________________ मणपज्जवणाण 60- अभिधानराजेन्द्रः - भाग 6 मणपज्जवणाण न भवन्ति, किमेतद् व्यवच्छेदपरेण तद्गतग्रहणेन ? इति, मनोद्रव्याणि द्रष्टा पश्चादनुमानेते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपिसह संबन्धमात्रस्य विद्यमानत्वात् / एतदेवाऽऽहतेन द्रव्यमनसाऽवभासितान् प्रकाशितान् वाह्याश्चिन्तनीयघटाऽऽदीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवंविघेनेह चिन्तनीयवस्तुना भाव्यम् इत्येवं चिन्तनीयवस्तूनि जानाति न साज्ञादित्यर्थः / चिन्तको हि मूर्तममूर्त च वस्तु चिन्तयेत्। न च छद्मस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते अनुमानादेव चिन्तनीयं वस्त्ववगच्छति। कियति कस्मिँश्च काले मनोद्रव्यपर्यायानसौ जानाति ? इत्याह 'काले भूतेत्यादि' भूतेऽतीते. भविष्यति चाऽनागते पल्योपमासङ्घयेयाभागरूपे काले ये तेषां मनोद्रव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताश्चिन्तानुगुणाः पर्यायास्तान्जानातीति / / 813||814 // अत्र चान्तरे"तसमासओ च उव्विहं पन्नत्तं, तंजहा-दव्वओ, खेत्तओ, कालओ, भावओ। दव्वओंणं उजुमइ अणते अणंतपएसिए खंधे जाणइ पासइ।" इत्यादि नन्दिसूत्रेऽभिहितम्। तत्र मनः पर्यायज्ञानं पटुक्षयो, पशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते, न सामान्यम्, अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तरिमन् पश्यतीत्युतपद्यते, इति कथमिहोक्तं पासइ' इति ? इति वेतसि संप्रधार्य प्राऽऽहसो य किर अचक्खुइंसणेण पासइ जहा सुयन्नाणी। जुत्तुं सुए परोक्खे, पचक्खे न उमणोनाणे? ||15|| स च मनः पर्यायज्ञानी किलाऽचक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषाञ्चिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीतिप्रागुक्तम्। तथा च पूर्वमभिहितम्'उवउत्तो सुयनाणी, सव्वं दव्वाइँ जाणइजहत्थं / पासइय केइ सो पुण, तमचक्खुद्दसणेणं ति॥१॥' इत्यादि, इदमत्र हृदयम्- परस्य घटाssदिकमर्थं चिन्तयतः साक्षादेव मनः पर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाऽचक्षुर्दर्शनेन विकल्पयति, अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते / ततश्चैकस्यैव मनः पर्यायज्ञानिनः प्रमातुर्मनः पर्यायज्ञानादनन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यते, इत्यसावेक एव प्रमाता मनः पर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दशनेन | पश्यतीत्यभिधी यत इति / अत्र कश्चित् प्रेरकः प्राह-'जुत्तमित्यादि' "मतिश्रुते परोक्षम्" इतिवचनात् परोक्षार्थविषयं श्रुतज्ञानम्, अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेव, इत्यतो युक्तं घटमानकं श्रुतज्ञानविषयभूते मेरु- स्वर्गाऽऽदिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् तस्याऽपि तदालम्बनत्वेन समानविषयत्वात् / किं पुनस्तर्हि नयुक्तम् ? इत्याह'न उ इत्यादि' "अवधि-मनःपर्यायकेवलानि प्रत्यक्षम्।' इति वचनात पुनः प्रत्यक्षार्थविषय मनःपर्यायज्ञानम्। अतः परोक्षार्थविषयस्याचक्षुर्दशनस्य कथं तत्र प्रवृनिरभ्युपगम्यते, भिन्नविषयत्वात् ? // 