० चू० / भ० / आ० म०। प्रज्ञा० / सम्म० / रा०।* मनः पर्यायज्ञानस्यापि। मणपज्जवणाणजिण पुं० (मनःपर्यवज्ञानजिन) रागद्वेषमोहान् जयतीति जिनस्तत्र मनःपर्यवज्ञानप्रधानो जिनो मनःपर्यवज्ञानजिनः / तादृशे जिने, स्था०३ ठा०४ उ०। मणपज्जवणाणावरण न० (मनःपर्यायज्ञानाऽऽवरण) मनसःपर्याया बाह्यवस्त्वालोचनप्रकाराः धर्मा मनःपर्यायास्तेषु तेषा वा सम्बन्धि ज्ञान मनःपर्यायज्ञानम्, तस्याऽऽवरणं मनःपर्यायज्ञानाऽवरणम् / ज्ञानाऽऽवरणकर्मभेद, कर्म०६ कर्म०। मणपडिचारग पुं० (मनःपरिचारक) मनस्येवोपस्थिताना स्त्रीणामुपभोक्तरि, स्था०। दो इंदा मणपरियारगा पण्णत्ता। तं जहापाणए चेव, अचुए चेव / अनन्ताऽऽदिषु चतुषु कल्पेषु मनःपरिचारका देवा भवन्तीति। स्था०२ टा०४ उ० / प्रज्ञा०। मणपडिसंलीण पुं० (मनःप्रतिसंलीन) कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसलीनं यस्य सः, मनसा वा प्रतिसंलीनो मनः प्रतिसंलीनः / प्रतिसंलीनभेदे, स्था०४ ठा०२ उ० / मणपदुट्ठवंदण न० (मनःप्रद्विष्टवन्दन) केनचिद् गुणेन हीनस्य वन्द्यस्य तथैव मनसीकृत्य साऽसूयं वन्दने, आ० चू०३ अ०। नवममाहअप्पपरपत्तिएणं, मणप्पदोसो अणेगउट्ठाणो। मनः प्रद्वेषः अनेकोत्थानोऽनेक निमित्तो भवति / स च सर्वाऽप्यात्मप्रत्ययेन, परप्रत्येन वा स्यात् / तत्राऽऽत्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित्सरोषमभिहितो भवति / परप्रत्ययेन तु यदा