815 / / अत्र सूरिराहजइ जुञ्जए परोक्खे, पच्चक्खे नणु विसेसओ घडइ। नाणं जइ पचक्खं, न दंसणं तस्स को दोसो ? ||16|| योते परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतराम- | स्येयमङ्गीकर्तव्या, विशेषेण तस्य तदनुग्राहकत्वात्, चक्षुःप्रत्यक्षोपलब्धघटाऽऽदिवदिति। अत्राऽह-को वैनमन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुदर्शनस्याऽनुग्राहक- इति ?, केवल प्रत्यक्षमनोद्रव्यार्थग्राहकत्वादित्थं मनःपर्यायज्ञानस्य प्रत्यक्षतायुज्यते, न, पुनरचतुर्दर्शनस्य, मतिभेदत्वेन तस्य परोक्षार्थग्रहकत्वात् / ततः प्रत्यक्षज्ञानित्वं मनः पर्यायज्ञानिनो विरुध्येत, इत्याशङ्कयाऽऽह- 'नाणं जइ' इत्यादि। यदि मनःपर्यायज्ञानलक्षणं ज्ञानं प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम्, नत्वचक्षुर्दर्शनलक्षणं दर्शन प्रत्यक्षम, परोक्षार्थग्राहकत्वेन परोक्षार्थत्वात, तर्हि हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञानिताया को दोषः-को विरोधः ? न कश्चित्. भिन्नविषयत्वात्, अवधिज्ञानिनश्चक्षुर्दर्शनाऽचक्षुर्दर्शनवदिति / न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तददिहाऽपि / तस्माद् मनःपर्यायज्ञानी स्वज्ञानेन मनोद्रव्यपर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् // 816 // __अन्ये तु पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयतिअन्नेऽवहिदसणओ, वयंति न य तस्स तं सुए भणियं / नय मणपज्जवदंसणमन्नं च चउप्पयाराओ।।८१७|| अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति। एतचाऽयुक्तमेव, इत्याह-न च-नैव तस्य मनःपर्यायज्ञानिनस्तदवधिदर्शनं श्रुतेऽभिहितम्। न हि मनः पर्यायज्ञानिनाडवधिज्ञानदर्शनाभ्यामवश्यमेव भवितव्यम्, अवधिमन्तरेणाऽपि मतिश्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह"मणपज्जवनाणलवीया ण भंते ! जीवा कि नाणी, अन्नाणी? गोयमा! नाणी, नो अन्नाणी। अत्थेगइया तिन्नाणी, अत्थेगइया चउनाणी जे तिन्नाणी ते आभिणिबोहियसुयमणपज्जवनाणी, जे चउनाणी ते आभिणिबोहियसुयओहिमणपज्जवनाणी।" तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते ? अथैवं मन्यसेकिमेतैर्बहुभिः प्रलपितैः ! यथा-अवधेर्दर्शनम, तथा मनः पर्यायस्याऽपि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशयाऽऽह'नय मणे' त्यादि, न चनैव चतुष्प्रकाराचक्षुरादिदर्शनादन्यत् पञ्चम मनःपर्यायदर्शन श्रुते भणितम्, येन पश्यतीत्युपपत्स्यते। तथा चाऽऽह-"कइविहे ण भंते ! दंसणे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते / तं जहा-चक्खुद्दसणे, अचक्खुद्दसणे ओहिदसणे केवलदसणे।" इति / तस्मात् पञ्चमस्य मनःपर्यायदर्शनस्यानुक्तत्वात् तेन पश्यति' इत्येतदपि नोपपद्यत इति // 817 / / अभिप्रायान्तरमाशङ्कमान आहअहवा मणपज्जवदसणस्समयमोहिदंसण सण्णा। विभंगदंसणस्स व, नणु भणियमिदं सुयाईयं / / 818|| अथवाकश्चिदेवं मन्ये तयथा विभङ्ग दर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शनमिति संज्ञाऽभिमता भविष्यति / इदमुक्तं भवतिचक्षुरादिदर्शनचतुष्टयाऽऽधिक्ये -